३. वनपर्व
३.२३७.१दुर्योधन उवाच

३.२३७.२अजानतस्ते राधेय नाभ्यसूयाम्यहं वचः
जानासि त्वं जिताञ्शत्रून्गन्धर्वांस्तेजसा मया

३.२३७.३आयोधितास्तु गन्धर्वाः सुचिरं सोदरैर्मम
मया सह महाबाहो कृतश्चोभयतः क्षयः

३.२३७.४मायाधिकास्त्वयुध्यन्त यदा शूरा वियद्गताः
तदा नो नसमं युद्धमभवत्सह खेचरैः

३.२३७.५पराजयं च प्राप्ताः स्म रणे बन्धनमेव च
सभृत्यामात्यपुत्राश्च सदारधनवाहनाः
उच्चैराकाशमार्गेण ह्रियामस्तैः सुदुःखिताः

३.२३७.६अथ नः सैनिकाः केचिदमात्याश्च महारथान्
उपगम्याब्रुवन्दीनाः पाण्डवाञ्शरणप्रदान्

३.२३७.७एष दुर्योधनो राजा धार्तराष्ट्रः सहानुजः
सामात्यदारो ह्रियते गन्धर्वैर्दिवमास्थितैः

३.२३७.८तं मोक्षयत भद्रं वः सहदारं नराधिपम्
परामर्शो मा भविष्यत्कुरुदारेषु सर्वशः

३.२३७.९एवमुक्ते तु धर्मात्मा ज्येष्ठः पाण्डुसुतस्तदा
प्रसाद्य सोदरान्सर्वानाज्ञापयत मोक्षणे

३.२३७.१०अथागम्य तमुद्देशं पाण्डवाः पुरुषर्षभाः
सान्त्वपूर्वमयाचन्त शक्ताः सन्तो महारथाः

३.२३७.११यदा चास्मान्न मुमुचुर्गन्धर्वाः सान्त्विता अपि
ततोऽर्जुनश्च भीमश्च यमजौ च बलोत्कटौ
मुमुचुः शरवर्षाणि गन्धर्वान्प्रत्यनेकशः

३.२३७.१२अथ सर्वे रणं मुक्त्वा प्रयाताः खचरा दिवम्
अस्मानेवाभिकर्षन्तो दीनान्मुदितमानसाः

३.२३७.१३ततः समन्तात्पश्यामि शरजालेन वेष्टितम्
अमानुषाणि चास्त्राणि प्रयुञ्जानं धनंजयम्

३.२३७.१४समावृता दिशो दृष्ट्वा पाण्डवेन शितैः शरैः
धनंजयसखात्मानं दर्शयामास वै तदा

३.२३७.१५चित्रसेनः पाण्डवेन समाश्लिष्य परंतपः
कुशलं परिपप्रच्छ तैः पृष्टश्चाप्यनामयम्

३.२३७.१६ते समेत्य तथान्योन्यं संनाहान्विप्रमुच्य च
एकीभूतास्ततो वीरा गन्धर्वाः सह पाण्डवैः
अपूजयेतामन्योन्यं चित्रसेनधनंजयौ