३. वनपर्व
३.२३८.१दुर्योधन उवाच

३.२३८.२चित्रसेनं समागम्य प्रहसन्नर्जुनस्तदा
इदं वचनमक्लीबमब्रवीत्परवीरहा

३.२३८.३भ्रातॄनर्हसि नो वीर मोक्तुं गन्धर्वसत्तम
अनर्हा धर्षणं हीमे जीवमानेषु पाण्डुषु

३.२३८.४एवमुक्तस्तु गन्धर्वः पाण्डवेन महात्मना
उवाच यत्कर्ण वयं मन्त्रयन्तो विनिर्गताः
द्रष्टारः स्म सुखाद्धीनान्सदारान्पाण्डवानिति

३.२३८.५तस्मिन्नुच्चार्यमाणे तु गन्धर्वेण वचस्यथ
भूमेर्विवरमन्वैच्छं प्रवेष्टुं व्रीडयान्वितः

३.२३८.६युधिष्ठिरमथागम्य गन्धर्वाः सह पाण्डवैः
अस्मद्दुर्मन्त्रितं तस्मै बद्धांश्चास्मान्न्यवेदयन्

३.२३८.७स्त्रीसमक्षमहं दीनो बद्धः शत्रुवशं गतः
युधिष्ठिरस्योपहृतः किं नु दुःखमतः परम्

३.२३८.८ये मे निराकृता नित्यं रिपुर्येषामहं सदा
तैर्मोक्षितोऽहं दुर्बुद्धिर्दत्तं तैर्जीवितं च मे

३.२३८.९प्राप्तः स्यां यद्यहं वीर वधं तस्मिन्महारणे
श्रेयस्तद्भविता मह्यमेवंभूतं न जीवितम्

३.२३८.१०भवेद्यशः पृथिव्यां मे ख्यातं गन्धर्वतो वधात्
प्राप्ताश्च लोकाः पुण्याः स्युर्महेन्द्रसदनेऽक्षयाः

३.२३८.११यत्त्वद्य मे व्यवसितं तच्छृणुध्वं नरर्षभाः
इह प्रायमुपासिष्ये यूयं व्रजत वै गृहान्
भ्रातरश्चैव मे सर्वे प्रयान्त्वद्य पुरं प्रति

३.२३८.१२कर्णप्रभृतयश्चैव सुहृदो बान्धवाश्च ये
दुःशासनं पुरस्कृत्य प्रयान्त्वद्य पुरं प्रति

३.२३८.१३न ह्यहं प्रतियास्यामि पुरं शत्रुनिराकृतः
शत्रुमानापहो भूत्वा सुहृदां मानकृत्तथा

३.२३८.१४स सुहृच्छोकदो भूत्वा शत्रूणां हर्षवर्धनः
वारणाह्वयमासाद्य किं वक्ष्यामि जनाधिपम्

३.२३८.१५भीष्मो द्रोणः कृपो द्रौणिर्विदुरः संजयस्तथा
बाह्लीकः सोमदत्तश्च ये चान्ये वृद्धसंमताः

३.२३८.१६ब्राह्मणाः श्रेणिमुख्याश्च तथोदासीनवृत्तयः
किं मां वक्ष्यन्ति किं चापि प्रतिवक्ष्यामि तानहम्

३.२३८.१७रिपूणां शिरसि स्थित्वा तथा विक्रम्य चोरसि
आत्मदोषात्परिभ्रष्टः कथं वक्ष्यामि तानहम्

३.२३८.१८दुर्विनीताः श्रियं प्राप्य विद्यामैश्वर्यमेव च
तिष्ठन्ति न चिरं भद्रे यथाहं मदगर्वितः

३.२३८.१९अहो बत यथेदं मे कष्टं दुश्चरितं कृतम्
स्वयं दुर्बुद्धिना मोहाद्येन प्राप्तोऽस्मि संशयम्

३.२३८.२०तस्मात्प्रायमुपासिष्ये न हि शक्ष्यामि जीवितुम्
चेतयानो हि को जीवेत्कृच्छ्राच्छत्रुभिरुद्धृतः

३.२३८.२१शत्रुभिश्चावहसितो मानी पौरुषवर्जितः
पाण्डवैर्विक्रमाढ्यैश्च सावमानमवेक्षितः

३.२३८.२२वैशंपायन उवाच

३.२३८.२३एवं चिन्तापरिगतो दुःशासनमथाब्रवीत्
दुःशासन निबोधेदं वचनं मम भारत

३.२३८.२४प्रतीच्छ त्वं मया दत्तमभिषेकं नृपो भव
प्रशाधि पृथिवीं स्फीतां कर्णसौबलपालिताम्

३.२३८.२५भ्रातॄन्पालय विस्रब्धं मरुतो वृत्रहा यथा
बान्धवास्त्वोपजीवन्तु देवा इव शतक्रतुम्

३.२३८.२६ब्राह्मणेषु सदा वृत्तिं कुर्वीथाश्चाप्रमादतः
बन्धूनां सुहृदां चैव भवेथास्त्वं गतिः सदा

३.२३८.२७ज्ञातींश्चाप्यनुपश्येथा विष्णुर्देवगणानिव
गुरवः पालनीयास्ते गच्छ पालय मेदिनीम्

