३. वनपर्व
३.९८.१युधिष्ठिर उवाच

३.९८.२भूय एवाहमिच्छामि महर्षेस्तस्य धीमतः
कर्मणां विस्तरं श्रोतुमगस्त्यस्य द्विजोत्तम

३.९८.३लोमश उवाच

३.९८.४शृणु राजन्कथां दिव्यामद्भुतामतिमानुषीम्
अगस्त्यस्य महाराज प्रभावममितात्मनः

३.९८.५आसन्कृतयुगे घोरा दानवा युद्धदुर्मदाः
कालेया इति विख्याता गणाः परमदारुणाः

३.९८.६ते तु वृत्रं समाश्रित्य नानाप्रहरणोद्यताः
समन्तात्पर्यधावन्त महेन्द्रप्रमुखान्सुरान्

३.९८.७ततो वृत्रवधे यत्नमकुर्वंस्त्रिदशाः पुरा
पुरंदरं पुरस्कृत्य ब्रह्माणमुपतस्थिरे

३.९८.८कृताञ्जलींस्तु तान्सर्वान्परमेष्ठी उवाच ह
विदितं मे सुराः सर्वं यद्वः कार्यं चिकीर्षितम्

३.९८.९तमुपायं प्रवक्ष्यामि यथा वृत्रं वधिष्यथ
दधीच इति विख्यातो महानृषिरुदारधीः

३.९८.१०तं गत्वा सहिताः सर्वे वरं वै संप्रयाचत
स वो दास्यति धर्मात्मा सुप्रीतेनान्तरात्मना

३.९८.११स वाच्यः सहितैः सर्वैर्भवद्भिर्जयकाङ्क्षिभिः
स्वान्यस्थीनि प्रयच्छेति त्रैलोक्यस्य हिताय वै
स शरीरं समुत्सृज्य स्वान्यस्थीनि प्रदास्यति

३.९८.१२तस्यास्थिभिर्महाघोरं वज्रं संभ्रियतां दृढम्
महच्छत्रुहणं तीक्ष्णं षडश्रं भीमनिस्वनम्

३.९८.१३तेन वज्रेण वै वृत्रं वधिष्यति शतक्रतुः
एतद्वः सर्वमाख्यातं तस्माच्छीघ्रं विधीयताम्

३.९८.१४एवमुक्तास्ततो देवा अनुज्ञाप्य पितामहम्
नारायणं पुरस्कृत्य दधीचस्याश्रमं ययुः

३.९८.१५सरस्वत्याः परे पारे नानाद्रुमलतावृतम्
षट्पदोद्गीतनिनदैर्विघुष्टं सामगैरिव
पुंस्कोकिलरवोन्मिश्रं जीवंजीवकनादितम्

३.९८.१६महिषैश्च वराहैश्च सृमरैश्चमरैरपि
तत्र तत्रानुचरितं शार्दूलभयवर्जितैः

३.९८.१७करेणुभिर्वारणैश्च प्रभिन्नकरटामुखैः
सरोऽवगाढैः क्रीडद्भिः समन्तादनुनादितम्

३.९८.१८सिंहव्याघ्रैर्महानादान्नदद्भिरनुनादितम्
अपरैश्चापि संलीनैर्गुहाकन्दरवासिभिः

३.९८.१९तेषु तेष्ववकाशेषु शोभितं सुमनोरमम्
त्रिविष्टपसमप्रख्यं दधीचाश्रममागमन्

३.९८.२०तत्रापश्यन्दधीचं ते दिवाकरसमद्युतिम्
जाज्वल्यमानं वपुषा यथा लक्ष्म्या पितामहम्

३.९८.२१तस्य पादौ सुरा राजन्नभिवाद्य प्रणम्य च
अयाचन्त वरं सर्वे यथोक्तं परमेष्ठिना

३.९८.२२ततो दधीचः परमप्रतीतः; सुरोत्तमांस्तानिदमभ्युवाच
करोमि यद्वो हितमद्य देवाः; स्वं चापि देहं त्वहमुत्सृजामि

३.९८.२३स एवमुक्त्वा द्विपदां वरिष्ठः; प्राणान्वशी स्वान्सहसोत्ससर्ज
ततः सुरास्ते जगृहुः परासो;रस्थीनि तस्याथ यथोपदेशम्

३.९८.२४प्रहृष्टरूपाश्च जयाय देवा;स्त्वष्टारमागम्य तमर्थमूचुः
त्वष्टा तु तेषां वचनं निशम्य; प्रहृष्टरूपः प्रयतः प्रयत्नात्

३.९८.२५चकार वज्रं भृशमुग्ररूपं; कृत्वा च शक्रं स उवाच हृष्टः
अनेन वज्रप्रवरेण देव; भस्मीकुरुष्वाद्य सुरारिमुग्रम्

३.९८.२६ततो हतारिः सगणः सुखं वै; प्रशाधि कृत्स्नं त्रिदिवं दिविष्ठः
त्वष्ट्रा तथोक्तः स पुरंदरस्तु; वज्रं प्रहृष्टः प्रयतोऽभ्यगृह्णात्