३. वनपर्व
३.२४५.१वैशंपायन उवाच

३.२४५.२वने निवसतां तेषां पाण्डवानां महात्मनाम्
वर्षाण्येकादशातीयुः कृच्छ्रेण भरतर्षभ

३.२४५.३फलमूलाशनास्ते हि सुखार्हा दुःखमुत्तमम्
प्राप्तकालमनुध्यान्तः सेहुरुत्तमपूरुषाः

३.२४५.४युधिष्ठिरस्तु राजर्षिरात्मकर्मापराधजम्
चिन्तयन्स महाबाहुर्भ्रातॄणां दुःखमुत्तमम्

३.२४५.५न सुष्वाप सुखं राजा हृदि शल्यैरिवार्पितैः
दौरात्म्यमनुपश्यंस्तत्काले द्यूतोद्भवस्य हि

३.२४५.६संस्मरन्परुषा वाचः सूतपुत्रस्य पाण्डवः
निःश्वासपरमो दीनो बिभ्रत्कोपविषं महत्

३.२४५.७अर्जुनो यमजौ चोभौ द्रौपदी च यशस्विनी
स च भीमो महातेजाः सर्वेषामुत्तमो बली
युधिष्ठिरमुदीक्षन्तः सेहुर्दुःखमनुत्तमम्

३.२४५.८अवशिष्टमल्पकालं मन्वानाः पुरुषर्षभाः
वपुरन्यदिवाकार्षुरुत्साहामर्षचेष्टितैः

३.२४५.९कस्यचित्त्वथ कालस्य व्यासः सत्यवतीसुतः
आजगाम महायोगी पाण्डवानवलोककः

३.२४५.१०तमागतमभिप्रेक्ष्य कुन्तीपुत्रो युधिष्ठिरः
प्रत्युद्गम्य महात्मानं प्रत्यगृह्णाद्यथाविधि

३.२४५.११तमासीनमुपासीनः शुश्रूषुर्नियतेन्द्रियः
तोषयन्प्रणिपातेन व्यासं पाण्डवनन्दनः

३.२४५.१२तानवेक्ष्य कृशान्पौत्रान्वने वन्येन जीवतः
महर्षिरनुकम्पार्थमब्रवीद्बाष्पगद्गदम्

३.२४५.१३युधिष्ठिर महाबाहो शृणु धर्मभृतां वर
नातप्ततपसः पुत्र प्राप्नुवन्ति महत्सुखम्

३.२४५.१४सुखदुःखे हि पुरुषः पर्यायेणोपसेवते
नात्यन्तमसुखं कश्चित्प्राप्नोति पुरुषर्षभ

३.२४५.१५प्रज्ञावांस्त्वेव पुरुषः संयुक्तः परया धिया
उदयास्तमयज्ञो हि न शोचति न हृष्यति

३.२४५.१६सुखमापतितं सेवेद्दुःखमापतितं सहेत्
कालप्राप्तमुपासीत सस्यानामिव कर्षकः

३.२४५.१७तपसो हि परं नास्ति तपसा विन्दते महत्
नासाध्यं तपसः किंचिदिति बुध्यस्व भारत

३.२४५.१८सत्यमार्जवमक्रोधः संविभागो दमः शमः
अनसूयाविहिंसा च शौचमिन्द्रियसंयमः
साधनानि महाराज नराणां पुण्यकर्मणाम्

३.२४५.१९अधर्मरुचयो मूढास्तिर्यग्गतिपरायणाः
कृच्छ्रां योनिमनुप्राप्य न सुखं विन्दते जनाः

३.२४५.२०इह यत्क्रियते कर्म तत्परत्रोपभुज्यते
तस्माच्छरीरं युञ्जीत तपसा नियमेन च

३.२४५.२१यथाशक्ति प्रयच्छेच्च संपूज्याभिप्रणम्य च
काले पात्रे च हृष्टात्मा राजन्विगतमत्सरः

३.२४५.२२सत्यवादी लभेतायुरनायासमथार्जवी
अक्रोधनोऽनसूयश्च निर्वृतिं लभते पराम्

३.२४५.२३दान्तः शमपरः शश्वत्परिक्लेशं न विन्दति
न च तप्यति दान्तात्मा दृष्ट्वा परगतां श्रियम्

३.२४५.२४संविभक्ता च दाता च भोगवान्सुखवान्नरः
भवत्यहिंसकश्चैव परमारोग्यमश्नुते

३.२४५.२५मान्यान्मानयिता जन्म कुले महति विन्दति
व्यसनैर्न तु संयोगं प्राप्नोति विजितेन्द्रियः

३.२४५.२६शुभानुशयबुद्धिर्हि संयुक्तः कालधर्मणा
प्रादुर्भवति तद्योगात्कल्याणमतिरेव सः

३.२४५.२७युधिष्ठिर उवाच

३.२४५.२८भगवन्दानधर्माणां तपसो वा महामुने
किं स्विद्बहुगुणं प्रेत्य किं वा दुष्करमुच्यते

३.२४५.२९व्यास उवाच

३.२४५.३०दानान्न दुष्करतरं पृथिव्यामस्ति किंचन
अर्थे हि महती तृष्णा स च दुःखेन लभ्यते

३.२४५.३१परित्यज्य प्रियान्प्राणान्धनार्थं हि महाहवम्
प्रविशन्ति नरा वीराः समुद्रमटवीं तथा

३.२४५.३२कृषिगोरक्ष्यमित्येके प्रतिपद्यन्ति मानवाः
पुरुषाः प्रेष्यतामेके निर्गच्छन्ति धनार्थिनः

३.२४५.३३तस्य दुःखार्जितस्यैवं परित्यागः सुदुष्करः
न दुष्करतरं दानात्तस्माद्दानं मतं मम

३.२४५.३४विशेषस्त्वत्र विज्ञेयो न्यायेनोपार्जितं धनम्
पात्रे देशे च काले च साधुभ्यः प्रतिपादयेत्

३.२४५.३५अन्यायसमुपात्तेन दानधर्मो धनेन यः
क्रियते न स कर्तारं त्रायते महतो भयात्

३.२४५.३६पात्रे दानं स्वल्पमपि काले दत्तं युधिष्ठिर
मनसा सुविशुद्धेन प्रेत्यानन्तफलं स्मृतम्

३.२४५.३७अत्राप्युदाहरन्तीममितिहासं पुरातनम्
व्रीहिद्रोणपरित्यागाद्यत्फलं प्राप मुद्गलः