३. वनपर्व
३.२७९.१मार्कण्डेय उवाच

३.२७९.२अथ कन्याप्रदाने स तमेवार्थं विचिन्तयन्
समानिन्ये च तत्सर्वं भाण्डं वैवाहिकं नृपः

३.२७९.३ततो वृद्धान्द्विजान्सर्वानृत्विजः सपुरोहितान्
समाहूय तिथौ पुण्ये प्रययौ सह कन्यया

३.२७९.४मेध्यारण्यं स गत्वा च द्युमत्सेनाश्रमं नृपः
पद्भ्यामेव द्विजैः सार्धं राजर्षिं तमुपागमत्

३.२७९.५तत्रापश्यन्महाभागं शालवृक्षमुपाश्रितम्
कौश्यां बृस्यां समासीनं चक्षुर्हीनं नृपं तदा

३.२७९.६स राजा तस्य राजर्षेः कृत्वा पूजां यथार्हतः
वाचा सुनियतो भूत्वा चकारात्मनिवेदनम्

३.२७९.७तस्यार्घ्यमासनं चैव गां चावेद्य स धर्मवित्
किमागमनमित्येवं राजा राजानमब्रवीत्

३.२७९.८तस्य सर्वमभिप्रायमितिकर्तव्यतां च ताम्
सत्यवन्तं समुद्दिश्य सर्वमेव न्यवेदयत्

३.२७९.९अश्वपतिरुवाच

३.२७९.१०सावित्री नाम राजर्षे कन्येयं मम शोभना
तां स्वधर्मेण धर्मज्ञ स्नुषार्थे त्वं गृहाण मे

३.२७९.११द्युमत्सेन उवाच

३.२७९.१२च्युताः स्म राज्याद्वनवासमाश्रिता;श्चराम धर्मं नियतास्तपस्विनः
कथं त्वनर्हा वनवासमाश्रमे; सहिष्यते क्लेशमिमं सुता तव

३.२७९.१३अश्वपतिरुवाच

३.२७९.१४सुखं च दुःखं च भवाभवात्मकं; यदा विजानाति सुताहमेव च
न मद्विधे युज्यति वाक्यमीदृशं; विनिश्चयेनाभिगतोऽस्मि ते नृप

३.२७९.१५आशां नार्हसि मे हन्तुं सौहृदात्प्रणयेन च
अभितश्चागतं प्रेम्णा प्रत्याख्यातुं न मार्हसि

३.२७९.१६अनुरूपो हि संयोगे त्वं ममाहं तवापि च
स्नुषां प्रतीच्छ मे कन्यां भार्यां सत्यवतः सुताम्

३.२७९.१७द्युमत्सेन उवाच

३.२७९.१८पूर्वमेवाभिलषितः संबन्धो मे त्वया सह
भ्रष्टराज्यस्त्वहमिति तत एतद्विचारितम्

३.२७९.१९अभिप्रायस्त्वयं यो मे पूर्वमेवाभिकाङ्क्षितः
स निर्वर्ततु मेऽद्यैव काङ्क्षितो ह्यसि मेऽतिथिः

३.२७९.२०मार्कण्डेय उवाच

३.२७९.२१ततः सर्वान्समानीय द्विजानाश्रमवासिनः
यथाविधि समुद्वाहं कारयामासतुर्नृपौ

३.२७९.२२दत्त्वा त्वश्वपतिः कन्यां यथार्हं च परिच्छदम्
ययौ स्वमेव भवनं युक्तः परमया मुदा

३.२७९.२३सत्यवानपि भार्यां तां लब्ध्वा सर्वगुणान्विताम्
मुमुदे सा च तं लब्ध्वा भर्तारं मनसेप्सितम्

३.२७९.२४गते पितरि सर्वाणि संन्यस्याभरणानि सा
जगृहे वल्कलान्येव वस्त्रं काषायमेव च

३.२७९.२५परिचारैर्गुणैश्चैव प्रश्रयेण दमेन च
सर्वकामक्रियाभिश्च सर्वेषां तुष्टिमावहत्

३.२७९.२६श्वश्रूं शरीरसत्कारैः सर्वैराच्छादनादिभिः
श्वशुरं देवकार्यैश्च वाचः संयमनेन च

३.२७९.२७तथैव प्रियवादेन नैपुणेन शमेन च
रहश्चैवोपचारेण भर्तारं पर्यतोषयत्

३.२७९.२८एवं तत्राश्रमे तेषां तदा निवसतां सताम्
कालस्तपस्यतां कश्चिदतिचक्राम भारत

३.२७९.२९सावित्र्यास्तु शयानायास्तिष्ठन्त्याश्च दिवानिशम्
नारदेन यदुक्तं तद्वाक्यं मनसि वर्तते