३.४७.१जनमेजय उवाच
३.४७.२यदिदं शोचितं राज्ञा धृतराष्ट्रेण वै मुने
प्रव्राज्य पाण्डवान्वीरान्सर्वमेतन्निरर्थकम्
३.४७.३कथं हि राजा पुत्रं स्वमुपेक्षेताल्पचेतसम्
दुर्योधनं पाण्डुपुत्रान्कोपयानं महारथान्
३.४७.४किमासीत्पाण्डुपुत्राणां वने भोजनमुच्यताम्
वानेयमथ वा कृष्टमेतदाख्यातु मे भवान्
३.४७.५वैशंपायन उवाच
३.४७.६वानेयं च मृगांश्चैव शुद्धैर्बाणैर्निपातितान्
ब्राह्मणानां निवेद्याग्रमभुञ्जन्पुरुषर्षभाः
३.४७.७तांस्तु शूरान्महेष्वासांस्तदा निवसतो वने
अन्वयुर्ब्राह्मणा राजन्साग्नयोऽनग्नयस्तथा
३.४७.८ब्राह्मणानां सहस्राणि स्नातकानां महात्मनाम्
दश मोक्षविदां तद्वद्यान्बिभर्ति युधिष्ठिरः
३.४७.९रुरून्कृष्णमृगांश्चैव मेध्यांश्चान्यान्वनेचरान्
बाणैरुन्मथ्य विधिवद्ब्राह्मणेभ्यो न्यवेदयत्
३.४७.१०न तत्र कश्चिद्दुर्वर्णो व्याधितो वाप्यदृश्यत
कृशो वा दुर्बलो वापि दीनो भीतोऽपि वा नरः
३.४७.११पुत्रानिव प्रियाञ्ज्ञातीन्भ्रातॄनिव सहोदरान्
पुपोष कौरवश्रेष्ठो धर्मराजो युधिष्ठिरः
३.४७.१२पतींश्च द्रौपदी सर्वान्द्विजांश्चैव यशस्विनी
मातेव भोजयित्वाग्रे शिष्टमाहारयत्तदा
३.४७.१३प्राचीं राजा दक्षिणां भीमसेनो; यमौ प्रतीचीमथ वाप्युदीचीम्
धनुर्धरा मांसहेतोर्मृगाणां; क्षयं चक्रुर्नित्यमेवोपगम्य
३.४७.१४तथा तेषां वसतां काम्यके वै; विहीनानामर्जुनेनोत्सुकानाम्
पञ्चैव वर्षाणि तदा व्यतीयु;रधीयतां जपतां जुह्वतां च