३. वनपर्व
३.२४०.१दानवा ऊचुः

३.२४०.२भोः सुयोधन राजेन्द्र भरतानां कुलोद्वह
शूरैः परिवृतो नित्यं तथैव च महात्मभिः

३.२४०.३अकार्षीः साहसमिदं कस्मात्प्रायोपवेशनम्
आत्मत्यागी ह्यवाग्याति वाच्यतां चायशस्करीम्

३.२४०.४न हि कार्यविरुद्धेषु बह्वपायेषु कर्मसु
मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः

३.२४०.५नियच्छैतां मतिं राजन्धर्मार्थसुखनाशिनीम्
यशःप्रतापधैर्यघ्नीं शत्रूणां हर्षवर्धनीम्

३.२४०.६श्रूयतां च प्रभो तत्त्वं दिव्यतां चात्मनो नृप
निर्माणं च शरीरस्य ततो धैर्यमवाप्नुहि

३.२४०.७पुरा त्वं तपसास्माभिर्लब्धो देवान्महेश्वरात्
पूर्वकायश्च सर्वस्ते निर्मितो वज्रसंचयैः

३.२४०.८अस्त्रैरभेद्यः शस्त्रैश्चाप्यधःकायश्च तेऽनघ
कृतः पुष्पमयो देव्या रूपतः स्त्रीमनोहरः

३.२४०.९एवमीश्वरसंयुक्तस्तव देहो नृपोत्तम
देव्या च राजशार्दूल दिव्यस्त्वं हि न मानुषः

३.२४०.१०क्षत्रियाश्च महावीर्या भगदत्तपुरोगमाः
दिव्यास्त्रविदुषः शूराः क्षपयिष्यन्ति ते रिपून्

३.२४०.११तदलं ते विषादेन भयं तव न विद्यते
साह्यार्थं च हि ते वीराः संभूता भुवि दानवाः

३.२४०.१२भीष्मद्रोणकृपादींश्च प्रवेक्ष्यन्त्यपरेऽसुराः
यैराविष्टा घृणां त्यक्त्वा योत्स्यन्ते तव वैरिभिः

३.२४०.१३नैव पुत्रान्न च भ्रातॄन्न पितॄन्न च बान्धवान्
नैव शिष्यान्न च ज्ञातीन्न बालान्स्थविरान्न च

३.२४०.१४युधि संप्रहरिष्यन्तो मोक्ष्यन्ति कुरुसत्तम
निःस्नेहा दानवाविष्टाः समाक्रान्तेऽन्तरात्मनि

३.२४०.१५प्रहरिष्यन्ति बन्धुभ्यः स्नेहमुत्सृज्य दूरतः
हृष्टाः पुरुषशार्दूलाः कलुषीकृतमानसाः
अविज्ञानविमूढाश्च दैवाच्च विधिनिर्मितात्

३.२४०.१६व्याभाषमाणाश्चान्योन्यं न मे जीवन्विमोक्ष्यसे
सर्वशस्त्रास्त्रमोक्षेण पौरुषे समवस्थिताः
श्लाघमानाः कुरुश्रेष्ठ करिष्यन्ति जनक्षयम्

३.२४०.१७तेऽपि शक्त्या महात्मानः प्रतियोत्स्यन्ति पाण्डवाः
वधं चैषां करिष्यन्ति दैवयुक्ता महाबलाः

३.२४०.१८दैत्यरक्षोगणाश्चापि संभूताः क्षत्रयोनिषु
योत्स्यन्ति युधि विक्रम्य शत्रुभिस्तव पार्थिव
गदाभिर्मुसलैः खड्गैः शस्त्रैरुच्चावचैस्तथा

३.२४०.१९यच्च तेऽन्तर्गतं वीर भयमर्जुनसंभवम्
तत्रापि विहितोऽस्माभिर्वधोपायोऽर्जुनस्य वै

३.२४०.२०हतस्य नरकस्यात्मा कर्णमूर्तिमुपाश्रितः
तद्वैरं संस्मरन्वीर योत्स्यते केशवार्जुनौ

३.२४०.२१स ते विक्रमशौण्डीरो रणे पार्थं विजेष्यति
कर्णः प्रहरतां श्रेष्ठः सर्वांश्चारीन्महारथः

३.२४०.२२ज्ञात्वैतच्छद्मना वज्री रक्षार्थं सव्यसाचिनः
कुण्डले कवचं चैव कर्णस्यापहरिष्यति

३.२४०.२३तस्मादस्माभिरप्यत्र दैत्याः शतसहस्रशः
नियुक्ता राक्षसाश्चैव ये ते संशप्तका इति
प्रख्यातास्तेऽर्जुनं वीरं निहनिष्यन्ति मा शुचः

३.२४०.२४असपत्ना त्वया हीयं भोक्तव्या वसुधा नृप
मा विषादं नयस्वास्मान्नैतत्त्वय्युपपद्यते
विनष्टे त्वयि चास्माकं पक्षो हीयेत कौरव

