३. वनपर्व
३.२९८.१वैशंपायन उवाच

३.२९८.२ततस्ते यक्षवचनादुदतिष्ठन्त पाण्डवाः
क्षुत्पिपासे च सर्वेषां क्षणे तस्मिन्व्यगच्छताम्

३.२९८.३युधिष्ठिर उवाच

३.२९८.४सरस्येकेन पादेन तिष्ठन्तमपराजितम्
पृच्छामि को भवान्देवो न मे यक्षो मतो भवान्

३.२९८.५वसूनां वा भवानेको रुद्राणामथ वा भवान्
अथ वा मरुतां श्रेष्ठो वज्री वा त्रिदशेश्वरः

३.२९८.६मम हि भ्रातर इमे सहस्रशतयोधिनः
न तं योगं प्रपश्यामि येन स्युर्विनिपातिताः

३.२९८.७सुखं प्रतिविबुद्धानामिन्द्रियाण्युपलक्षये
स भवान्सुहृदस्माकमथ वा नः पिता भवान्

३.२९८.८यक्ष उवाच

३.२९८.९अहं ते जनकस्तात धर्मो मृदुपराक्रम
त्वां दिदृक्षुरनुप्राप्तो विद्धि मां भरतर्षभ

३.२९८.१०यशः सत्यं दमः शौचमार्जवं ह्रीरचापलम्
दानं तपो ब्रह्मचर्यमित्येतास्तनवो मम

३.२९८.११अहिंसा समता शान्तिस्तपः शौचममत्सरः
द्वाराण्येतानि मे विद्धि प्रियो ह्यसि सदा मम

३.२९८.१२दिष्ट्या पञ्चसु रक्तोऽसि दिष्ट्या ते षट्पदी जिता
द्वे पूर्वे मध्यमे द्वे च द्वे चान्ते सांपरायिके

३.२९८.१३धर्मोऽहमस्मि भद्रं ते जिज्ञासुस्त्वामिहागतः
आनृशंस्येन तुष्टोऽस्मि वरं दास्यामि तेऽनघ

३.२९८.१४वरं वृणीष्व राजेन्द्र दाता ह्यस्मि तवानघ
ये हि मे पुरुषा भक्ता न तेषामस्ति दुर्गतिः

३.२९८.१५युधिष्ठिर उवाच

३.२९८.१६अरणीसहितं यस्य मृग आदाय गच्छति
तस्याग्नयो न लुप्येरन्प्रथमोऽस्तु वरो मम

३.२९८.१७धर्म उवाच

३.२९८.१८अरणीसहितं तस्य ब्राह्मणस्य हृतं मया
मृगवेषेण कौन्तेय जिज्ञासार्थं तव प्रभो

३.२९८.१९वैशंपायन उवाच

३.२९८.२०ददानीत्येव भगवानुत्तरं प्रत्यपद्यत
अन्यं वरय भद्रं ते वरं त्वममरोपम

३.२९८.२१युधिष्ठिर उवाच

३.२९८.२२वर्षाणि द्वादशारण्ये त्रयोदशमुपस्थितम्
तत्र नो नाभिजानीयुर्वसतो मनुजाः क्वचित्

३.२९८.२३वैशंपायन उवाच

३.२९८.२४ददानीत्येव भगवानुत्तरं प्रत्यपद्यत
भूयश्चाश्वासयामास कौन्तेयं सत्यविक्रमम्

३.२९८.२५यद्यपि स्वेन रूपेण चरिष्यथ महीमिमाम्
न वो विज्ञास्यते कश्चित्त्रिषु लोकेषु भारत

३.२९८.२६वर्षं त्रयोदशं चेदं मत्प्रसादात्कुरूद्वहाः
विराटनगरे गूढा अविज्ञाताश्चरिष्यथ

३.२९८.२७यद्वः संकल्पितं रूपं मनसा यस्य यादृशम्
तादृशं तादृशं सर्वे छन्दतो धारयिष्यथ

३.२९८.२८अरणीसहितं चेदं ब्राह्मणाय प्रयच्छत
जिज्ञासार्थं मया ह्येतदाहृतं मृगरूपिणा

३.२९८.२९तृतीयं गृह्यतां पुत्र वरमप्रतिमं महत्
त्वं हि मत्प्रभवो राजन्विदुरश्च ममांशभाक्

३.२९८.३०युधिष्ठिर उवाच

३.२९८.३१देवदेवो मया दृष्टो भवान्साक्षात्सनातनः
यं ददासि वरं तुष्टस्तं ग्रहीष्याम्यहं पितः

३.२९८.३२जयेयं लोभमोहौ च क्रोधं चाहं सदा विभो
दाने तपसि सत्ये च मनो मे सततं भवेत्

३.२९८.३३धर्म उवाच

३.२९८.३४उपपन्नो गुणैः सर्वैः स्वभावेनासि पाण्डव
भवान्धर्मः पुनश्चैव यथोक्तं ते भविष्यति

३.२९८.३५वैशंपायन उवाच

३.२९८.३६इत्युक्त्वान्तर्दधे धर्मो भगवाँल्लोकभावनः
समेताः पाण्डवाश्चैव सुखसुप्ता मनस्विनः

३.२९८.३७अभ्येत्य चाश्रमं वीराः सर्व एव गतक्लमाः
आरणेयं ददुस्तस्मै ब्राह्मणाय तपस्विने

३.२९८.३८इदं समुत्थानसमागमं मह;त्पितुश्च पुत्रस्य च कीर्तिवर्धनम्
पठन्नरः स्याद्विजितेन्द्रियो वशी; सपुत्रपौत्रः शतवर्षभाग्भवेत्

३.२९८.३९न चाप्यधर्मे न सुहृद्विभेदने; परस्वहारे परदारमर्शने
कदर्यभावे न रमेन्मनः सदा; नृणां सदाख्यानमिदं विजानताम्