३.३०.१युधिष्ठिर उवाच
३.३०.२क्रोधो हन्ता मनुष्याणां क्रोधो भावयिता पुनः
इति विद्धि महाप्राज्ञे क्रोधमूलौ भवाभवौ
३.३०.३यो हि संहरते क्रोधं भावस्तस्य सुशोभने
यः पुनः पुरुषः क्रोधं नित्यं न सहते शुभे
तस्याभावाय भवति क्रोधः परमदारुणः
३.३०.४क्रोधमूलो विनाशो हि प्रजानामिह दृश्यते
तत्कथं मादृशः क्रोधमुत्सृजेल्लोकनाशनम्
३.३०.५क्रुद्धः पापं नरः कुर्यात्क्रुद्धो हन्याद्गुरूनपि
क्रुद्धः परुषया वाचा श्रेयसोऽप्यवमन्यते
३.३०.६वाच्यावाच्ये हि कुपितो न प्रजानाति कर्हिचित्
नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते तथा
३.३०.७हिंस्यात्क्रोधादवध्यांश्च वध्यान्संपूजयेदपि
आत्मानमपि च क्रुद्धः प्रेषयेद्यमसादनम्
३.३०.८एतान्दोषान्प्रपश्यद्भिर्जितः क्रोधो मनीषिभिः
इच्छद्भिः परमं श्रेय इह चामुत्र चोत्तमम्
३.३०.९तं क्रोधं वर्जितं धीरैः कथमस्मद्विधश्चरेत्
एतद्द्रौपदि संधाय न मे मन्युः प्रवर्धते
३.३०.१०आत्मानं च परं चैव त्रायते महतो भयात्
क्रुध्यन्तमप्रतिक्रुध्यन्द्वयोरेष चिकित्सकः
३.३०.११मूढो यदि क्लिश्यमानः क्रुध्यतेऽशक्तिमान्नरः
बलीयसां मनुष्याणां त्यजत्यात्मानमन्ततः
३.३०.१२तस्यात्मानं संत्यजतो लोका नश्यन्त्यनात्मनः
तस्माद्द्रौपद्यशक्तस्य मन्योर्नियमनं स्मृतम्
३.३०.१३विद्वांस्तथैव यः शक्तः क्लिश्यमानो न कुप्यति
स नाशयित्वा क्लेष्टारं परलोके च नन्दति
३.३०.१४तस्माद्बलवता चैव दुर्बलेन च नित्यदा
क्षन्तव्यं पुरुषेणाहुरापत्स्वपि विजानता
३.३०.१५मन्योर्हि विजयं कृष्णे प्रशंसन्तीह साधवः
क्षमावतो जयो नित्यं साधोरिह सतां मतम्
३.३०.१६सत्यं चानृततः श्रेयो नृशंसाच्चानृशंसता
तमेवं बहुदोषं तु क्रोधं साधुविवर्जितम्
मादृशः प्रसृजेत्कस्मात्सुयोधनवधादपि
३.३०.१७तेजस्वीति यमाहुर्वै पण्डिता दीर्घदर्शिनः
न क्रोधोऽभ्यन्तरस्तस्य भवतीति विनिश्चितम्
३.३०.१८यस्तु क्रोधं समुत्पन्नं प्रज्ञया प्रतिबाधते
तेजस्विनं तं विद्वांसो मन्यन्ते तत्त्वदर्शिनः
३.३०.१९क्रुद्धो हि कार्यं सुश्रोणि न यथावत्प्रपश्यति
न कार्यं न च मर्यादां नरः क्रुद्धोऽनुपश्यति
३.३०.२०हन्त्यवध्यानपि क्रुद्धो गुरून्रूक्षैस्तुदत्यपि
तस्मात्तेजसि कर्तव्ये क्रोधो दूरात्प्रतिष्ठितः
३.३०.२१दाक्ष्यं ह्यमर्षः शौर्यं च शीघ्रत्वमिति तेजसः
गुणाः क्रोधाभिभूतेन न शक्याः प्राप्तुमञ्जसा
३.३०.२२क्रोधं त्यक्त्वा तु पुरुषः सम्यक्तेजोऽभिपद्यते
कालयुक्तं महाप्राज्ञे क्रुद्धैस्तेजः सुदुःसहम्
३.३०.२३क्रोधस्त्वपण्डितैः शश्वत्तेज इत्यभिधीयते
रजस्तल्लोकनाशाय विहितं मानुषान्प्रति
३.३०.२४तस्माच्छश्वत्त्यजेत्क्रोधं पुरुषः सम्यगाचरन्
श्रेयान्स्वधर्मानपगो न क्रुद्ध इति निश्चितम्
३.३०.२५यदि सर्वमबुद्धीनामतिक्रान्तममेधसाम्
अतिक्रमो मद्विधस्य कथं स्वित्स्यादनिन्दिते
३.३०.२६यदि न स्युर्मनुष्येषु क्षमिणः पृथिवीसमाः
