३. वनपर्व
३.२७६.१मार्कण्डेय उवाच

३.२७६.२एवमेतन्महाबाहो रामेणामिततेजसा
प्राप्तं व्यसनमत्युग्रं वनवासकृतं पुरा

३.२७६.३मा शुचः पुरुषव्याघ्र क्षत्रियोऽसि परंतप
बाहुवीर्याश्रये मार्गे वर्तसे दीप्तनिर्णये

३.२७६.४न हि ते वृजिनं किंचिद्दृश्यते परमण्वपि
अस्मिन्मार्गे विषीदेयुः सेन्द्रा अपि सुरासुराः

३.२७६.५संहत्य निहतो वृत्रो मरुद्भिर्वज्रपाणिना
नमुचिश्चैव दुर्धर्षो दीर्घजिह्वा च राक्षसी

३.२७६.६सहायवति सर्वार्थाः संतिष्ठन्तीह सर्वशः
किं नु तस्याजितं संख्ये भ्राता यस्य धनंजयः

३.२७६.७अयं च बलिनां श्रेष्ठो भीमो भीमपराक्रमः
युवानौ च महेष्वासौ यमौ माद्रवतीसुतौ
एभिः सहायैः कस्मात्त्वं विषीदसि परंतप

३.२७६.८य इमे वज्रिणः सेनां जयेयुः समरुद्गणाम्
त्वमप्येभिर्महेष्वासैः सहायैर्देवरूपिभिः
विजेष्यसि रणे सर्वानमित्रान्भरतर्षभ

३.२७६.९इतश्च त्वमिमां पश्य सैन्धवेन दुरात्मना
बलिना वीर्यमत्तेन हृतामेभिर्महात्मभिः

३.२७६.१०आनीतां द्रौपदीं कृष्णां कृत्वा कर्म सुदुष्करम्
जयद्रथं च राजानं विजितं वशमागतम्

३.२७६.११असहायेन रामेण वैदेही पुनराहृता
हत्वा संख्ये दशग्रीवं राक्षसं भीमविक्रमम्

३.२७६.१२यस्य शाखामृगा मित्रा ऋक्षाः कालमुखास्तथा
जात्यन्तरगता राजन्नेतद्बुद्ध्यानुचिन्तय

३.२७६.१३तस्मात्त्वं कुरुशार्दूल मा शुचो भरतर्षभ
त्वद्विधा हि महात्मानो न शोचन्ति परंतप

३.२७६.१४वैशंपायन उवाच

३.२७६.१५एवमाश्वासितो राजा मार्कण्डेयेन धीमता
त्यक्त्वा दुःखमदीनात्मा पुनरेवेदमब्रवीत्