३. वनपर्व
३.६५.१बृहदश्व उवाच

३.६५.२हृतराज्ये नले भीमः सभार्ये प्रेष्यतां गते
द्विजान्प्रस्थापयामास नलदर्शनकाङ्क्षया

३.६५.३संदिदेश च तान्भीमो वसु दत्त्वा च पुष्कलम्
मृगयध्वं नलं चैव दमयन्तीं च मे सुताम्

३.६५.४अस्मिन्कर्मणि निष्पन्ने विज्ञाते निषधाधिपे
गवां सहस्रं दास्यामि यो वस्तावानयिष्यति
अग्रहारं च दास्यामि ग्रामं नगरसंमितम्

३.६५.५न चेच्छक्याविहानेतुं दमयन्ती नलोऽपि वा
ज्ञातमात्रेऽपि दास्यामि गवां दशशतं धनम्

३.६५.६इत्युक्तास्ते ययुर्हृष्टा ब्राह्मणाः सर्वतोदिशम्
पुरराष्ट्राणि चिन्वन्तो नैषधं सह भार्यया

३.६५.७ततश्चेदिपुरीं रम्यां सुदेवो नाम वै द्विजः
विचिन्वानोऽथ वैदर्भीमपश्यद्राजवेश्मनि
पुण्याहवाचने राज्ञः सुनन्दासहितां स्थिताम्

३.६५.८मन्दप्रख्यायमानेन रूपेणाप्रतिमेन ताम्
पिनद्धां धूमजालेन प्रभामिव विभावसोः

३.६५.९तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम्
तर्कयामास भैमीति कारणैरुपपादयन्

३.६५.१०सुदेव उवाच

३.६५.११यथेयं मे पुरा दृष्टा तथारूपेयमङ्गना
कृतार्थोऽस्म्यद्य दृष्ट्वेमां लोककान्तामिव श्रियम्

३.६५.१२पूर्णचन्द्राननां श्यामां चारुवृत्तपयोधराम्
कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिशः

३.६५.१३चारुपद्मपलाशाक्षीं मन्मथस्य रतीमिव
इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव

३.६५.१४विदर्भसरसस्तस्माद्दैवदोषादिवोद्धृताम्
मलपङ्कानुलिप्ताङ्गीं मृणालीमिव तां भृशम्

३.६५.१५पौर्णमासीमिव निशां राहुग्रस्तनिशाकराम्
पतिशोकाकुलां दीनां शुष्कस्रोतां नदीमिव

३.६५.१६विध्वस्तपर्णकमलां वित्रासितविहंगमाम्
हस्तिहस्तपरिक्लिष्टां व्याकुलामिव पद्मिनीम्

३.६५.१७सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम्
दह्यमानामिवोष्णेन मृणालीमचिरोद्धृताम्

३.६५.१८रूपौदार्यगुणोपेतां मण्डनार्हाममण्डिताम्
चन्द्रलेखामिव नवां व्योम्नि नीलाभ्रसंवृताम्

३.६५.१९कामभोगैः प्रियैर्हीनां हीनां बन्धुजनेन च
देहं धारयतीं दीनां भर्तृदर्शनकाङ्क्षया

३.६५.२०भर्ता नाम परं नार्या भूषणं भूषणैर्विना
एषा विरहिता तेन शोभनापि न शोभते

३.६५.२१दुष्करं कुरुतेऽत्यर्थं हीनो यदनया नलः
धारयत्यात्मनो देहं न शोकेनावसीदति

३.६५.२२इमामसितकेशान्तां शतपत्रायतेक्षणाम्
सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथते मनः

३.६५.२३कदा नु खलु दुःखस्य पारं यास्यति वै शुभा
भर्तुः समागमात्साध्वी रोहिणी शशिनो यथा

३.६५.२४अस्या नूनं पुनर्लाभान्नैषधः प्रीतिमेष्यति
राजा राज्यपरिभ्रष्टः पुनर्लब्ध्वेव मेदिनीम्

३.६५.२५तुल्यशीलवयोयुक्तां तुल्याभिजनसंयुताम्
नैषधोऽर्हति वैदर्भीं तं चेयमसितेक्षणा

३.६५.२६युक्तं तस्याप्रमेयस्य वीर्यसत्त्ववतो मया
समाश्वासयितुं भार्यां पतिदर्शनलालसाम्

३.६५.२७अयमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम्
अदृष्टपूर्वां दुःखस्य दुःखार्तां ध्यानतत्पराम्

३.६५.२८बृहदश्व उवाच

३.६५.२९एवं विमृश्य विविधैः कारणैर्लक्षणैश्च ताम्
उपगम्य ततो भैमीं सुदेवो ब्राह्मणोऽब्रवीत्

३.६५.३०अहं सुदेवो वैदर्भि भ्रातुस्ते दयितः सखा
भीमस्य वचनाद्राज्ञस्त्वामन्वेष्टुमिहागतः

३.६५.३१कुशली ते पिता राज्ञि जनित्री भ्रातरश्च ते
आयुष्मन्तौ कुशलिनौ तत्रस्थौ दारकौ च ते
त्वत्कृते बन्धुवर्गाश्च गतसत्त्वा इवासते

३.६५.३२अभिज्ञाय सुदेवं तु दमयन्ती युधिष्ठिर
पर्यपृच्छत्ततः सर्वान्क्रमेण सुहृदः स्वकान्

३.६५.३३रुरोद च भृशं राजन्वैदर्भी शोककर्शिता
दृष्ट्वा सुदेवं सहसा भ्रातुरिष्टं द्विजोत्तमम्

३.६५.३४ततो रुदन्तीं तां दृष्ट्वा सुनन्दा शोककर्शिताम्
सुदेवेन सहैकान्ते कथयन्तीं च भारत

३.६५.३५जनित्र्यै प्रेषयामास सैरन्ध्री रुदते भृशम्
ब्राह्मणेन समागम्य तां वेद यदि मन्यसे

३.६५.३६अथ चेदिपतेर्माता राज्ञश्चान्तःपुरात्तदा
जगाम यत्र सा बाला ब्राह्मणेन सहाभवत्

३.६५.३७ततः सुदेवमानाय्य राजमाता विशां पते
पप्रच्छ भार्या कस्येयं सुता वा कस्य भामिनी

३.६५.३८कथं च नष्टा ज्ञातिभ्यो भर्तुर्वा वामलोचना
त्वया च विदिता विप्र कथमेवंगता सती

३.६५.३९एतदिच्छाम्यहं त्वत्तो ज्ञातुं सर्वमशेषतः
तत्त्वेन हि ममाचक्ष्व पृच्छन्त्या देवरूपिणीम्

३.६५.४०एवमुक्तस्तया राजन्सुदेवो द्विजसत्तमः
सुखोपविष्ट आचष्ट दमयन्त्या यथातथम्