३.४८.१वैशंपायन उवाच
३.४८.२सुदीर्घमुष्णं निःश्वस्य धृतराष्ट्रोऽम्बिकासुतः
अब्रवीत्संजयं सूतमामन्त्र्य भरतर्षभ
३.४८.३देवपुत्रौ महाभागौ देवराजसमद्युती
नकुलः सहदेवश्च पाण्डवौ युद्धदुर्मदौ
३.४८.४दृढायुधौ दूरपातौ युद्धे च कृतनिश्चयौ
शीघ्रहस्तौ दृढक्रोधौ नित्ययुक्तौ तरस्विनौ
३.४८.५भीमार्जुनौ पुरोधाय यदा तौ रणमूर्धनि
स्थास्येते सिंहविक्रान्तावश्विनाविव दुःसहौ
न शेषमिह पश्यामि तदा सैन्यस्य संजय
३.४८.६तौ ह्यप्रतिरथौ युद्धे देवपुत्रौ महारथौ
द्रौपद्यास्तं परिक्लेशं न क्षंस्येते त्वमर्षिणौ
३.४८.७वृष्णयो वा महेष्वासा पाञ्चाला वा महौजसः
युधि सत्याभिसंधेन वासुदेवेन रक्षिताः
प्रधक्ष्यन्ति रणे पार्थाः पुत्राणां मम वाहिनीम्
३.४८.८रामकृष्णप्रणीतानां वृष्णीनां सूतनन्दन
न शक्यः सहितुं वेगः पर्वतैरपि संयुगे
३.४८.९तेषां मध्ये महेष्वासो भीमो भीमपराक्रमः
शैक्यया वीरघातिन्या गदया विचरिष्यति
३.४८.१०तथा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः
गदावेगं च भीमस्य नालं सोढुं नराधिपाः
३.४८.११ततोऽहं सुहृदां वाचो दुर्योधनवशानुगः
स्मरणीयाः स्मरिष्यामि मया या न कृताः पुरा
३.४८.१२संजय उवाच
३.४८.१३व्यतिक्रमोऽयं सुमहांस्त्वया राजन्नुपेक्षितः
समर्थेनापि यन्मोहात्पुत्रस्ते न निवारितः
३.४८.१४श्रुत्वा हि निर्जितान्द्यूते पाण्डवान्मधुसूदनः
त्वरितः काम्यके पार्थान्समभावयदच्युतः
३.४८.१५द्रुपदस्य तथा पुत्रा धृष्टद्युम्नपुरोगमाः
विराटो धृष्टकेतुश्च केकयाश्च महारथाः
३.४८.१६तैश्च यत्कथितं तत्र दृष्ट्वा पार्थान्पराजितान्
चारेण विदितं सर्वं तन्मया वेदितं च ते
३.४८.१७समागम्य वृतस्तत्र पाण्डवैर्मधुसूदनः
सारथ्ये फल्गुनस्याजौ तथेत्याह च तान्हरिः
३.४८.१८अमर्षितो हि कृष्णोऽपि दृष्ट्वा पार्थांस्तथागतान्
कृष्णाजिनोत्तरासङ्गानब्रवीच्च युधिष्ठिरम्
३.४८.१९या सा समृद्धिः पार्थानामिन्द्रप्रस्थे बभूव ह
राजसूये मया दृष्टा नृपैरन्यैः सुदुर्लभा
३.४८.२०यत्र सर्वान्महीपालाञ्शस्त्रतेजोभयार्दितान्
सवङ्गाङ्गान्सपौण्ड्रोड्रान्सचोलद्रविडान्धकान्
३.४८.२१सागरानूपगांश्चैव ये च पत्तनवासिनः
सिंहलान्बर्बरान्म्लेच्छान्ये च जाङ्गलवासिनः
३.४८.२२पश्चिमानि च राज्यानि शतशः सागरान्तिकान्
पह्लवान्दरदान्सर्वान्किरातान्यवनाञ्शकान्
३.४८.२३हारहूणांश्च चीनांश्च तुखारान्सैन्धवांस्तथा
जागुडान्रमठान्मुण्डान्स्त्रीराज्यानथ तङ्गणान्
३.४८.२४एते चान्ये च बहवो ये च ते भरतर्षभ
