३. वनपर्व
३.२८६.१कर्ण उवाच

३.२८६.२भगवन्तमहं भक्तो यथा मां वेत्थ गोपते
तथा परमतिग्मांशो नान्यं देवं कथंचन

३.२८६.३न मे दारा न मे पुत्रा न चात्मा सुहृदो न च
तथेष्टा वै सदा भक्त्या यथा त्वं गोपते मम

३.२८६.४इष्टानां च महात्मानो भक्तानां च न संशयः
कुर्वन्ति भक्तिमिष्टां च जानीषे त्वं च भास्कर

३.२८६.५इष्टो भक्तश्च मे कर्णो न चान्यद्दैवतं दिवि
जानीत इति वै कृत्वा भगवानाह मद्धितम्

३.२८६.६भूयश्च शिरसा याचे प्रसाद्य च पुनः पुनः
इति ब्रवीमि तिग्मांशो त्वं तु मे क्षन्तुमर्हसि

३.२८६.७बिभेमि न तथा मृत्योर्यथा बिभ्येऽनृतादहम्
विशेषेण द्विजातीनां सर्वेषां सर्वदा सताम्
प्रदाने जीवितस्यापि न मेऽत्रास्ति विचारणा

३.२८६.८यच्च मामात्थ देव त्वं पाण्डवं फल्गुनं प्रति
व्येतु संतापजं दुःखं तव भास्कर मानसम्
अर्जुनं प्रति मां चैव विजेष्यामि रणेऽर्जुनम्

३.२८६.९तवापि विदितं देव ममाप्यस्त्रबलं महत्
जामदग्न्यादुपात्तं यत्तथा द्रोणान्महात्मनः

३.२८६.१०इदं त्वमनुजानीहि सुरश्रेष्ठ व्रतं मम
भिक्षते वज्रिणे दद्यामपि जीवितमात्मनः

३.२८६.११सूर्य उवाच

३.२८६.१२यदि तात ददास्येते वज्रिणे कुण्डले शुभे
त्वमप्येनमथो ब्रूया विजयार्थं महाबल

३.२८६.१३नियमेन प्रदद्यास्त्वं कुण्डले वै शतक्रतोः
अवध्यो ह्यसि भूतानां कुण्डलाभ्यां समन्वितः

३.२८६.१४अर्जुनेन विनाशं हि तव दानवसूदनः
प्रार्थयानो रणे वत्स कुण्डले ते जिहीर्षति

३.२८६.१५स त्वमप्येनमाराध्य सूनृताभिः पुनः पुनः
अभ्यर्थयेथा देवेशममोघार्थं पुरंदरम्

३.२८६.१६अमोघां देहि मे शक्तिममित्रविनिबर्हिणीम्
दास्यामि ते सहस्राक्ष कुण्डले वर्म चोत्तमम्

३.२८६.१७इत्येवं नियमेन त्वं दद्याः शक्राय कुण्डले
तया त्वं कर्ण संग्रामे हनिष्यसि रणे रिपून्

३.२८६.१८नाहत्वा हि महाबाहो शत्रूनेति करं पुनः
सा शक्तिर्देवराजस्य शतशोऽथ सहस्रशः

३.२८६.१९वैशंपायन उवाच

३.२८६.२०एवमुक्त्वा सहस्रांशुः सहसान्तरधीयत
ततः सूर्याय जप्यान्ते कर्णः स्वप्नं न्यवेदयत्

३.२८६.२१यथादृष्टं यथातत्त्वं यथोक्तमुभयोर्निशि
तत्सर्वमानुपूर्व्येण शशंसास्मै वृषस्तदा

३.२८६.२२तच्छ्रुत्वा भगवान्देवो भानुः स्वर्भानुसूदनः
उवाच तं तथेत्येव कर्णं सूर्यः स्मयन्निव

३.२८६.२३ततस्तत्त्वमिति ज्ञात्वा राधेयः परवीरहा
शक्तिमेवाभिकाङ्क्षन्वै वासवं प्रत्यपालयत्