३. वनपर्व
३.६०.१बृहदश्व उवाच

३.६०.२अपक्रान्ते नले राजन्दमयन्ती गतक्लमा
अबुध्यत वरारोहा संत्रस्ता विजने वने

३.६०.३सापश्यमाना भर्तारं दुःखशोकसमन्विता
प्राक्रोशदुच्चैः संत्रस्ता महाराजेति नैषधम्

३.६०.४हा नाथ हा महाराज हा स्वामिन्किं जहासि माम्
हा हतास्मि विनष्टास्मि भीतास्मि विजने वने

३.६०.५ननु नाम महाराज धर्मज्ञः सत्यवागसि
कथमुक्त्वा तथासत्यं सुप्तामुत्सृज्य मां गतः

३.६०.६कथमुत्सृज्य गन्तासि वश्यां भार्यामनुव्रताम्
विशेषतोऽनपकृते परेणापकृते सति

३.६०.७शक्ष्यसे ता गिरः सत्याः कर्तुं मयि नरेश्वर
यास्त्वया लोकपालानां संनिधौ कथिताः पुरा

३.६०.८पर्याप्तः परिहासोऽयमेतावान्पुरुषर्षभ
भीताहमस्मि दुर्धर्ष दर्शयात्मानमीश्वर

३.६०.९दृश्यसे दृश्यसे राजन्नेष तिष्ठसि नैषध
आवार्य गुल्मैरात्मानं किं मां न प्रतिभाषसे

३.६०.१०नृशंसं बत राजेन्द्र यन्मामेवंगतामिह
विलपन्तीं समालिङ्ग्य नाश्वासयसि पार्थिव

३.६०.११न शोचाम्यहमात्मानं न चान्यदपि किंचन
कथं नु भवितास्येक इति त्वां नृप शोचिमि

३.६०.१२कथं नु राजंस्तृषितः क्षुधितः श्रमकर्शितः
सायाह्ने वृक्षमूलेषु मामपश्यन्भविष्यसि

३.६०.१३ततः सा तीव्रशोकार्ता प्रदीप्तेव च मन्युना
इतश्चेतश्च रुदती पर्यधावत दुःखिता

३.६०.१४मुहुरुत्पतते बाला मुहुः पतति विह्वला
मुहुरालीयते भीता मुहुः क्रोशति रोदिति

३.६०.१५सा तीव्रशोकसंतप्ता मुहुर्निःश्वस्य विह्वला
उवाच भैमी निष्क्रम्य रोदमाना पतिव्रता

३.६०.१६यस्याभिशापाद्दुःखार्तो दुःखं विन्दति नैषधः
तस्य भूतस्य तद्दुःखाद्दुःखमभ्यधिकं भवेत्

३.६०.१७अपापचेतसं पापो य एवं कृतवान्नलम्
तस्माद्दुःखतरं प्राप्य जीवत्वसुखजीविकाम्

३.६०.१८एवं तु विलपन्ती सा राज्ञो भार्या महात्मनः
अन्वेषति स्म भर्तारं वने श्वापदसेविते

३.६०.१९उन्मत्तवद्भीमसुता विलपन्ती ततस्ततः
हा हा राजन्निति मुहुरितश्चेतश्च धावति

३.६०.२०तां शुष्यमाणामत्यर्थं कुररीमिव वाशतीम्
करुणं बहु शोचन्तीं विलपन्तीं मुहुर्मुहुः

३.६०.२१सहसाभ्यागतां भैमीमभ्याशपरिवर्तिनीम्
जग्राहाजगरो ग्राहो महाकायः क्षुधान्वितः

३.६०.२२सा ग्रस्यमाना ग्राहेण शोकेन च पराजिता
नात्मानं शोचति तथा यथा शोचति नैषधम्

३.६०.२३हा नाथ मामिह वने ग्रस्यमानामनाथवत्
ग्राहेणानेन विपिने किमर्थं नाभिधावसि

३.६०.२४कथं भविष्यसि पुनर्मामनुस्मृत्य नैषध
पापान्मुक्तः पुनर्लब्ध्वा बुद्धिं चेतो धनानि च

३.६०.२५श्रान्तस्य ते क्षुधार्तस्य परिग्लानस्य नैषध
कः श्रमं राजशार्दूल नाशयिष्यति मानद

३.६०.२६तामकस्मान्मृगव्याधो विचरन्गहने वने
आक्रन्दतीमुपश्रुत्य जवेनाभिससार ह

३.६०.२७तां स दृष्ट्वा तथा ग्रस्तामुरगेणायतेक्षणाम्
त्वरमाणो मृगव्याधः समभिक्रम्य वेगितः

३.६०.२८मुखतः पातयामास शस्त्रेण निशितेन ह
निर्विचेष्टं भुजंगं तं विशस्य मृगजीवनः

३.६०.२९मोक्षयित्वा च तां व्याधः प्रक्षाल्य सलिलेन च
समाश्वास्य कृताहारामथ पप्रच्छ भारत

३.६०.३०कस्य त्वं मृगशावाक्षि कथं चाभ्यागता वनम्
कथं चेदं महत्कृच्छ्रं प्राप्तवत्यसि भामिनि

३.६०.३१दमयन्ती तथा तेन पृच्छ्यमाना विशां पते
सर्वमेतद्यथावृत्तमाचचक्षेऽस्य भारत

३.६०.३२तामर्धवस्त्रसंवीतां पीनश्रोणिपयोधराम्
सुकुमारानवद्याङ्गीं पूर्णचन्द्रनिभाननाम्

३.६०.३३अरालपक्ष्मनयनां तथा मधुरभाषिणीम्
लक्षयित्वा मृगव्याधः कामस्य वशमेयिवान्

३.६०.३४तामथ श्लक्ष्णया वाचा लुब्धको मृदुपूर्वया
सान्त्वयामास कामार्तस्तदबुध्यत भामिनी

३.६०.३५दमयन्ती तु तं दुष्टमुपलभ्य पतिव्रता
तीव्ररोषसमाविष्टा प्रजज्वालेव मन्युना

३.६०.३६स तु पापमतिः क्षुद्रः प्रधर्षयितुमातुरः
दुर्धर्षां तर्कयामास दीप्तामग्निशिखामिव

३.६०.३७दमयन्ती तु दुःखार्ता पतिराज्यविनाकृता
अतीतवाक्पथे काले शशापैनं रुषा किल

३.६०.३८यथाहं नैषधादन्यं मनसापि न चिन्तये
तथायं पततां क्षुद्रः परासुर्मृगजीवनः

३.६०.३९उक्तमात्रे तु वचने तया स मृगजीवनः
व्यसुः पपात मेदिन्यामग्निदग्ध इव द्रुमः