३.४६.१जनमेजय उवाच
३.४६.२अत्यद्भुतमिदं कर्म पार्थस्यामिततेजसः
धृतराष्ट्रो महातेजाः श्रुत्वा विप्र किमब्रवीत्
३.४६.३वैशंपायन उवाच
३.४६.४शक्रलोकगतं पार्थं श्रुत्वा राजाम्बिकासुतः
द्वैपायनादृषिश्रेष्ठात्संजयं वाक्यमब्रवीत्
३.४६.५श्रुतं मे सूत कार्त्स्न्येन कर्म पार्थस्य धीमतः
कच्चित्तवापि विदितं यथातथ्येन सारथे
३.४६.६प्रमत्तो ग्राम्यधर्मेषु मन्दात्मा पापनिश्चयः
मम पुत्रः सुदुर्बुद्धिः पृथिवीं घातयिष्यति
३.४६.७यस्य नित्यमृता वाचः स्वैरेष्वपि महात्मनः
त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनंजयः
३.४६.८अस्यतः कर्णिनाराचांस्तीक्ष्णाग्रांश्च शिलाशितान्
कोऽर्जुनस्याग्रतस्तिष्ठेदपि मृत्युर्जरातिगः
३.४६.९मम पुत्रा दुरात्मानः सर्वे मृत्युवशं गताः
येषां युद्धं दुराधर्षैः पाण्डवैः प्रत्युपस्थितम्
३.४६.१०तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः
अनिशं चिन्तयानोऽपि य एनमुदियाद्रथी
३.४६.११द्रोणकर्णौ प्रतीयातां यदि भीष्मोऽपि वा रणे
महान्स्यात्संशयो लोके न तु पश्यामि नो जयम्
३.४६.१२घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः
अमर्षी बलवान्पार्थः संरम्भी दृढविक्रमः
३.४६.१३भवेत्सुतुमुलं युद्धं सर्वशोऽप्यपराजितम्
सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः
३.४६.१४अपि सर्वेश्वरत्वं हि न वाञ्छेरन्पराजिताः
वधे नूनं भवेच्छान्तिस्तेषां वा फल्गुनस्य वा
३.४६.१५न तु हन्तार्जुनस्यास्ति जेता वास्य न विद्यते
मन्युस्तस्य कथं शाम्येन्मन्दान्प्रति समुत्थितः
३.४६.१६त्रिदशेशसमो वीरः खाण्डवेऽग्निमतर्पयत्
जिगाय पार्थिवान्सर्वान्राजसूये महाक्रतौ
३.४६.१७शेषं कुर्याद्गिरेर्वज्रं निपतन्मूर्ध्नि संजय
न तु कुर्युः शराः शेषमस्तास्तात किरीटिना
३.४६.१८यथा हि किरणा भानोस्तपन्तीह चराचरम्
तथा पार्थभुजोत्सृष्टाः शरास्तप्स्यन्ति मे सुतान्
३.४६.१९अपि वा रथघोषेण भयार्ता सव्यसाचिनः
प्रतिभाति विदीर्णेव सर्वतो भारती चमूः
३.४६.२०यदुद्वपन्प्रवपंश्चैव बाणा;न्स्थाताततायी समरे किरीटी
सृष्टोऽन्तकः सर्वहरो विधात्रा; भवेद्यथा तद्वदपारणीयः
३.४६.२१संजय उवाच
३.४६.२२यदेतत्कथितं राजंस्त्वया दुर्योधनं प्रति
सर्वमेतद्यथात्थ त्वं नैतन्मिथ्या महीपते
३.४६.२३मन्युना हि समाविष्टाः पाण्डवास्तेऽमितौजसः
