३.२६०.१मार्कण्डेय उवाच
३.२६०.२ततो ब्रह्मर्षयः सिद्धा देवराजर्षयस्तथा
हव्यवाहं पुरस्कृत्य ब्रह्माणं शरणं गताः
३.२६०.३अग्निरुवाच
३.२६०.४यः स विश्रवसः पुत्रो दशग्रीवो महाबलः
अवध्यो वरदानेन कृतो भगवता पुरा
३.२६०.५स बाधते प्रजाः सर्वा विप्रकारैर्महाबलः
ततो नस्त्रातु भगवन्नान्यस्त्राता हि विद्यते
३.२६०.६ब्रह्मोवाच
३.२६०.७न स देवासुरैः शक्यो युद्धे जेतुं विभावसो
विहितं तत्र यत्कार्यमभितस्तस्य निग्रहे
३.२६०.८तदर्थमवतीर्णोऽसौ मन्नियोगाच्चतुर्भुजः
विष्णुः प्रहरतां श्रेष्ठः स कर्मैतत्करिष्यति
३.२६०.९मार्कण्डेय उवाच
३.२६०.१०पितामहस्ततस्तेषां संनिधौ वाक्यमब्रवीत्
सर्वैर्देवगणैः सार्धं संभवध्वं महीतले
३.२६०.११विष्णोः सहायानृक्षीषु वानरीषु च सर्वशः
जनयध्वं सुतान्वीरान्कामरूपबलान्वितान्
३.२६०.१२ततो भागानुभागेन देवगन्धर्वदानवाः
अवतर्तुं महीं सर्वे रञ्जयामासुरञ्जसा
३.२६०.१३तेषां समक्षं गन्धर्वीं दुन्दुभीं नाम नामतः
शशास वरदो देवो देवकार्यार्थसिद्धये
३.२६०.१४पितामहवचः श्रुत्वा गन्धर्वी दुन्दुभी ततः
मन्थरा मानुषे लोके कुब्जा समभवत्तदा
३.२६०.१५शक्रप्रभृतयश्चैव सर्वे ते सुरसत्तमाः
वानरर्क्षवरस्त्रीषु जनयामासुरात्मजान्
तेऽन्ववर्तन्पितॄन्सर्वे यशसा च बलेन च
३.२६०.१६भेत्तारो गिरिशृङ्गाणां शालतालशिलायुधाः
वज्रसंहननाः सर्वे सर्वे चौघबलास्तथा
३.२६०.१७कामवीर्यधराश्चैव सर्वे युद्धविशारदाः
नागायुतसमप्राणा वायुवेगसमा जवे
यत्रेच्छकनिवासाश्च केचिदत्र वनौकसः
३.२६०.१८एवं विधाय तत्सर्वं भगवाँल्लोकभावनः
मन्थरां बोधयामास यद्यत्कार्यं यथा यथा
३.२६०.१९सा तद्वचनमाज्ञाय तथा चक्रे मनोजवा
इतश्चेतश्च गच्छन्ती वैरसंधुक्षणे रता