३. वनपर्व
३.९६.१लोमश उवाच

३.९६.२ततो जगाम कौरव्य सोऽगस्त्यो भिक्षितुं वसु
श्रुतर्वाणं महीपालं यं वेदाभ्यधिकं नृपैः

३.९६.३स विदित्वा तु नृपतिः कुम्भयोनिमुपागमत्
विषयान्ते सहामात्यः प्रत्यगृह्णात्सुसत्कृतम्

३.९६.४तस्मै चार्घ्यं यथान्यायमानीय पृथिवीपतिः
प्राञ्जलिः प्रयतो भूत्वा पप्रच्छागमनेऽर्थिताम्

३.९६.५अगस्त्य उवाच

३.९६.६वित्तार्थिनमनुप्राप्तं विद्धि मां पृथिवीपते
यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ मे

३.९६.७लोमश उवाच

३.९६.८तत आयव्ययौ पूर्णौ तस्मै राजा न्यवेदयत्
अतो विद्वन्नुपादत्स्व यदत्र वसु मन्यसे

३.९६.९तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः
सर्वथा प्राणिनां पीडामुपादानादमन्यत

३.९६.१०स श्रुतर्वाणमादाय वध्र्यश्वमगमत्ततः
स च तौ विषयस्यान्ते प्रत्यगृह्णाद्यथाविधि

३.९६.११तयोरर्घ्यं च पाद्यं च वध्र्यश्वः प्रत्यवेदयत्
अनुज्ञाप्य च पप्रच्छ प्रयोजनमुपक्रमे

३.९६.१२अगस्त्य उवाच

३.९६.१३वित्तकामाविह प्राप्तौ विद्ध्यावां पृथिवीपते
यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नौ

३.९६.१४लोमश उवाच

३.९६.१५तत आयव्ययौ पूर्णौ ताभ्यां राजा न्यवेदयत्
ततो ज्ञात्वा समादत्तां यदत्र व्यतिरिच्यते

३.९६.१६तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः
सर्वथा प्राणिनां पीडामुपादानादमन्यत

३.९६.१७पौरुकुत्सं ततो जग्मुस्त्रसदस्युं महाधनम्
अगस्त्यश्च श्रुतर्वा च वध्र्यश्वश्च महीपतिः

३.९६.१८त्रसदस्युश्च तान्सर्वान्प्रत्यगृह्णाद्यथाविधि
अभिगम्य महाराज विषयान्ते सवाहनः

३.९६.१९अर्चयित्वा यथान्यायमिक्ष्वाकू राजसत्तमः
समाश्वस्तांस्ततोऽपृच्छत्प्रयोजनमुपक्रमे

३.९६.२०अगस्त्य उवाच

३.९६.२१वित्तकामानिह प्राप्तान्विद्धि नः पृथिवीपते
यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नः

३.९६.२२लोमश उवाच

३.९६.२३तत आयव्ययौ पूर्णौ तेषां राजा न्यवेदयत्
अतो ज्ञात्वा समादद्ध्वं यदत्र व्यतिरिच्यते

३.९६.२४तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः
सर्वथा प्राणिनां पीडामुपादानादमन्यत

३.९६.२५ततः सर्वे समेत्याथ ते नृपास्तं महामुनिम्
इदमूचुर्महाराज समवेक्ष्य परस्परम्

३.९६.२६अयं वै दानवो ब्रह्मन्निल्वलो वसुमान्भुवि
तमभिक्रम्य सर्वेऽद्य वयं याचामहे वसु

३.९६.२७तेषां तदासीद्रुचितमिल्वलस्योपभिक्षणम्
ततस्ते सहिता राजन्निल्वलं समुपाद्रवन्