३.२७८.१मार्कण्डेय उवाच
३.२७८.२अथ मद्राधिपो राजा नारदेन समागतः
उपविष्टः सभामध्ये कथायोगेन भारत
३.२७८.३ततोऽभिगम्य तीर्थानि सर्वाण्येवाश्रमांस्तथा
आजगाम पितुर्वेश्म सावित्री सह मन्त्रिभिः
३.२७८.४नारदेन सहासीनं दृष्ट्वा सा पितरं शुभा
उभयोरेव शिरसा चक्रे पादाभिवन्दनम्
३.२७८.५नारद उवाच
३.२७८.६क्व गताभूत्सुतेयं ते कुतश्चैवागता नृप
किमर्थं युवतीं भर्त्रे न चैनां संप्रयच्छसि
३.२७८.७अश्वपतिरुवाच
३.२७८.८कार्येण खल्वनेनैव प्रेषिताद्यैव चागता
तदस्याः शृणु देवर्षे भर्तारं योऽनया वृतः
३.२७८.९मार्कण्डेय उवाच
३.२७८.१०सा ब्रूहि विस्तरेणेति पित्रा संचोदिता शुभा
दैवतस्येव वचनं प्रतिगृह्येदमब्रवीत्
३.२७८.११आसीच्छाल्वेषु धर्मात्मा क्षत्रियः पृथिवीपतिः
द्युमत्सेन इति ख्यातः पश्चादन्धो बभूव ह
३.२७८.१२विनष्टचक्षुषस्तस्य बालपुत्रस्य धीमतः
सामीप्येन हृतं राज्यं छिद्रेऽस्मिन्पूर्ववैरिणा
३.२७८.१३स बालवत्सया सार्धं भार्यया प्रस्थितो वनम्
महारण्यगतश्चापि तपस्तेपे महाव्रतः
३.२७८.१४तस्य पुत्रः पुरे जातः संवृद्धश्च तपोवने
सत्यवाननुरूपो मे भर्तेति मनसा वृतः
३.२७८.१५नारद उवाच
३.२७८.१६अहो बत महत्पापं सावित्र्या नृपते कृतम्
अजानन्त्या यदनया गुणवान्सत्यवान्वृतः
३.२७८.१७सत्यं वदत्यस्य पिता सत्यं माता प्रभाषते
ततोऽस्य ब्राह्मणाश्चक्रुर्नामैतत्सत्यवानिति
३.२७८.१८बालस्याश्वाः प्रियाश्चास्य करोत्यश्वांश्च मृन्मयान्
चित्रेऽपि च लिखत्यश्वांश्चित्राश्व इति चोच्यते
३.२७८.१९राजोवाच
३.२७८.२०अपीदानीं स तेजस्वी बुद्धिमान्वा नृपात्मजः
क्षमावानपि वा शूरः सत्यवान्पितृनन्दनः
३.२७८.२१नारद उवाच
३.२७८.२२विवस्वानिव तेजस्वी बृहस्पतिसमो मतौ
महेन्द्र इव शूरश्च वसुधेव क्षमान्वितः
३.२७८.२३अश्वपतिरुवाच
३.२७८.२४अपि राजात्मजो दाता ब्रह्मण्यो वापि सत्यवान्
रूपवानप्युदारो वाप्यथ वा प्रियदर्शनः
३.२७८.२५नारद उवाच
३.२७८.२६साङ्कृते रन्तिदेवस्य स शक्त्या दानतः समः
ब्रह्मण्यः सत्यवादी च शिबिरौशीनरो यथा
३.२७८.२७ययातिरिव चोदारः सोमवत्प्रियदर्शनः
रूपेणान्यतमोऽश्विभ्यां द्युमत्सेनसुतो बली
३.२७८.२८स दान्तः स मृदुः शूरः स सत्यः स जितेन्द्रियः
स मैत्रः सोऽनसूयश्च स ह्रीमान्धृतिमांश्च सः
३.२७८.२९नित्यशश्चार्जवं तस्मिन्स्थितिस्तस्यैव च ध्रुवा
संक्षेपतस्तपोवृद्धैः शीलवृद्धैश्च कथ्यते
३.२७८.३०अश्वपतिरुवाच
३.२७८.३१गुणैरुपेतं सर्वैस्तं भगवन्प्रब्रवीषि मे
दोषानप्यस्य मे ब्रूहि यदि सन्तीह केचन
३.२७८.३२नारद उवाच
३.२७८.३३एको दोषोऽस्य नान्योऽस्ति सोऽद्य प्रभृति सत्यवान्
संवत्सरेण क्षीणायुर्देहन्यासं करिष्यति
३.२७८.३४राजोवाच
३.२७८.३५एहि सावित्रि गच्छ त्वमन्यं वरय शोभने
तस्य दोषो महानेको गुणानाक्रम्य तिष्ठति
३.२७८.३६यथा मे भगवानाह नारदो देवसत्कृतः
संवत्सरेण सोऽल्पायुर्देहन्यासं करिष्यति
३.२७८.३७सावित्र्युवाच
३.२७८.३८सकृदंशो निपतति सकृत्कन्या प्रदीयते
सकृदाह ददानीति त्रीण्येतानि सकृत्सकृत्
३.२७८.३९दीर्घायुरथ वाल्पायुः सगुणो निर्गुणोऽपि वा
सकृद्वृतो मया भर्ता न द्वितीयं वृणोम्यहम्
३.२७८.४०मनसा निश्चयं कृत्वा ततो वाचाभिधीयते
क्रियते कर्मणा पश्चात्प्रमाणं मे मनस्ततः
३.२७८.४१नारद उवाच
३.२७८.४२स्थिरा बुद्धिर्नरश्रेष्ठ सावित्र्या दुहितुस्तव
नैषा चालयितुं शक्या धर्मादस्मात्कथंचन
३.२७८.४३नान्यस्मिन्पुरुषे सन्ति ये सत्यवति वै गुणाः
प्रदानमेव तस्मान्मे रोचते दुहितुस्तव
३.२७८.४४राजोवाच
३.२७८.४५अविचार्यमेतदुक्तं हि तथ्यं भगवता वचः
करिष्याम्येतदेवं च गुरुर्हि भगवान्मम
३.२७८.४६नारद उवाच
३.२७८.४७अविघ्नमस्तु सावित्र्याः प्रदाने दुहितुस्तव
साधयिष्यामहे तावत्सर्वेषां भद्रमस्तु वः
३.२७८.४८मार्कण्डेय उवाच
३.२७८.४९एवमुक्त्वा खमुत्पत्य नारदस्त्रिदिवं गतः
राजापि दुहितुः सर्वं वैवाहिकमकारयत्