३.२७३.१मार्कण्डेय उवाच
३.२७३.२तावुभौ पतितौ दृष्ट्वा भ्रातरावमितौजसौ
बबन्ध रावणिर्भूयः शरैर्दत्तवरैस्तदा
३.२७३.३तौ वीरौ शरजालेन बद्धाविन्द्रजिता रणे
रेजतुः पुरुषव्याघ्रौ शकुन्ताविव पञ्जरे
३.२७३.४तौ दृष्ट्वा पतितौ भूमौ शतशः सायकैश्चितौ
सुग्रीवः कपिभिः सार्धं परिवार्य ततः स्थितः
३.२७३.५सुषेणमैन्दद्विविदैः कुमुदेनाङ्गदेन च
हनूमन्नीलतारैश्च नलेन च कपीश्वरः
३.२७३.६ततस्तं देशमागम्य कृतकर्मा विभीषणः
बोधयामास तौ वीरौ प्रज्ञास्त्रेण प्रबोधितौ
३.२७३.७विशल्यौ चापि सुग्रीवः क्षणेनोभौ चकार तौ
विशल्यया महौषध्या दिव्यमन्त्रप्रयुक्तया
३.२७३.८तौ लब्धसंज्ञौ नृवरौ विशल्यावुदतिष्ठताम्
गततन्द्रीक्लमौ चास्तां क्षणेनोभौ महारथौ
३.२७३.९ततो विभीषणः पार्थ राममिक्ष्वाकुनन्दनम्
उवाच विज्वरं दृष्ट्वा कृताञ्जलिरिदं वचः
३.२७३.१०अयमम्भो गृहीत्वा तु राजराजस्य शासनात्
गुह्यकोऽभ्यागतः श्वेतात्त्वत्सकाशमरिंदम
३.२७३.११इदमम्भः कुबेरस्ते महाराजः प्रयच्छति
अन्तर्हितानां भूतानां दर्शनार्थं परंतप
३.२७३.१२अनेन स्पृष्टनयनो भूतान्यन्तर्हितान्युत
भवान्द्रक्ष्यति यस्मै च भवानेतत्प्रदास्यति
३.२७३.१३तथेति रामस्तद्वारि प्रतिगृह्याथ सत्कृतम्
चकार नेत्रयोः शौचं लक्ष्मणश्च महामनाः
३.२७३.१४सुग्रीवजाम्बवन्तौ च हनूमानङ्गदस्तथा
मैन्दद्विविदनीलाश्च प्रायः प्लवगसत्तमाः
३.२७३.१५तथा समभवच्चापि यदुवाच विभीषणः
क्षणेनातीन्द्रियाण्येषां चक्षूंष्यासन्युधिष्ठिर
३.२७३.१६इन्द्रजित्कृतकर्मा तु पित्रे कर्म तदात्मनः
निवेद्य पुनरागच्छत्त्वरयाजिशिरः प्रति
३.२७३.१७तमापतन्तं संक्रुद्धं पुनरेव युयुत्सया
अभिदुद्राव सौमित्रिर्विभीषणमते स्थितः
३.२७३.१८अकृताह्निकमेवैनं जिघांसुर्जितकाशिनम्
शरैर्जघान संक्रुद्धः कृतसंज्ञोऽथ लक्ष्मणः
३.२७३.१९तयोः समभवद्युद्धं तदान्योन्यं जिगीषतोः
अतीव चित्रमाश्चर्यं शक्रप्रह्लादयोरिव
३.२७३.२०अविध्यदिन्द्रजित्तीक्ष्णैः सौमित्रिं मर्मभेदिभिः
सौमित्रिश्चानलस्पर्शैरविध्यद्रावणिं शरैः
३.२७३.२१सौमित्रिशरसंस्पर्शाद्रावणिः क्रोधमूर्छितः
असृजल्लक्ष्मणायाष्टौ शरानाशीविषोपमान्
३.२७३.२२तस्यासून्पावकस्पर्शैः सौमित्रिः पत्रिभिस्त्रिभिः
यथा निरहरद्वीरस्तन्मे निगदतः शृणु
३.२७३.२३एकेनास्य धनुष्मन्तं बाहुं देहादपातयत्
द्वितीयेन सनाराचं भुजं भूमौ न्यपातयत्
३.२७३.२४तृतीयेन तु बाणेन पृथुधारेण भास्वता
जहार सुनसं चारु शिरो भ्राजिष्णुकुण्डलम्
३.२७३.२५विनिकृत्तभुजस्कन्धं कबन्धं भीमदर्शनम्
तं हत्वा सूतमप्यस्त्रैर्जघान बलिनां वरः
३.२७३.२६लङ्कां प्रवेशयामासुर्वाजिनस्तं रथं तदा
ददर्श रावणस्तं च रथं पुत्रविनाकृतम्
३.२७३.२७स पुत्रं निहतं दृष्ट्वा त्रासात्संभ्रान्तलोचनः
रावणः शोकमोहार्तो वैदेहीं हन्तुमुद्यतः
३.२७३.२८अशोकवनिकास्थां तां रामदर्शनलालसाम्
खड्गमादाय दुष्टात्मा जवेनाभिपपात ह
३.२७३.२९तं दृष्ट्वा तस्य दुर्बुद्धेरविन्ध्यः पापनिश्चयम्
शमयामास संक्रुद्धं श्रूयतां येन हेतुना
३.२७३.३०महाराज्ये स्थितो दीप्ते न स्त्रियं हन्तुमर्हसि
हतैवैषा यदा स्त्री च बन्धनस्था च ते गृहे
३.२७३.३१न चैषा देहभेदेन हता स्यादिति मे मतिः
जहि भर्तारमेवास्या हते तस्मिन्हता भवेत्
३.२७३.३२न हि ते विक्रमे तुल्यः साक्षादपि शतक्रतुः
असकृद्धि त्वया सेन्द्रास्त्रासितास्त्रिदशा युधि
३.२७३.३३एवं बहुविधैर्वाक्यैरविन्ध्यो रावणं तदा
क्रुद्धं संशमयामास जगृहे च स तद्वचः
३.२७३.३४निर्याणे स मतिं कृत्वा निधायासिं क्षपाचरः
आज्ञापयामास तदा रथो मे कल्प्यतामिति