३.२७७.१युधिष्ठिर उवाच
३.२७७.२नात्मानमनुशोचामि नेमान्भ्रातॄन्महामुने
हरणं चापि राज्यस्य यथेमां द्रुपदात्मजाम्
३.२७७.३द्यूते दुरात्मभिः क्लिष्टाः कृष्णया तारिता वयम्
जयद्रथेन च पुनर्वनादपहृता बलात्
३.२७७.४अस्ति सीमन्तिनी काचिद्दृष्टपूर्वाथ वा श्रुता
पतिव्रता महाभागा यथेयं द्रुपदात्मजा
३.२७७.५मार्कण्डेय उवाच
३.२७७.६शृणु राजन्कुलस्त्रीणां महाभाग्यं युधिष्ठिर
सर्वमेतद्यथा प्राप्तं सावित्र्या राजकन्यया
३.२७७.७आसीन्मद्रेषु धर्मात्मा राजा परमधार्मिकः
ब्रह्मण्यश्च शरण्यश्च सत्यसंधो जितेन्द्रियः
३.२७७.८यज्वा दानपतिर्दक्षः पौरजानपदप्रियः
पार्थिवोऽश्वपतिर्नाम सर्वभूतहिते रतः
३.२७७.९क्षमावाननपत्यश्च सत्यवाग्विजितेन्द्रियः
अतिक्रान्तेन वयसा संतापमुपजग्मिवान्
३.२७७.१०अपत्योत्पादनार्थं स तीव्रं नियममास्थितः
काले परिमिताहारो ब्रह्मचारी जितेन्द्रियः
३.२७७.११हुत्वा शतसहस्रं स सावित्र्या राजसत्तम
षष्ठे षष्ठे तदा काले बभूव मितभोजनः
३.२७७.१२एतेन नियमेनासीद्वर्षाण्यष्टादशैव तु
पूर्णे त्वष्टादशे वर्षे सावित्री तुष्टिमभ्यगात्
स्वरूपिणी तदा राजन्दर्शयामास तं नृपम्
३.२७७.१३अग्निहोत्रात्समुत्थाय हर्षेण महतान्विता
उवाच चैनं वरदा वचनं पार्थिवं तदा
३.२७७.१४ब्रह्मचर्येण शुद्धेन दमेन नियमेन च
सर्वात्मना च मद्भक्त्या तुष्टास्मि तव पार्थिव
३.२७७.१५वरं वृणीष्वाश्वपते मद्रराज यथेप्सितम्
न प्रमादश्च धर्मेषु कर्तव्यस्ते कथंचन
३.२७७.१६अश्वपतिरुवाच
३.२७७.१७अपत्यार्थः समारम्भः कृतो धर्मेप्सया मया
पुत्रा मे बहवो देवि भवेयुः कुलभावनाः
३.२७७.१८तुष्टासि यदि मे देवि काममेतं वृणोम्यहम्
संतानं हि परो धर्म इत्याहुर्मां द्विजातयः
३.२७७.१९सावित्र्युवाच
३.२७७.२०पूर्वमेव मया राजन्नभिप्रायमिमं तव
ज्ञात्वा पुत्रार्थमुक्तो वै तव हेतोः पितामहः
३.२७७.२१प्रसादाच्चैव तस्मात्ते स्वयंभुविहिताद्भुवि
कन्या तेजस्विनी सौम्य क्षिप्रमेव भविष्यति
३.२७७.२२उत्तरं च न ते किंचिद्व्याहर्तव्यं कथंचन
पितामहनिसर्गेण तुष्टा ह्येतद्ब्रवीमि ते
३.२७७.२३मार्कण्डेय उवाच
३.२७७.२४स तथेति प्रतिज्ञाय सावित्र्या वचनं नृपः
प्रसादयामास पुनः क्षिप्रमेवं भवेदिति
३.२७७.२५अन्तर्हितायां सावित्र्यां जगाम स्वगृहं नृपः
स्वराज्ये चावसत्प्रीतः प्रजा धर्मेण पालयन्
