३. वनपर्व
३.२७४.१मार्कण्डेय उवाच

३.२७४.२ततः क्रुद्धो दशग्रीवः प्रिये पुत्रे निपातिते
निर्ययौ रथमास्थाय हेमरत्नविभूषितम्

३.२७४.३संवृतो राक्षसैर्घोरैर्विविधायुधपाणिभिः
अभिदुद्राव रामं स पोथयन्हरियूथपान्

३.२७४.४तमाद्रवन्तं संक्रुद्धं मैन्दनीलनलाङ्गदाः
हनूमाञ्जाम्बवांश्चैव ससैन्याः पर्यवारयन्

३.२७४.५ते दशग्रीवसैन्यं तदृक्षवानरयूथपाः
द्रुमैर्विध्वंसयां चक्रुर्दशग्रीवस्य पश्यतः

३.२७४.६ततः स्वसैन्यमालोक्य वध्यमानमरातिभिः
मायावी व्यदधान्मायां रावणो राक्षसेश्वरः

३.२७४.७तस्य देहाद्विनिष्क्रान्ताः शतशोऽथ सहस्रशः
राक्षसाः प्रत्यदृश्यन्त शरशक्त्यृष्टिपाणयः

३.२७४.८तान्रामो जघ्निवान्सर्वान्दिव्येनास्त्रेण राक्षसान्
अथ भूयोऽपि मायां स व्यदधाद्राक्षसाधिपः

३.२७४.९कृत्वा रामस्य रूपाणि लक्ष्मणस्य च भारत
अभिदुद्राव रामं च लक्ष्मणं च दशाननः

३.२७४.१०ततस्ते राममर्छन्तो लक्ष्मणं च क्षपाचराः
अभिपेतुस्तदा राजन्प्रगृहीतोच्चकार्मुकाः

३.२७४.११तां दृष्ट्वा राक्षसेन्द्रस्य मायामिक्ष्वाकुनन्दनः
उवाच रामं सौमित्रिरसंभ्रान्तो बृहद्वचः

३.२७४.१२जहीमान्राक्षसान्पापानात्मनः प्रतिरूपकान्
जघान रामस्तांश्चान्यानात्मनः प्रतिरूपकान्

३.२७४.१३ततो हर्यश्वयुक्तेन रथेनादित्यवर्चसा
उपतस्थे रणे रामं मातलिः शक्रसारथिः

३.२७४.१४मातलिरुवाच

३.२७४.१५अयं हर्यश्वयुग्जैत्रो मघोनः स्यन्दनोत्तमः
अनेन शक्रः काकुत्स्थ समरे दैत्यदानवान्
शतशः पुरुषव्याघ्र रथोदारेण जघ्निवान्

३.२७४.१६तदनेन नरव्याघ्र मया यत्तेन संयुगे
स्यन्दनेन जहि क्षिप्रं रावणं मा चिरं कृथाः

३.२७४.१७इत्युक्तो राघवस्तथ्यं वचोऽशङ्कत मातलेः
मायेयं राक्षसस्येति तमुवाच विभीषणः

३.२७४.१८नेयं माया नरव्याघ्र रावणस्य दुरात्मनः
तदातिष्ठ रथं शीघ्रमिममैन्द्रं महाद्युते

३.२७४.१९ततः प्रहृष्टः काकुत्स्थस्तथेत्युक्त्वा विभीषणम्
रथेनाभिपपाताशु दशग्रीवं रुषान्वितः

३.२७४.२०हाहाकृतानि भूतानि रावणे समभिद्रुते
सिंहनादाः सपटहा दिवि दिव्याश्च नानदन्

३.२७४.२१स रामाय महाघोरं विससर्ज निशाचरः
शूलमिन्द्राशनिप्रख्यं ब्रह्मदण्डमिवोद्यतम्

३.२७४.२२तच्छूलमन्तरा रामश्चिच्छेद निशितैः शरैः
तद्दृष्ट्वा दुष्करं कर्म रावणं भयमाविशत्

३.२७४.२३ततः क्रुद्धः ससर्जाशु दशग्रीवः शिताञ्शरान्
सहस्रायुतशो रामे शस्त्राणि विविधानि च

३.२७४.२४ततो भुशुण्डीः शूलांश्च मुसलानि परश्वधान्
शक्तीश्च विविधाकाराः शतघ्नीश्च शितक्षुराः

३.२७४.२५तां मायां विकृतां दृष्ट्वा दशग्रीवस्य रक्षसः
भयात्प्रदुद्रुवुः सर्वे वानराः सर्वतोदिशम्

३.२७४.२६ततः सुपत्रं सुमुखं हेमपुङ्खं शरोत्तमम्
तूणादादाय काकुत्स्थो ब्रह्मास्त्रेण युयोज ह

३.२७४.२७तं बाणवर्यं रामेण ब्रह्मास्त्रेणाभिमन्त्रितम्
जहृषुर्देवगन्धर्वा दृष्ट्वा शक्रपुरोगमाः

३.२७४.२८अल्पावशेषमायुश्च ततोऽमन्यन्त रक्षसः
ब्रह्मास्त्रोदीरणाच्छत्रोर्देवगन्धर्वकिंनराः

३.२७४.२९ततः ससर्ज तं रामः शरमप्रतिमौजसम्
रावणान्तकरं घोरं ब्रह्मदण्डमिवोद्यतम्

३.२७४.३०स तेन राक्षसश्रेष्ठः सरथः साश्वसारथिः
प्रजज्वाल महाज्वालेनाग्निनाभिपरिष्कृतः

३.२७४.३१ततः प्रहृष्टास्त्रिदशाः सगन्धर्वाः सचारणाः
निहतं रावणं दृष्ट्वा रामेणाक्लिष्टकर्मणा

३.२७४.३२तत्यजुस्तं महाभागं पञ्च भूतानि रावणम्
भ्रंशितः सर्वलोकेषु स हि ब्रह्मास्त्रतेजसा

३.२७४.३३शरीरधातवो ह्यस्य मांसं रुधिरमेव च
नेशुर्ब्रह्मास्त्रनिर्दग्धा न च भस्माप्यदृश्यत