आगतानहमद्राक्षं यज्ञे ते परिवेषकान्
३.४८.२५सा ते समृद्धिर्यैरात्ता चपला प्रतिसारिणी
आदाय जीवितं तेषामाहरिष्यामि तामहम्
३.४८.२६रामेण सह कौरव्य भीमार्जुनयमैस्तथा
अक्रूरगदसाम्बैश्च प्रद्युम्नेनाहुकेन च
धृष्टद्युम्नेन वीरेण शिशुपालात्मजेन च
३.४८.२७दुर्योधनं रणे हत्वा सद्यः कर्णं च भारत
दुःशासनं सौबलेयं यश्चान्यः प्रतियोत्स्यते
३.४८.२८ततस्त्वं हास्तिनपुरे भ्रातृभिः सहितो वसन्
धार्तराष्ट्रीं श्रियं प्राप्य प्रशाधि पृथिवीमिमाम्
३.४८.२९अथैनमब्रवीद्राजा तस्मिन्वीरसमागमे
शृण्वत्सु तेषु सर्वेषु धृष्टद्युम्नमुखेषु च
३.४८.३०प्रतिगृह्णामि ते वाचं सत्यामेतां जनार्दन
अमित्रान्मे महाबाहो सानुबन्धान्हनिष्यसि
३.४८.३१वर्षात्त्रयोदशादूर्ध्वं सत्यं मां कुरु केशव
प्रतिज्ञातो वने वासो राजमध्ये मया ह्ययम्
३.४८.३२तद्धर्मराजवचनं प्रतिश्रुत्य सभासदः
धृष्टद्युम्नपुरोगास्ते शमयामासुरञ्जसा
केशवं मधुरैर्वाक्यैः कालयुक्तैरमर्षितम्
३.४८.३३पाञ्चालीं चाहुरक्लिष्टां वासुदेवस्य शृण्वतः
दुर्योधनस्तव क्रोधाद्देवि त्यक्ष्यति जीवितम्
प्रतिजानीम ते सत्यं मा शुचो वरवर्णिनि
३.४८.३४ये स्म ते कुपितां कृष्णे दृष्ट्वा त्वां प्राहसंस्तदा
मांसानि तेषां खादन्तो हसिष्यन्ति मृगद्विजाः
३.४८.३५पास्यन्ति रुधिरं तेषां गृध्रा गोमायवस्तथा
उत्तमाङ्गानि कर्षन्तो यैस्त्वं कृष्टा सभातले
३.४८.३६तेषां द्रक्ष्यसि पाञ्चालि गात्राणि पृथिवीतले
क्रव्यादैः कृष्यमाणानि भक्ष्यमाणानि चासकृत्
३.४८.३७परिक्लिष्टासि यैस्तत्र यैश्चापि समुपेक्षिता
तेषामुत्कृत्तशिरसां भूमिः पास्यति शोणितम्
३.४८.३८एवं बहुविधा वाचस्तदोचुः पुरुषर्षभाः
सर्वे तेजस्विनः शूराः सर्वे चाहतलक्षणाः
३.४८.३९ते धर्मराजेन वृता वर्षादूर्ध्वं त्रयोदशात्
पुरस्कृत्योपयास्यन्ति वासुदेवं महारथाः
३.४८.४०रामश्च कृष्णश्च धनंजयश्च; प्रद्युम्नसाम्बौ युयुधानभीमौ
माद्रीसुतौ केकयराजपुत्राः; पाञ्चालपुत्राः सह धर्मराज्ञा
३.४८.४१एतान्सर्वाँल्लोकवीरानजेया;न्महात्मनः सानुबन्धान्ससैन्यान्
को जीवितार्थी समरे प्रत्युदीया;त्क्रुद्धान्सिंहान्केसरिणो यथैव
३.४८.४२धृतराष्ट्र उवाच
३.४८.४३यन्माब्रवीद्विदुरो द्यूतकाले; त्वं पाण्डवाञ्जेष्यसि चेन्नरेन्द्र
ध्रुवं कुरूणामयमन्तकालो; महाभयो भविता शोणितौघः
३.४८.४४मन्ये तथा तद्भवितेति सूत; यथा क्षत्ता प्राह वचः पुरा माम्
असंशयं भविता युद्धमेत;द्गते काले पाण्डवानां यथोक्तम्