३. वनपर्व
३.९७.१लोमश उवाच

३.९७.२इल्वलस्तान्विदित्वा तु महर्षिसहितान्नृपान्
उपस्थितान्सहामात्यो विषयान्तेऽभ्यपूजयत्

३.९७.३तेषां ततोऽसुरश्रेष्ठ आतिथ्यमकरोत्तदा
स संस्कृतेन कौरव्य भ्रात्रा वातापिना किल

३.९७.४ततो राजर्षयः सर्वे विषण्णा गतचेतसः
वातापिं संस्कृतं दृष्ट्वा मेषभूतं महासुरम्

३.९७.५अथाब्रवीदगस्त्यस्तान्राजर्षीनृषिसत्तमः
विषादो वो न कर्तव्यो अहं भोक्ष्ये महासुरम्

३.९७.६धुर्यासनमथासाद्य निषसाद महामुनिः
तं पर्यवेषद्दैत्येन्द्र इल्वलः प्रहसन्निव

३.९७.७अगस्त्य एव कृत्स्नं तु वातापिं बुभुजे ततः
भुक्तवत्यसुरोऽऽह्वानमकरोत्तस्य इल्वलः

३.९७.८ततो वायुः प्रादुरभूदगस्त्यस्य महात्मनः
इल्वलश्च विषण्णोऽभूद्दृष्ट्वा जीर्णं महासुरम्

३.९७.९प्राञ्जलिश्च सहामात्यैरिदं वचनमब्रवीत्
किमर्थमुपयाताः स्थ ब्रूत किं करवाणि वः

३.९७.१०प्रत्युवाच ततोऽगस्त्यः प्रहसन्निल्वलं तदा
ईशं ह्यसुर विद्मस्त्वां वयं सर्वे धनेश्वरम्

३.९७.११इमे च नातिधनिनो धनार्थश्च महान्मम
यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नः

३.९७.१२ततोऽभिवाद्य तमृषिमिल्वलो वाक्यमब्रवीत्
दित्सितं यदि वेत्सि त्वं ततो दास्यामि ते वसु

३.९७.१३अगस्त्य उवाच

३.९७.१४गवां दश सहस्राणि राज्ञामेकैकशोऽसुर
तावदेव सुवर्णस्य दित्सितं ते महासुर

३.९७.१५मह्यं ततो वै द्विगुणं रथश्चैव हिरण्मयः
मनोजवौ वाजिनौ च दित्सितं ते महासुर
जिज्ञास्यतां रथः सद्यो व्यक्तमेष हिरण्मयः

३.९७.१६लोमश उवाच

३.९७.१७जिज्ञास्यमानः स रथः कौन्तेयासीद्धिरण्मयः
ततः प्रव्यथितो दैत्यो ददावभ्यधिकं वसु

३.९७.१८विवाजश्च सुवाजश्च तस्मिन्युक्तौ रथे हयौ
ऊहतुस्तौ वसून्याशु तान्यगस्त्याश्रमं प्रति
सर्वान्राज्ञः सहागस्त्यान्निमेषादिव भारत

३.९७.१९अगस्त्येनाभ्यनुज्ञाता जग्मू राजर्षयस्तदा
कृतवांश्च मुनिः सर्वं लोपामुद्राचिकीर्षितम्

३.९७.२०लोपामुद्रोवाच

३.९७.२१कृतवानसि तत्सर्वं भगवन्मम काङ्क्षितम्
उत्पादय सकृन्मह्यमपत्यं वीर्यवत्तरम्

३.९७.२२अगस्त्य उवाच

३.९७.२३तुष्टोऽहमस्मि कल्याणि तव वृत्तेन शोभने
विचारणामपत्ये तु तव वक्ष्यामि तां शृणु

३.९७.२४सहस्रं तेऽस्तु पुत्राणां शतं वा दशसंमितम्
दश वा शततुल्याः स्युरेको वापि सहस्रवत्

३.९७.२५लोपामुद्रोवाच

३.९७.२६सहस्रसंमितः पुत्र एको मेऽस्तु तपोधन
एको हि बहुभिः श्रेयान्विद्वान्साधुरसाधुभिः

३.९७.२७लोमश उवाच

३.९७.२८स तथेति प्रतिज्ञाय तया समभवन्मुनिः
समये समशीलिन्या श्रद्धावाञ्श्रद्दधानया

३.९७.२९तत आधाय गर्भं तमगमद्वनमेव सः
तस्मिन्वनगते गर्भो ववृधे सप्त शारदान्

३.९७.३०सप्तमेऽब्दे गते चापि प्राच्यवत्स महाकविः
ज्वलन्निव प्रभावेन दृढस्युर्नाम भारत
साङ्गोपनिषदान्वेदाञ्जपन्नेव महायशाः

३.९७.३१तस्य पुत्रोऽभवदृषेः स तेजस्वी महानृषिः
स बाल एव तेजस्वी पितुस्तस्य निवेशने
इध्मानां भारमाजह्रे इध्मवाहस्ततोऽभवत्

३.९७.३२तथायुक्तं च तं दृष्ट्वा मुमुदे स मुनिस्तदा
लेभिरे पितरश्चास्य लोकान्राजन्यथेप्सितान्

३.९७.३३अगस्त्यस्याश्रमः ख्यातः सर्वर्तुकुसुमान्वितः
प्राह्रादिरेवं वातापिरगस्त्येन विनाशितः

३.९७.३४तस्यायमाश्रमो राजन्रमणीयो गुणैर्युतः
एषा भागीरथी पुण्या यथेष्टमवगाह्यताम्