३.२३८.२८नन्दयन्सुहृदः सर्वाञ्शात्रवांश्चावभर्त्सयन्
कण्ठे चैनं परिष्वज्य गम्यतामित्युवाच ह

३.२३८.२९तस्य तद्वचनं श्रुत्वा दीनो दुःशासनोऽब्रवीत्
अश्रुकण्ठः सुदुःखार्तः प्राञ्जलिः प्रणिपत्य च
सगद्गदमिदं वाक्यं भ्रातरं ज्येष्ठमात्मनः

३.२३८.३०प्रसीदेत्यपतद्भूमौ दूयमानेन चेतसा
दुःखितः पादयोस्तस्य नेत्रजं जलमुत्सृजन्

३.२३८.३१उक्तवांश्च नरव्याघ्रो नैतदेवं भविष्यति
विदीर्येत्सनगा भूमिर्द्यौश्चापि शकलीभवेत्
रविरात्मप्रभां जह्यात्सोमः शीतांशुतां त्यजेत्

३.२३८.३२वायुः शैघ्र्यमथो जह्याद्धिमवांश्च परिव्रजेत्
शुष्येत्तोयं समुद्रेषु वह्निरप्युष्णतां त्यजेत्

३.२३८.३३न चाहं त्वदृते राजन्प्रशासेयं वसुंधराम्
पुनः पुनः प्रसीदेति वाक्यं चेदमुवाच ह
त्वमेव नः कुले राजा भविष्यसि शतं समाः

३.२३८.३४एवमुक्त्वा स राजेन्द्र सस्वनं प्ररुरोद ह
पादौ संगृह्य मानार्हौ भ्रातुर्ज्येष्ठस्य भारत

३.२३८.३५तथा तौ दुःखितौ दृष्ट्वा दुःशासनसुयोधनौ
अभिगम्य व्यथाविष्टः कर्णस्तौ प्रत्यभाषत

३.२३८.३६विषीदथः किं कौरव्यौ बालिश्यात्प्राकृताविव
न शोकः शोचमानस्य विनिवर्तेत कस्यचित्

३.२३८.३७यदा च शोचतः शोको व्यसनं नापकर्षति
सामर्थ्यं किं त्वतः शोके शोचमानौ प्रपश्यथः
धृतिं गृह्णीत मा शत्रूञ्शोचन्तौ नन्दयिष्यथः

३.२३८.३८कर्तव्यं हि कृतं राजन्पाण्डवैस्तव मोक्षणम्
नित्यमेव प्रियं कार्यं राज्ञो विषयवासिभिः
पाल्यमानास्त्वया ते हि निवसन्ति गतज्वराः

३.२३८.३९नार्हस्येवंगते मन्युं कर्तुं प्राकृतवद्यथा
विषण्णास्तव सोदर्यास्त्वयि प्रायं समास्थिते
उत्तिष्ठ व्रज भद्रं ते समाश्वासय सोदरान्

३.२३८.४०राजन्नद्यावगच्छामि तवेह लघुसत्त्वताम्
किमत्र चित्रं यद्वीर मोक्षितः पाण्डवैरसि
सद्यो वशं समापन्नः शत्रूणां शत्रुकर्शन

३.२३८.४१सेनाजीवैश्च कौरव्य तथा विषयवासिभिः
अज्ञातैर्यदि वा ज्ञातैः कर्तव्यं नृपतेः प्रियम्

३.२३८.४२प्रायः प्रधानाः पुरुषाः क्षोभयन्त्यरिवाहिनीम्
निगृह्यन्ते च युद्धेषु मोक्ष्यन्ते च स्वसैनिकैः

३.२३८.४३सेनाजीवाश्च ये राज्ञां विषये सन्ति मानवाः
तैः संगम्य नृपार्थाय यतितव्यं यथातथम्

३.२३८.४४यद्येवं पाण्डवै राजन्भवद्विषयवासिभिः
यदृच्छया मोक्षितोऽद्य तत्र का परिदेवना

३.२३८.४५न चैतत्साधु यद्राजन्पाण्डवास्त्वां नृपोत्तम
स्वसेनया संप्रयान्तं नानुयान्ति स्म पृष्ठतः

३.२३८.४६शूराश्च बलवन्तश्च संयुगेष्वपलायिनः
भवतस्ते सभायां वै प्रेष्यतां पूर्वमागताः

३.२३८.४७पाण्डवेयानि रत्नानि त्वमद्याप्युपभुञ्जसे
सत्त्वस्थान्पाण्डवान्पश्य न ते प्रायमुपाविशन्
उत्तिष्ठ राजन्भद्रं ते न चिन्तां कर्तुमर्हसि

३.२३८.४८अवश्यमेव नृपते राज्ञो विषयवासिभिः
प्रियाण्याचरितव्यानि तत्र का परिदेवना

३.२३८.४९मद्वाक्यमेतद्राजेन्द्र यद्येवं न करिष्यसि
स्थास्यामीह भवत्पादौ शुश्रूषन्नरिमर्दन

३.२३८.५०नोत्सहे जीवितुमहं त्वद्विहीनो नरर्षभ
प्रायोपविष्टस्तु नृप राज्ञां हास्यो भविष्यसि

३.२३८.५१वैशंपायन उवाच

३.२३८.५२एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा
नैवोत्थातुं मनश्चक्रे स्वर्गाय कृतनिश्चयः