३.२५९.१मार्कण्डेय उवाच
३.२५९.२पुलस्त्यस्य तु यः क्रोधादर्धदेहोऽभवन्मुनिः
विश्रवा नाम सक्रोधः स वैश्रवणमैक्षत
३.२५९.३बुबुधे तं तु सक्रोधं पितरं राक्षसेश्वरः
कुबेरस्तत्प्रसादार्थं यतते स्म सदा नृप
३.२५९.४स राजराजो लङ्कायां निवसन्नरवाहनः
राक्षसीः प्रददौ तिस्रः पितुर्वै परिचारिकाः
३.२५९.५तास्तदा तं महात्मानं संतोषयितुमुद्यताः
ऋषिं भरतशार्दूल नृत्तगीतविशारदाः
३.२५९.६पुष्पोत्कटा च राका च मालिनी च विशां पते
अन्योन्यस्पर्धया राजञ्श्रेयस्कामाः सुमध्यमाः
३.२५९.७तासां स भगवांस्तुष्टो महात्मा प्रददौ वरान्
लोकपालोपमान्पुत्रानेकैकस्या यथेप्सितान्
३.२५९.८पुष्पोत्कटायां जज्ञाते द्वौ पुत्रौ राक्षसेश्वरौ
कुम्भकर्णदशग्रीवौ बलेनाप्रतिमौ भुवि
३.२५९.९मालिनी जनयामास पुत्रमेकं विभीषणम्
राकायां मिथुनं जज्ञे खरः शूर्पणखा तथा
३.२५९.१०विभीषणस्तु रूपेण सर्वेभ्योऽभ्यधिकोऽभवत्
स बभूव महाभागो धर्मगोप्ता क्रियारतिः
३.२५९.११दशग्रीवस्तु सर्वेषां ज्येष्ठो राक्षसपुंगवः
महोत्साहो महावीर्यो महासत्त्वपराक्रमः
३.२५९.१२कुम्भकर्णो बलेनासीत्सर्वेभ्योऽभ्यधिकस्तदा
मायावी रणशौण्डश्च रौद्रश्च रजनीचरः
३.२५९.१३खरो धनुषि विक्रान्तो ब्रह्मद्विट्पिशिताशनः
सिद्धविघ्नकरी चापि रौद्रा शूर्पणखा तथा
३.२५९.१४सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः
ऊषुः पित्रा सह रता गन्धमादनपर्वते
३.२५९.१५ततो वैश्रवणं तत्र ददृशुर्नरवाहनम्
पित्रा सार्धं समासीनमृद्ध्या परमया युतम्
३.२५९.१६जातस्पर्धास्ततस्ते तु तपसे धृतनिश्चयाः
ब्रह्माणं तोषयामासुर्घोरेण तपसा तदा
३.२५९.१७अतिष्ठदेकपादेन सहस्रं परिवत्सरान्
वायुभक्षो दशग्रीवः पञ्चाग्निः सुसमाहितः
३.२५९.१८अधःशायी कुम्भकर्णो यताहारो यतव्रतः
विभीषणः शीर्णपर्णमेकमभ्यवहारयत्
३.२५९.१९उपवासरतिर्धीमान्सदा जप्यपरायणः
तमेव कालमातिष्ठत्तीव्रं तप उदारधीः
३.२५९.२०खरः शूर्पणखा चैव तेषां वै तप्यतां तपः
परिचर्यां च रक्षां च चक्रतुर्हृष्टमानसौ
३.२५९.२१पूर्णे वर्षसहस्रे तु शिरश्छित्त्वा दशाननः
जुहोत्यग्नौ दुराधर्षस्तेनातुष्यज्जगत्प्रभुः
३.२५९.२२ततो ब्रह्मा स्वयं गत्वा तपसस्तान्न्यवारयत्
प्रलोभ्य वरदानेन सर्वानेव पृथक्पृथक्
३.२५९.२३ब्रह्मोवाच
३.२५९.२४प्रीतोऽस्मि वो निवर्तध्वं वरान्वृणुत पुत्रकाः
यद्यदिष्टमृते त्वेकममरत्वं तथास्तु तत्
३.२५९.२५यद्यदग्नौ हुतं सर्वं शिरस्ते महदीप्सया
तथैव तानि ते देहे भविष्यन्ति यथेप्सितम्
३.२५९.२६वैरूप्यं च न ते देहे कामरूपधरस्तथा
भविष्यसि रणेऽरीणां विजेतासि न संशयः
३.२५९.२७रावण उवाच
३.२५९.२८गन्धर्वदेवासुरतो यक्षराक्षसतस्तथा
सर्पकिंनरभूतेभ्यो न मे भूयात्पराभवः
३.२५९.२९ब्रह्मोवाच
३.२५९.३०य एते कीर्तिताः सर्वे न तेभ्योऽस्ति भयं तव
ऋते मनुष्याद्भद्रं ते तथा तद्विहितं मया
३.२५९.३१मार्कण्डेय उवाच
३.२५९.३२एवमुक्तो दशग्रीवस्तुष्टः समभवत्तदा
अवमेने हि दुर्बुद्धिर्मनुष्यान्पुरुषादकः
३.२५९.३३कुम्भकर्णमथोवाच तथैव प्रपितामहः
स वव्रे महतीं निद्रां तमसा ग्रस्तचेतनः
३.२५९.३४तथा भविष्यतीत्युक्त्वा विभीषणमुवाच ह
वरं वृणीष्व पुत्र त्वं प्रीतोऽस्मीति पुनः पुनः
३.२५९.३५विभीषण उवाच
३.२५९.३६परमापद्गतस्यापि नाधर्मे मे मतिर्भवेत्
अशिक्षितं च भगवन्ब्रह्मास्त्रं प्रतिभातु मे
३.२५९.३७ब्रह्मोवाच
३.२५९.३८यस्माद्राक्षसयोनौ ते जातस्यामित्रकर्शन
नाधर्मे रमते बुद्धिरमरत्वं ददामि ते
३.२५९.३९मार्कण्डेय उवाच
३.२५९.४०राक्षसस्तु वरं लब्ध्वा दशग्रीवो विशां पते
लङ्कायाश्च्यावयामास युधि जित्वा धनेश्वरम्
३.२५९.४१हित्वा स भगवाँल्लङ्कामाविशद्गन्धमादनम्
गन्धर्वयक्षानुगतो रक्षःकिंपुरुषैः सह
३.२५९.४२विमानं पुष्पकं तस्य जहाराक्रम्य रावणः
शशाप तं वैश्रवणो न त्वामेतद्वहिष्यति
३.२५९.४३यस्तु त्वां समरे हन्ता तमेवैतद्वहिष्यति
अवमन्य गुरुं मां च क्षिप्रं त्वं न भविष्यसि
३.२५९.४४विभीषणस्तु धर्मात्मा सतां धर्ममनुस्मरन्
अन्वगच्छन्महाराज श्रिया परमया युतः
३.२५९.४५तस्मै स भगवांस्तुष्टो भ्राता भ्रात्रे धनेश्वरः
सेनापत्यं ददौ धीमान्यक्षराक्षससेनयोः
३.२५९.४६राक्षसाः पुरुषादाश्च पिशाचाश्च महाबलाः
सर्वे समेत्य राजानमभ्यषिञ्चद्दशाननम्
३.२५९.४७दशग्रीवस्तु दैत्यानां देवानां च बलोत्कटः
आक्रम्य रत्नान्यहरत्कामरूपी विहंगमः
३.२५९.४८रावयामास लोकान्यत्तस्माद्रावण उच्यते
दशग्रीवः कामबलो देवानां भयमादधत्