३. वनपर्व
३.२६१.१युधिष्ठिर उवाच

३.२६१.२उक्तं भगवता जन्म रामादीनां पृथक्पृथक्
प्रस्थानकारणं ब्रह्मञ्श्रोतुमिच्छामि कथ्यताम्

३.२६१.३कथं दाशरथी वीरौ भ्रातरौ रामलक्ष्मणौ
प्रस्थापितौ वनं ब्रह्म मैथिली च यशस्विनी

३.२६१.४मार्कण्डेय उवाच

३.२६१.५जातपुत्रो दशरथः प्रीतिमानभवन्नृपः
क्रियारतिर्धर्मपरः सततं वृद्धसेविता

३.२६१.६क्रमेण चास्य ते पुत्रा व्यवर्धन्त महौजसः
वेदेषु सरहस्येषु धनुर्वेदे च पारगाः

३.२६१.७चरितब्रह्मचर्यास्ते कृतदाराश्च पार्थिव
यदा तदा दशरथः प्रीतिमानभवत्सुखी

३.२६१.८ज्येष्ठो रामोऽभवत्तेषां रमयामास हि प्रजाः
मनोहरतया धीमान्पितुर्हृदयतोषणः

३.२६१.९ततः स राजा मतिमान्मत्वात्मानं वयोऽधिकम्
मन्त्रयामास सचिवैर्धर्मज्ञैश्च पुरोहितैः

३.२६१.१०अभिषेकाय रामस्य यौवराज्येन भारत
प्राप्तकालं च ते सर्वे मेनिरे मन्त्रिसत्तमाः

३.२६१.११लोहिताक्षं महाबाहुं मत्तमातङ्गगामिनम्
दीर्घबाहुं महोरस्कं नीलकुञ्चितमूर्धजम्

३.२६१.१२दीप्यमानं श्रिया वीरं शक्रादनवमं बले
पारगं सर्वधर्माणां बृहस्पतिसमं मतौ

३.२६१.१३सर्वानुरक्तप्रकृतिं सर्वविद्याविशारदम्
जितेन्द्रियममित्राणामपि दृष्टिमनोहरम्

३.२६१.१४नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम्
धृतिमन्तमनाधृष्यं जेतारमपराजितम्

३.२६१.१५पुत्रं राजा दशरथः कौसल्यानन्दवर्धनम्
संदृश्य परमां प्रीतिमगच्छत्कुरुनन्दन

३.२६१.१६चिन्तयंश्च महातेजा गुणान्रामस्य वीर्यवान्
अभ्यभाषत भद्रं ते प्रीयमाणः पुरोहितम्

३.२६१.१७अद्य पुष्यो निशि ब्रह्मन्पुण्यं योगमुपैष्यति
संभाराः संभ्रियन्तां मे रामश्चोपनिमन्त्र्यताम्

३.२६१.१८इति तद्राजवचनं प्रतिश्रुत्याथ मन्थरा
कैकेयीमभिगम्येदं काले वचनमब्रवीत्

३.२६१.१९अद्य कैकेयि दौर्भाग्यं राज्ञा ते ख्यापितं महत्
आशीविषस्त्वां संक्रुद्धश्चण्डो दशति दुर्भगे

३.२६१.२०सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते
कुतो हि तव सौभाग्यं यस्याः पुत्रो न राज्यभाक्

३.२६१.२१सा तद्वचनमाज्ञाय सर्वाभरणभूषिता
वेदीविलग्नमध्येव बिभ्रती रूपमुत्तमम्

३.२६१.२२विविक्ते पतिमासाद्य हसन्तीव शुचिस्मिता
प्रणयं व्यञ्जयन्तीव मधुरं वाक्यमब्रवीत्

३.२६१.२३सत्यप्रतिज्ञ यन्मे त्वं काममेकं निसृष्टवान्
उपाकुरुष्व तद्राजंस्तस्मान्मुच्यस्व संकटात्

३.२६१.२४राजोवाच

३.२६१.२५वरं ददानि ते हन्त तद्गृहाण यदिच्छसि
अवध्यो वध्यतां कोऽद्य वध्यः कोऽद्य विमुच्यताम्

३.२६१.२६धनं ददानि कस्याद्य ह्रियतां कस्य वा पुनः
ब्राह्मणस्वादिहान्यत्र यत्किंचिद्वित्तमस्ति मे

३.२६१.२७मार्कण्डेय उवाच

३.२६१.२८सा तद्वचनमाज्ञाय परिगृह्य नराधिपम्
आत्मनो बलमाज्ञाय तत एनमुवाच ह

३.२६१.२९आभिषेचनिकं यत्ते रामार्थमुपकल्पितम्
भरतस्तदवाप्नोतु वनं गच्छतु राघवः

३.२६१.३०स तद्राजा वचः श्रुत्वा विप्रियं दारुणोदयम्
दुःखार्तो भरतश्रेष्ठ न किंचिद्व्याजहार ह

३.२६१.३१ततस्तथोक्तं पितरं रामो विज्ञाय वीर्यवान्
वनं प्रतस्थे धर्मात्मा राजा सत्यो भवत्विति