३.२४०.२५गच्छ वीर न ते बुद्धिरन्या कार्या कथंचन
त्वमस्माकं गतिर्नित्यं देवतानां च पाण्डवाः

३.२४०.२६वैशंपायन उवाच

३.२४०.२७एवमुक्त्वा परिष्वज्य दैत्यास्तं राजकुञ्जरम्
समाश्वास्य च दुर्धर्षं पुत्रवद्दानवर्षभाः

३.२४०.२८स्थिरां कृत्वा बुद्धिमस्य प्रियाण्युक्त्वा च भारत
गम्यतामित्यनुज्ञाय जयमाप्नुहि चेत्यथ

३.२४०.२९तैर्विसृष्टं महाबाहुं कृत्या सैवानयत्पुनः
तमेव देशं यत्रासौ तदा प्रायमुपाविशत्

३.२४०.३०प्रतिनिक्षिप्य तं वीरं कृत्या समभिपूज्य च
अनुज्ञाता च राज्ञा सा तत्रैवान्तरधीयत

३.२४०.३१गतायामथ तस्यां तु राजा दुर्योधनस्तदा
स्वप्नभूतमिदं सर्वमचिन्तयत भारत
विजेष्यामि रणे पाण्डूनिति तस्याभवन्मतिः

३.२४०.३२कर्णं संशप्तकांश्चैव पार्थस्यामित्रघातिनः
अमन्यत वधे युक्तान्समर्थांश्च सुयोधनः

३.२४०.३३एवमाशा दृढा तस्य धार्तराष्ट्रस्य दुर्मतेः
विनिर्जये पाण्डवानामभवद्भरतर्षभ

३.२४०.३४कर्णोऽप्याविष्टचित्तात्मा नरकस्यान्तरात्मना
अर्जुनस्य वधे क्रूरामकरोत्स मतिं तदा

३.२४०.३५संशप्तकाश्च ते वीरा राक्षसाविष्टचेतसः
रजस्तमोभ्यामाक्रान्ताः फल्गुनस्य वधैषिणः

३.२४०.३६भीष्मद्रोणकृपाद्याश्च दानवाक्रान्तचेतसः
न तथा पाण्डुपुत्राणां स्नेहवन्तो विशां पते
न चाचचक्षे कस्मैचिदेतद्राजा सुयोधनः

३.२४०.३७दुर्योधनं निशान्ते च कर्णो वैकर्तनोऽब्रवीत्
स्मयन्निवाञ्जलिं कृत्वा पार्थिवं हेतुमद्वचः

३.२४०.३८न मृतो जयते शत्रूञ्जीवन्भद्राणि पश्यति
मृतस्य भद्राणि कुतः कौरवेय कुतो जयः
न कालोऽद्य विषादस्य भयस्य मरणस्य वा

३.२४०.३९परिष्वज्याब्रवीच्चैनं भुजाभ्यां स महाभुजः
उत्तिष्ठ राजन्किं शेषे कस्माच्छोचसि शत्रुहन्
शत्रून्प्रताप्य वीर्येण स कथं मर्तुमिच्छसि

३.२४०.४०अथ वा ते भयं जातं दृष्ट्वार्जुनपराक्रमम्
सत्यं ते प्रतिजानामि वधिष्यामि रणेऽर्जुनम्

३.२४०.४१गते त्रयोदशे वर्षे सत्येनायुधमालभे
आनयिष्याम्यहं पार्थान्वशं तव जनाधिप

३.२४०.४२एवमुक्तस्तु कर्णेन दैत्यानां वचनात्तथा
प्रणिपातेन चान्येषामुदतिष्ठत्सुयोधनः
दैत्यानां तद्वचः श्रुत्वा हृदि कृत्वा स्थिरां मतिम्

३.२४०.४३ततो मनुजशार्दूलो योजयामास वाहिनीम्
रथनागाश्वकलिलां पदातिजनसंकुलाम्

३.२४०.४४गङ्गौघप्रतिमा राजन्प्रयाता सा महाचमूः
श्वेतच्छत्रैः पताकाभिश्चामरैश्च सुपाण्डुरैः

३.२४०.४५रथैर्नागैः पदातैश्च शुशुभेऽतीव संकुला
व्यपेताभ्रघने काले द्यौरिवाव्यक्तशारदी

३.२४०.४६जयाशीर्भिर्द्विजेन्द्रैस्तु स्तूयमानोऽधिराजवत्
गृह्णन्नञ्जलिमालाश्च धार्तराष्ट्रो जनाधिपः

३.२४०.४७सुयोधनो ययावग्रे श्रिया परमया ज्वलन्
कर्णेन सार्धं राजेन्द्र सौबलेन च देविना

३.२४०.४८दुःशासनादयश्चास्य भ्रातरः सर्व एव ते
भूरिश्रवाः सोमदत्तो महाराजश्च बाह्लिकः

३.२४०.४९रथैर्नानाविधाकारैर्हयैर्गजवरैस्तथा
प्रयान्तं नृपसिंहं तमनुजग्मुः कुरूद्वहाः
कालेनाल्पेन राजंस्ते विविशुः स्वपुरं तदा