३. वनपर्व
३.२३५.१वैशंपायन उवाच

३.२३५.२ततोऽर्जुनश्चित्रसेनं प्रहसन्निदमब्रवीत्
मध्ये गन्धर्वसैन्यानां महेष्वासो महाद्युतिः

३.२३५.३किं ते व्यवसितं वीर कौरवाणां विनिग्रहे
किमर्थं च सदारोऽयं निगृहीतः सुयोधनः

३.२३५.४चित्रसेन उवाच

३.२३५.५विदितोऽयमभिप्रायस्तत्रस्थेन महात्मना
दुर्योधनस्य पापस्य कर्णस्य च धनंजय

३.२३५.६वनस्थान्भवतो ज्ञात्वा क्लिश्यमानाननर्हवत्
इमेऽवहसितुं प्राप्ता द्रौपदीं च यशस्विनीम्

३.२३५.७ज्ञात्वा चिकीर्षितं चैषां मामुवाच सुरेश्वरः
गच्छ दुर्योधनं बद्ध्वा सामात्यं त्वमिहानय

३.२३५.८धनंजयश्च ते रक्ष्यः सह भ्रातृभिराहवे
स हि प्रियः सखा तुभ्यं शिष्यश्च तव पाण्डवः

३.२३५.९वचनाद्देवराजस्य ततोऽस्मीहागतो द्रुतम्
अयं दुरात्मा बद्धश्च गमिष्यामि सुरालयम्

३.२३५.१०अर्जुन उवाच

३.२३५.११उत्सृज्यतां चित्रसेन भ्रातास्माकं सुयोधनः
धर्मराजस्य संदेशान्मम चेदिच्छसि प्रियम्

३.२३५.१२चित्रसेन उवाच

३.२३५.१३पापोऽयं नित्यसंदुष्टो न विमोक्षणमर्हति
प्रलब्धा धर्मराजस्य कृष्णायाश्च धनंजय

३.२३५.१४नेदं चिकीर्षितं तस्य कुन्तीपुत्रो महाव्रतः
जानाति धर्मराजो हि श्रुत्वा कुरु यथेच्छसि

३.२३५.१५वैशंपायन उवाच

३.२३५.१६ते सर्व एव राजानमभिजग्मुर्युधिष्ठिरम्
अभिगम्य च तत्सर्वं शशंसुस्तस्य दुष्कृतम्

३.२३५.१७अजातशत्रुस्तच्छ्रुत्वा गन्धर्वस्य वचस्तदा
मोक्षयामास तान्सर्वान्गन्धर्वान्प्रशशंस च

३.२३५.१८दिष्ट्या भवद्भिर्बलिभिः शक्तैः सर्वैर्न हिंसितः
दुर्वृत्तो धार्तराष्ट्रोऽयं सामात्यज्ञातिबान्धवः

३.२३५.१९उपकारो महांस्तात कृतोऽयं मम खेचराः
कुलं न परिभूतं मे मोक्षेणास्य दुरात्मनः

३.२३५.२०आज्ञापयध्वमिष्टानि प्रीयामो दर्शनेन वः
प्राप्य सर्वानभिप्रायांस्ततो व्रजत माचिरम्

३.२३५.२१अनुज्ञातास्तु गन्धर्वाः पाण्डुपुत्रेण धीमता
सहाप्सरोभिः संहृष्टाश्चित्रसेनमुखा ययुः

३.२३५.२२देवराडपि गन्धर्वान्मृतांस्तान्समजीवयत्
दिव्येनामृतवर्षेण ये हताः कौरवैर्युधि

३.२३५.२३ज्ञातींस्तानवमुच्याथ राजदारांश्च सर्वशः
कृत्वा च दुष्करं कर्म प्रीतियुक्ताश्च पाण्डवाः

३.२३५.२४सस्त्रीकुमारैः कुरुभिः पूज्यमाना महारथाः
बभ्राजिरे महात्मानः कुरुमध्ये यथाग्नयः

३.२३५.२५ततो दुर्योधनं मुच्य भ्रातृभिः सहितं तदा
युधिष्ठिरः सप्रणयमिदं वचनमब्रवीत्

३.२३५.२६मा स्म तात पुनः कार्षीरीदृशं साहसं क्वचित्
न हि साहसकर्तारः सुखमेधन्ति भारत

३.२३५.२७स्वस्तिमान्सहितः सर्वैर्भ्रातृभिः कुरुनन्दन
गृहान्व्रज यथाकामं वैमनस्यं च मा कृथाः

३.२३५.२८पाण्डवेनाभ्यनुज्ञातो राजा दुर्योधनस्तदा
विदीर्यमाणो व्रीडेन जगाम नगरं प्रति

३.२३५.२९तस्मिन्गते कौरवेये कुन्तीपुत्रो युधिष्ठिरः
भ्रातृभिः सहितो वीरः पूज्यमानो द्विजातिभिः

३.२३५.३०तपोधनैश्च तैः सर्वैर्वृतः शक्र इवामरैः
वने द्वैतवने तस्मिन्विजहार मुदा युतः