३.२७७.२६कस्मिंश्चित्तु गते काले स राजा नियतव्रतः
ज्येष्ठायां धर्मचारिण्यां महिष्यां गर्भमादधे
३.२७७.२७राजपुत्र्यां तु गर्भः स मालव्यां भरतर्षभ
व्यवर्धत यथा शुक्ले तारापतिरिवाम्बरे
३.२७७.२८प्राप्ते काले तु सुषुवे कन्यां राजीवलोचनाम्
क्रियाश्च तस्या मुदितश्चक्रे स नृपतिस्तदा
३.२७७.२९सावित्र्या प्रीतया दत्ता सावित्र्या हुतया ह्यपि
सावित्रीत्येव नामास्याश्चक्रुर्विप्रास्तथा पिता
३.२७७.३०सा विग्रहवतीव श्रीर्व्यवर्धत नृपात्मजा
कालेन चापि सा कन्या यौवनस्था बभूव ह
३.२७७.३१तां सुमध्यां पृथुश्रोणीं प्रतिमां काञ्चनीमिव
प्राप्तेयं देवकन्येति दृष्ट्वा संमेनिरे जनाः
३.२७७.३२तां तु पद्मपलाशाक्षीं ज्वलन्तीमिव तेजसा
न कश्चिद्वरयामास तेजसा प्रतिवारितः
३.२७७.३३अथोपोष्य शिरःस्नाता दैवतान्यभिगम्य सा
हुत्वाग्निं विधिवद्विप्रान्वाचयामास पर्वणि
३.२७७.३४ततः सुमनसः शेषाः प्रतिगृह्य महात्मनः
पितुः सकाशमगमद्देवी श्रीरिव रूपिणी
३.२७७.३५साभिवाद्य पितुः पादौ शेषाः पूर्वं निवेद्य च
कृताञ्जलिर्वरारोहा नृपतेः पार्श्वतः स्थिता
३.२७७.३६यौवनस्थां तु तां दृष्ट्वा स्वां सुतां देवरूपिणीम्
अयाच्यमानां च वरैर्नृपतिर्दुःखितोऽभवत्
३.२७७.३७राजोवाच
३.२७७.३८पुत्रि प्रदानकालस्ते न च कश्चिद्वृणोति माम्
स्वयमन्विच्छ भर्तारं गुणैः सदृशमात्मनः
३.२७७.३९प्रार्थितः पुरुषो यश्च स निवेद्यस्त्वया मम
विमृश्याहं प्रदास्यामि वरय त्वं यथेप्सितम्
३.२७७.४०श्रुतं हि धर्मशास्त्रे मे पठ्यमानं द्विजातिभिः
तथा त्वमपि कल्याणि गदतो मे वचः शृणु
३.२७७.४१अप्रदाता पिता वाच्यो वाच्यश्चानुपयन्पतिः
मृते भर्तरि पुत्रश्च वाच्यो मातुररक्षिता
३.२७७.४२इदं मे वचनं श्रुत्वा भर्तुरन्वेषणे त्वर
देवतानां यथा वाच्यो न भवेयं तथा कुरु
३.२७७.४३मार्कण्डेय उवाच
३.२७७.४४एवमुक्त्वा दुहितरं तथा वृद्धांश्च मन्त्रिणः
व्यादिदेशानुयात्रं च गम्यतामित्यचोदयत्
३.२७७.४५साभिवाद्य पितुः पादौ व्रीडितेव मनस्विनी
पितुर्वचनमाज्ञाय निर्जगामाविचारितम्
३.२७७.४६सा हैमं रथमास्थाय स्थविरैः सचिवैर्वृता
तपोवनानि रम्याणि राजर्षीणां जगाम ह
३.२७७.४७मान्यानां तत्र वृद्धानां कृत्वा पादाभिवन्दनम्
वनानि क्रमशस्तात सर्वाण्येवाभ्यगच्छत
३.२७७.४८एवं सर्वेषु तीर्थेषु धनोत्सर्गं नृपात्मजा
कुर्वती द्विजमुख्यानां तं तं देशं जगाम ह