३.२९.१द्रौपद्युवाच
३.२९.२अत्राप्युदाहरन्तीममितिहासं पुरातनम्
प्रह्लादस्य च संवादं बलेर्वैरोचनस्य च
३.२९.३असुरेन्द्रं महाप्राज्ञं धर्माणामागतागमम्
बलिः पप्रच्छ दैत्येन्द्रं प्रह्लादं पितरं पितुः
३.२९.४क्षमा स्विच्छ्रेयसी तात उताहो तेज इत्युत
एतन्मे संशयं तात यथावद्ब्रूहि पृच्छते
३.२९.५श्रेयो यदत्र धर्मज्ञ ब्रूहि मे तदसंशयम्
करिष्यामि हि तत्सर्वं यथावदनुशासनम्
३.२९.६तस्मै प्रोवाच तत्सर्वमेवं पृष्टः पितामहः
सर्वनिश्चयवित्प्राज्ञः संशयं परिपृच्छते
३.२९.७प्रह्लाद उवाच
३.२९.८न श्रेयः सततं तेजो न नित्यं श्रेयसी क्षमा
इति तात विजानीहि द्वयमेतदसंशयम्
३.२९.९यो नित्यं क्षमते तात बहून्दोषान्स विन्दति
भृत्याः परिभवन्त्येनमुदासीनास्तथैव च
३.२९.१०सर्वभूतानि चाप्यस्य न नमन्ते कदाचन
तस्मान्नित्यं क्षमा तात पण्डितैरपवादिता
३.२९.११अवज्ञाय हि तं भृत्या भजन्ते बहुदोषताम्
आदातुं चास्य वित्तानि प्रार्थयन्तेऽल्पचेतसः
३.२९.१२यानं वस्त्राण्यलंकाराञ्शयनान्यासनानि च
भोजनान्यथ पानानि सर्वोपकरणानि च
३.२९.१३आददीरन्नधिकृता यथाकाममचेतसः
प्रदिष्टानि च देयानि न दद्युर्भर्तृशासनात्
३.२९.१४न चैनं भर्तृपूजाभिः पूजयन्ति कदाचन
अवज्ञानं हि लोकेऽस्मिन्मरणादपि गर्हितम्
३.२९.१५क्षमिणं तादृशं तात ब्रुवन्ति कटुकान्यपि
प्रेष्याः पुत्राश्च भृत्याश्च तथोदासीनवृत्तयः
३.२९.१६अप्यस्य दारानिच्छन्ति परिभूय क्षमावतः
दाराश्चास्य प्रवर्तन्ते यथाकाममचेतसः
३.२९.१७तथा च नित्यमुदिता यदि स्वल्पमपीश्वरात्
दण्डमर्हन्ति दुष्यन्ति दुष्टाश्चाप्यपकुर्वते
३.२९.१८एते चान्ये च बहवो नित्यं दोषाः क्षमावताम्
अथ वैरोचने दोषानिमान्विद्ध्यक्षमावताम्
३.२९.१९अस्थाने यदि वा स्थाने सततं रजसावृतः
क्रुद्धो दण्डान्प्रणयति विविधान्स्वेन तेजसा
३.२९.२०मित्रैः सह विरोधं च प्राप्नुते तेजसावृतः
प्राप्नोति द्वेष्यतां चैव लोकात्स्वजनतस्तथा
३.२९.२१सोऽवमानादर्थहानिमुपालम्भमनादरम्
संतापद्वेषलोभांश्च शत्रूंश्च लभते नरः
३.२९.२२क्रोधाद्दण्डान्मनुष्येषु विविधान्पुरुषो नयन्
भ्रश्यते शीघ्रमैश्वर्यात्प्राणेभ्यः स्वजनादपि
३.२९.२३योऽपकर्तॄंश्च कर्तॄंश्च तेजसैवोपगच्छति
तस्मादुद्विजते लोकः सर्पाद्वेश्मगतादिव
३.२९.२४यस्मादुद्विजते लोकः कथं तस्य भवो भवेत्
अन्तरं ह्यस्य दृष्ट्वैव लोको विकुरुते ध्रुवम्
तस्मान्नात्युत्सृजेत्तेजो न च नित्यं मृदुर्भवेत्
३.२९.२५काले मृदुर्यो भवति काले भवति दारुणः
स वै सुखमवाप्नोति लोकेऽमुष्मिन्निहैव च
३.२९.२६क्षमाकालांस्तु वक्ष्यामि शृणु मे विस्तरेण तान्
ये ते नित्यमसंत्याज्या यथा प्राहुर्मनीषिणः
३.२९.२७पूर्वोपकारी यस्तु स्यादपराधेऽगरीयसि
उपकारेण तत्तस्य क्षन्तव्यमपराधिनः
३.२९.२८अबुद्धिमाश्रितानां च क्षन्तव्यमपराधिनाम्
न हि सर्वत्र पाण्डित्यं सुलभं पुरुषेण वै
३.२९.२९अथ चेद्बुद्धिजं कृत्वा ब्रूयुस्ते तदबुद्धिजम्
पापान्स्वल्पेऽपि तान्हन्यादपराधे तथानृजून्
३.२९.३०सर्वस्यैकोऽपराधस्ते क्षन्तव्यः प्राणिनो भवेत्
द्वितीये सति वध्यस्तु स्वल्पेऽप्यपकृते भवेत्
३.२९.३१अजानता भवेत्कश्चिदपराधः कृतो यदि
क्षन्तव्यमेव तस्याहुः सुपरीक्ष्य परीक्षया
३.२९.३२मृदुना मार्दवं हन्ति मृदुना हन्ति दारुणम्
नासाध्यं मृदुना किंचित्तस्मात्तीक्ष्णतरो मृदुः
३.२९.३३देशकालौ तु संप्रेक्ष्य बलाबलमथात्मनः
नादेशकाले किंचित्स्याद्देशः कालः प्रतीक्ष्यते
तथा लोकभयाच्चैव क्षन्तव्यमपराधिनः
३.२९.३४एत एवंविधाः कालाः क्षमायाः परिकीर्तिताः
अतोऽन्यथानुवर्तत्सु तेजसः काल उच्यते
३.२९.३५द्रौपद्युवाच
३.२९.३६तदहं तेजसः कालं तव मन्ये नराधिप
धार्तराष्ट्रेषु लुब्धेषु सततं चापकारिषु
३.२९.३७न हि कश्चित्क्षमाकालो विद्यतेऽद्य कुरून्प्रति
तेजसश्चागते काले तेज उत्स्रष्टुमर्हसि
३.२९.३८मृदुर्भवत्यवज्ञातस्तीक्ष्णादुद्विजते जनः
काले प्राप्ते द्वयं ह्येतद्यो वेद स महीपतिः