३.३१.१द्रौपद्युवाच
३.३१.२नमो धात्रे विधात्रे च यौ मोहं चक्रतुस्तव
पितृपैतामहे वृत्ते वोढव्ये तेऽन्यथा मतिः
३.३१.३नेह धर्मानृशंस्याभ्यां न क्षान्त्या नार्जवेन च
पुरुषः श्रियमाप्नोति न घृणित्वेन कर्हिचित्
३.३१.४त्वां चेद्व्यसनमभ्यागादिदं भारत दुःसहम्
यत्त्वं नार्हसि नापीमे भ्रातरस्ते महौजसः
३.३१.५न हि तेऽध्यगमञ्जातु तदानीं नाद्य भारत
धर्मात्प्रियतरं किंचिदपि चेज्जीवितादिह
३.३१.६धर्मार्थमेव ते राज्यं धर्मार्थं जीवितं च ते
ब्राह्मणा गुरवश्चैव जानन्त्यपि च देवताः
३.३१.७भीमसेनार्जुनौ चैव माद्रेयौ च मया सह
त्यजेस्त्वमिति मे बुद्धिर्न तु धर्मं परित्यजेः
३.३१.८राजानं धर्मगोप्तारं धर्मो रक्षति रक्षितः
इति मे श्रुतमार्याणां त्वां तु मन्ये न रक्षति
३.३१.९अनन्या हि नरव्याघ्र नित्यदा धर्ममेव ते
बुद्धिः सततमन्वेति छायेव पुरुषं निजा
३.३१.१०नावमंस्था हि सदृशान्नावराञ्श्रेयसः कुतः
अवाप्य पृथिवीं कृत्स्नां न ते शृङ्गमवर्धत
३.३१.११स्वाहाकारैः स्वधाभिश्च पूजाभिरपि च द्विजान्
दैवतानि पितॄंश्चैव सततं पार्थ सेवसे
३.३१.१२ब्राह्मणाः सर्वकामैस्ते सततं पार्थ तर्पिताः
यतयो मोक्षिणश्चैव गृहस्थाश्चैव भारत
३.३१.१३आरण्यकेभ्यो लौहानि भाजनानि प्रयच्छसि
नादेयं ब्राह्मणेभ्यस्ते गृहे किंचन विद्यते
३.३१.१४यदिदं वैश्वदेवान्ते सायंप्रातः प्रदीयते
तद्दत्त्वातिथिभृत्येभ्यो राजञ्शेषेण जीवसि
३.३१.१५इष्टयः पशुबन्धाश्च काम्यनैमित्तिकाश्च ये
वर्तन्ते पाकयज्ञाश्च यज्ञकर्म च नित्यदा
३.३१.१६अस्मिन्नपि महारण्ये विजने दस्युसेविते
राष्ट्रादपेत्य वसतो धार्मस्ते नावसीदति
३.३१.१७अश्वमेधो राजसूयः पुण्डरीकोऽथ गोसवः
एतैरपि महायज्ञैरिष्टं ते भूरिदक्षिणैः
३.३१.१८राजन्परीतया बुद्ध्या विषमेऽक्षपराजये
राज्यं वसून्यायुधानि भ्रातॄन्मां चासि निर्जितः
३.३१.१९ऋजोर्मृदोर्वदान्यस्य ह्रीमतः सत्यवादिनः
कथमक्षव्यसनजा बुद्धिरापतिता तव
३.३१.२०अतीव मोहमायाति मनश्च परिदूयते
निशाम्य ते दुःखमिदमिमां चापदमीदृशीम्
३.३१.२१अत्राप्युदाहरन्तीममितिहासं पुरातनम्
ईश्वरस्य वशे लोकस्तिष्ठते नात्मनो यथा
३.३१.२२धातैव खलु भूतानां सुखदुःखे प्रियाप्रिये
दधाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन्
३.३१.२३यथा दारुमयी योषा नरवीर समाहिता
ईरयत्यङ्गमङ्गानि तथा राजन्निमाः प्रजाः
३.३१.२४आकाश इव भूतानि व्याप्य सर्वाणि भारत
ईश्वरो विदधातीह कल्याणं यच्च पापकम्
३.३१.२५शकुनिस्तन्तुबद्धो वा नियतोऽयमनीश्वरः
ईश्वरस्य वशे तिष्ठन्नान्येषां नात्मनः प्रभुः
३.३१.२६मणिः सूत्र इव प्रोतो नस्योत इव गोवृषः
धातुरादेशमन्वेति तन्मयो हि तदर्पणः
३.३१.२७नात्माधीनो मनुष्योऽयं कालं भवति कंचन
स्रोतसो मध्यमापन्नः कूलाद्वृक्ष इव च्युतः
३.३१.२८अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः
ईश्वरप्रेरितो गच्छेत्स्वर्गं नरकमेव च
३.३१.२९यथा वायोस्तृणाग्राणि वशं यान्ति बलीयसः
धातुरेवं वशं यान्ति सर्वभूतानि भारत
३.३१.३०आर्यकर्मणि युञ्जानः पापे वा पुनरीश्वरः
व्याप्य भूतानि चरते न चायमिति लक्ष्यते
३.३१.३१हेतुमात्रमिदं धातुः शरीरं क्षेत्रसंज्ञितम्
येन कारयते कर्म शुभाशुभफलं विभुः
३.३१.३२पश्य मायाप्रभावोऽयमीश्वरेण यथा कृतः
यो हन्ति भूतैर्भूतानि मोहयित्वात्ममायया
३.३१.३३अन्यथा परिदृष्टानि मुनिभिर्वेददर्शिभिः
अन्यथा परिवर्तन्ते वेगा इव नभस्वतः
३.३१.३४अन्यथैव हि मन्यन्ते पुरुषास्तानि तानि च
अन्यथैव प्रभुस्तानि करोति विकरोति च
३.३१.३५यथा काष्ठेन वा काष्ठमश्मानं चाश्मना पुनः
अयसा चाप्ययश्छिन्द्यान्निर्विचेष्टमचेतनम्
३.३१.३६एवं स भगवान्देवः स्वयम्भूः प्रपितामहः
हिनस्ति भूतैर्भूतानि छद्म कृत्वा युधिष्ठिर
३.३१.३७संप्रयोज्य वियोज्यायं कामकारकरः प्रभुः
क्रीडते भगवान्भूतैर्बालः क्रीडनकैरिव
३.३१.३८न मातृपितृवद्राजन्धाता भूतेषु वर्तते
रोषादिव प्रवृत्तोऽयं यथायमितरो जनः
३.३१.३९आर्याञ्शीलवतो दृष्ट्वा ह्रीमतो वृत्तिकर्शितान्
अनार्यान्सुखिनश्चैव विह्वलामीव चिन्तया
३.३१.४०तवेमामापदं दृष्ट्वा समृद्धिं च सुयोधने
धातारं गर्हये पार्थ विषमं योऽनुपश्यति
३.३१.४१आर्यशास्त्रातिगे क्रूरे लुब्धे धर्मापचायिनि
धार्तराष्ट्रे श्रियं दत्त्वा धाता किं फलमश्नुते
३.३१.४२कर्म चेत्कृतमन्वेति कर्तारं नान्यमृच्छति
कर्मणा तेन पापेन लिप्यते नूनमीश्वरः
३.३१.४३अथ कर्म कृतं पापं न चेत्कर्तारमृच्छति
कारणं बलमेवेह जनाञ्शोचामि दुर्बलान्