दृष्ट्वा कृष्णां सभां नीतां धर्मपत्नीं यशस्विनीम्
३.४६.२४दुःशासनस्य ता वाचः श्रुत्वा ते दारुणोदयाः
कर्णस्य च महाराज न स्वप्स्यन्तीति मे मतिः
३.४६.२५श्रुतं हि ते महाराज यथा पार्थेन संयुगे
एकादशतनुः स्थाणुर्धनुषा परितोषितः
३.४६.२६कैरातं वेषमास्थाय योधयामास फल्गुनम्
जिज्ञासुः सर्वदेवेशः कपर्दी भगवान्स्वयम्
३.४६.२७तत्रैनं लोकपालास्ते दर्शयामासुरर्जुनम्
अस्त्रहेतोः पराक्रान्तं तपसा कौरवर्षभम्
३.४६.२८नैतदुत्सहतेऽन्यो हि लब्धुमन्यत्र फल्गुनात्
साक्षाद्दर्शनमेतेषामीश्वराणां नरो भुवि
३.४६.२९महेश्वरेण यो राजन्न जीर्णो ग्रस्तमूर्तिमान्
कस्तमुत्सहते वीरं युद्धे जरयितुं पुमान्
३.४६.३०आसादितमिदं घोरं तुमुलं लोमहर्षणम्
द्रौपदीं परिकर्षद्भिः कोपयद्भिश्च पाण्डवान्
३.४६.३१यत्र विस्फुरमाणोष्ठो भीमः प्राह वचो महत्
दृष्ट्वा दुर्योधनेनोरू द्रौपद्या दर्शितावुभौ
३.४६.३२ऊरू भेत्स्यामि ते पाप गदया वज्रकल्पया
त्रयोदशानां वर्षाणामन्ते दुर्द्यूतदेविनः
३.४६.३३सर्वे प्रहरतां श्रेष्ठाः सर्वे चामिततेजसः
सर्वे सर्वास्त्रविद्वांसो देवैरपि सुदुर्जयाः
३.४६.३४मन्ये मन्युसमुद्धूताः पुत्राणां तव संयुगे
अन्तं पार्थाः करिष्यन्ति वीर्यामर्षसमन्विताः
३.४६.३५धृतराष्ट्र उवाच
३.४६.३६किं कृतं सूत कर्णेन वदता परुषं वचः
पर्याप्तं वैरमेतावद्यत्कृष्णा सा सभां गता
३.४६.३७अपीदानीं मम सुतास्तिष्ठेरन्मन्दचेतसः
येषां भ्राता गुरुर्ज्येष्ठो विनये नावतिष्ठते
३.४६.३८ममापि वचनं सूत न शुश्रूषति मन्दभाक्
दृष्ट्वा मां चक्षुषा हीनं निर्विचेष्टमचेतनम्
३.४६.३९ये चास्य सचिवा मन्दाः कर्णसौबलकादयः
तेऽप्यस्य भूयसो दोषान्वर्धयन्ति विचेतसः
३.४६.४०स्वैरमुक्ता अपि शराः पार्थेनामिततेजसा
निर्दहेयुर्मम सुतान्किं पुनर्मन्युनेरिताः
३.४६.४१पार्थबाहुबलोत्सृष्टा महाचापविनिःसृताः
दिव्यास्त्रमन्त्रमुदिताः सादयेयुः सुरानपि
३.४६.४२यस्य मन्त्री च गोप्ता च सुहृच्चैव जनार्दनः
हरिस्त्रैलोक्यनाथः स किं नु तस्य न निर्जितम्
३.४६.४३इदं च सुमहच्चित्रमर्जुनस्येह संजय
महादेवेन बाहुभ्यां यत्समेत इति श्रुतिः
३.४६.४४प्रत्यक्षं सर्वलोकस्य खाण्डवे यत्कृतं पुरा
फल्गुनेन सहायार्थे वह्नेर्दामोदरेण च
३.४६.४५सर्वथा नास्ति मे पुत्रः सामात्यः सहबान्धवः
क्रुद्धे पार्थे च भीमे च वासुदेवे च सात्वते