न स्यात्संधिर्मनुष्याणां क्रोधमूलो हि विग्रहः
३.३०.२७अभिषक्तो ह्यभिषजेदाहन्याद्गुरुणा हतः
एवं विनाशो भूतानामधर्मः प्रथितो भवेत्
३.३०.२८आक्रुष्टः पुरुषः सर्वः प्रत्याक्रोशेदनन्तरम्
प्रतिहन्याद्धतश्चैव तथा हिंस्याच्च हिंसितः
३.३०.२९हन्युर्हि पितरः पुत्रान्पुत्राश्चापि तथा पितॄन्
हन्युश्च पतयो भार्याः पतीन्भार्यास्तथैव च
३.३०.३०एवं संकुपिते लोके जन्म कृष्णे न विद्यते
प्रजानां संधिमूलं हि जन्म विद्धि शुभानने
३.३०.३१ताः क्षीयेरन्प्रजाः सर्वाः क्षिप्रं द्रौपदि तादृशे
तस्मान्मन्युर्विनाशाय प्रजानामभवाय च
३.३०.३२यस्मात्तु लोके दृश्यन्ते क्षमिणः पृथिवीसमाः
तस्माज्जन्म च भूतानां भवश्च प्रतिपद्यते
३.३०.३३क्षन्तव्यं पुरुषेणेह सर्वास्वापत्सु शोभने
क्षमा भवो हि भूतानां जन्म चैव प्रकीर्तितम्
३.३०.३४आक्रुष्टस्ताडितः क्रुद्धः क्षमते यो बलीयसा
यश्च नित्यं जितक्रोधो विद्वानुत्तमपूरुषः
३.३०.३५प्रभाववानपि नरस्तस्य लोकाः सनातनाः
क्रोधनस्त्वल्पविज्ञानः प्रेत्य चेह च नश्यति
३.३०.३६अत्राप्युदाहरन्तीमा गाथा नित्यं क्षमावताम्
गीताः क्षमावता कृष्णे काश्यपेन महात्मना
३.३०.३७क्षमा धर्मः क्षमा यज्ञः क्षमा वेदाः क्षमा श्रुतम्
यस्तामेवं विजानाति स सर्वं क्षन्तुमर्हति
३.३०.३८क्षमा ब्रह्म क्षमा सत्यं क्षमा भूतं च भावि च
क्षमा तपः क्षमा शौचं क्षमया चोद्धृतं जगत्
३.३०.३९अति ब्रह्मविदां लोकानति चापि तपस्विनाम्
अति यज्ञविदां चैव क्षमिणः प्राप्नुवन्ति तान्
३.३०.४०क्षमा तेजस्विनां तेजः क्षमा ब्रह्म तपस्विनाम्
क्षमा सत्यं सत्यवतां क्षमा दानं क्षमा यशः
३.३०.४१तां क्षमामीदृशीं कृष्णे कथमस्मद्विधस्त्यजेत्
यस्यां ब्रह्म च सत्यं च यज्ञा लोकाश्च विष्ठिताः
भुज्यन्ते यज्वनां लोकाः क्षमिणामपरे तथा
३.३०.४२क्षन्तव्यमेव सततं पुरुषेण विजानता
यदा हि क्षमते सर्वं ब्रह्म संपद्यते तदा
३.३०.४३क्षमावतामयं लोकः परश्चैव क्षमावताम्
इह संमानमृच्छन्ति परत्र च शुभां गतिम्
३.३०.४४येषां मन्युर्मनुष्याणां क्षमया निहतः सदा
तेषां परतरे लोकास्तस्मात्क्षान्तिः परा मता
३.३०.४५इति गीताः काश्यपेन गाथा नित्यं क्षमावताम्
श्रुत्वा गाथाः क्षमायास्त्वं तुष्य द्रौपदि मा क्रुधः
३.३०.४६पितामहः शांतनवः शमं संपूजयिष्यति
आचार्यो विदुरः क्षत्ता शममेव वदिष्यतः
कृपश्च संजयश्चैव शममेव वदिष्यतः
३.३०.४७सोमदत्तो युयुत्सुश्च द्रोणपुत्रस्तथैव च
पितामहश्च नो व्यासः शमं वदति नित्यशः
३.३०.४८एतैर्हि राजा नियतं चोद्यमानः शमं प्रति
राज्यं दातेति मे बुद्धिर्न चेल्लोभान्नशिष्यति
३.३०.४९कालोऽयं दारुणः प्राप्तो भरतानामभूतये
निश्चितं मे सदैवैतत्पुरस्तादपि भामिनि
३.३०.५०सुयोधनो नार्हतीति क्षमामेवं न विन्दति
अर्हस्तस्याहमित्येव तस्मान्मां विन्दते क्षमा
३.३०.५१एतदात्मवतां वृत्तमेष धर्मः सनातनः
क्षमा चैवानृशंस्यं च तत्कर्तास्म्यहमञ्जसा