३.२६१.३२तमन्वगच्छल्लक्ष्मीवान्धनुष्माँल्लक्ष्मणस्तदा
सीता च भार्या भद्रं ते वैदेही जनकात्मजा

३.२६१.३३ततो वनं गते रामे राजा दशरथस्तदा
समयुज्यत देहस्य कालपर्यायधर्मणा

३.२६१.३४रामं तु गतमाज्ञाय राजानं च तथागतम्
आनाय्य भरतं देवी कैकेयी वाक्यमब्रवीत्

३.२६१.३५गतो दशरथः स्वर्गं वनस्थौ रामलक्ष्मणौ
गृहाण राज्यं विपुलं क्षेमं निहतकण्टकम्

३.२६१.३६तामुवाच स धर्मात्मा नृशंसं बत ते कृतम्
पतिं हत्वा कुलं चेदमुत्साद्य धनलुब्धया

३.२६१.३७अयशः पातयित्वा मे मूर्ध्नि त्वं कुलपांसने
सकामा भव मे मातरित्युक्त्वा प्ररुरोद ह

३.२६१.३८स चारित्रं विशोध्याथ सर्वप्रकृतिसंनिधौ
अन्वयाद्भ्रातरं रामं विनिवर्तनलालसः

३.२६१.३९कौसल्यां च सुमित्रां च कैकेयीं च सुदुःखितः
अग्रे प्रस्थाप्य यानैः स शत्रुघ्नसहितो ययौ

३.२६१.४०वसिष्ठवामदेवाभ्यां विप्रैश्चान्यैः सहस्रशः
पौरजानपदैः सार्धं रामानयनकाङ्क्षया

३.२६१.४१ददर्श चित्रकूटस्थं स रामं सहलक्ष्मणम्
तापसानामलंकारं धारयन्तं धनुर्धरम्

३.२६१.४२विसर्जितः स रामेण पितुर्वचनकारिणा
नन्दिग्रामेऽकरोद्राज्यं पुरस्कृत्यास्य पादुके

३.२६१.४३रामस्तु पुनराशङ्क्य पौरजानपदागमम्
प्रविवेश महारण्यं शरभङ्गाश्रमं प्रति

३.२६१.४४सत्कृत्य शरभङ्गं स दण्डकारण्यमाश्रितः
नदीं गोदावरीं रम्यामाश्रित्य न्यवसत्तदा

३.२६१.४५वसतस्तस्य रामस्य ततः शूर्पणखाकृतम्
खरेणासीन्महद्वैरं जनस्थाननिवासिना

३.२६१.४६रक्षार्थं तापसानां च राघवो धर्मवत्सलः
चतुर्दश सहस्राणि जघान भुवि रक्षसाम्

३.२६१.४७दूषणं च खरं चैव निहत्य सुमहाबलौ
चक्रे क्षेमं पुनर्धीमान्धर्मारण्यं स राघवः

३.२६१.४८हतेषु तेषु रक्षःसु ततः शूर्पणखा पुनः
ययौ निकृत्तनासोष्ठी लङ्कां भ्रातुर्निवेशनम्

३.२६१.४९ततो रावणमभ्येत्य राक्षसी दुःखमूर्छिता
पपात पादयोर्भ्रातुः संशुष्करुधिरानना

३.२६१.५०तां तथा विकृतां दृष्ट्वा रावणः क्रोधमूर्छितः
उत्पपातासनात्क्रुद्धो दन्तैर्दन्तानुपस्पृशन्

३.२६१.५१स्वानमात्यान्विसृज्याथ विविक्ते तामुवाच सः
केनास्येवं कृता भद्रे मामचिन्त्यावमन्य च

३.२६१.५२कः शूलं तीक्ष्णमासाद्य सर्वगात्रैर्निषेवते
कः शिरस्यग्निमादाय विश्वस्तः स्वपते सुखम्

३.२६१.५३आशीविषं घोरतरं पादेन स्पृशतीह कः
सिंहं केसरिणं कश्च दंष्ट्रासु स्पृश्य तिष्ठति

३.२६१.५४इत्येवं ब्रुवतस्तस्य स्रोतोभ्यस्तेजसोऽर्चिषः
निश्चेरुर्दह्यतो रात्रौ वृक्षस्येव स्वरन्ध्रतः

३.२६१.५५तस्य तत्सर्वमाचख्यौ भगिनी रामविक्रमम्
खरदूषणसंयुक्तं राक्षसानां पराभवम्

३.२६१.५६स निश्चित्य ततः कृत्यं स्वसारमुपसान्त्व्य च
ऊर्ध्वमाचक्रमे राजा विधाय नगरे विधिम्

३.२६१.५७त्रिकूटं समतिक्रम्य कालपर्वतमेव च
ददर्श मकरावासं गम्भीरोदं महोदधिम्

३.२६१.५८तमतीत्याथ गोकर्णमभ्यगच्छद्दशाननः
दयितं स्थानमव्यग्रं शूलपाणेर्महात्मनः

३.२६१.५९तत्राभ्यगच्छन्मारीचं पूर्वामात्यं दशाननः
पुरा रामभयादेव तापस्यं समुपाश्रितम्