४. विराटपर्व
४.१३.१वैशंपायन उवाच

४.१३.२वसमानेषु पार्थेषु मत्स्यस्य नगरे तदा
महारथेषु छन्नेषु मासा दश समत्ययुः

४.१३.३याज्ञसेनी सुदेष्णां तु शुश्रूषन्ती विशां पते
अवसत्परिचारार्हा सुदुःखं जनमेजय

४.१३.४तथा चरन्तीं पाञ्चालीं सुदेष्णाया निवेशने
सेनापतिर्विराटस्य ददर्श जलजाननाम्

४.१३.५तां दृष्ट्वा देवगर्भाभां चरन्तीं देवतामिव
कीचकः कामयामास कामबाणप्रपीडितः

४.१३.६स तु कामाग्निसंतप्तः सुदेष्णामभिगम्य वै
प्रहसन्निव सेनानीरिदं वचनमब्रवीत्

४.१३.७नेयं पुरा जातु मयेह दृष्टा; राज्ञो विराटस्य निवेशने शुभा
रूपेण चोन्मादयतीव मां भृशं; गन्धेन जाता मदिरेव भामिनी

४.१३.८का देवरूपा हृदयंगमा शुभे; आचक्ष्व मे का च कुतश्च शोभना
चित्तं हि निर्मथ्य करोति मां वशे; न चान्यदत्रौषधमद्य मे मतम्

४.१३.९अहो तवेयं परिचारिका शुभा; प्रत्यग्ररूपा प्रतिभाति मामियम्
अयुक्तरूपं हि करोति कर्म ते; प्रशास्तु मां यच्च ममास्ति किंचन

४.१३.१०प्रभूतनागाश्वरथं महाधनं; समृद्धियुक्तं बहुपानभोजनम्
मनोहरं काञ्चनचित्रभूषणं; गृहं महच्छोभयतामियं मम

४.१३.११ततः सुदेष्णामनुमन्त्र्य कीचक;स्ततः समभ्येत्य नराधिपात्मजाम्
उवाच कृष्णामभिसान्त्वयंस्तदा; मृगेन्द्रकन्यामिव जम्बुको वने

४.१३.१२इदं च रूपं प्रथमं च ते वयो; निरर्थकं केवलमद्य भामिनि
अधार्यमाणा स्रगिवोत्तमा यथा; न शोभसे सुन्दरि शोभना सती

४.१३.१३त्यजामि दारान्मम ये पुरातना; भवन्तु दास्यस्तव चारुहासिनि
अहं च ते सुन्दरि दासवत्स्थितः; सदा भविष्ये वशगो वरानने

४.१३.१४द्रौपद्युवाच

४.१३.१५अप्रार्थनीयामिह मां सूतपुत्राभिमन्यसे
विहीनवर्णां सैरन्ध्रीं बीभत्सां केशकारिकाम्

४.१३.१६परदारास्मि भद्रं ते न युक्तं त्वयि सांप्रतम्
दयिताः प्राणिनां दारा धर्मं समनुचिन्तय

४.१३.१७परदारे न ते बुद्धिर्जातु कार्या कथंचन
विवर्जनं ह्यकार्याणामेतत्सत्पुरुषव्रतम्

४.१३.१८मिथ्याभिगृध्नो हि नरः पापात्मा मोहमास्थितः
अयशः प्राप्नुयाद्घोरं सुमहत्प्राप्नुयाद्भयम्

४.१३.१९मा सूतपुत्र हृष्यस्व माद्य त्यक्ष्यसि जीवितम्
दुर्लभामभिमन्वानो मां वीरैरभिरक्षिताम्

४.१३.२०न चाप्यहं त्वया शक्या गन्धर्वाः पतयो मम
ते त्वां निहन्युः कुपिताः साध्वलं मा व्यनीनशः

४.१३.२१अशक्यरूपैः पुरुषैरध्वानं गन्तुमिच्छसि
यथा निश्चेतनो बालः कूलस्थः कूलमुत्तरम्
तर्तुमिच्छति मन्दात्मा तथा त्वं कर्तुमिच्छसि

४.१३.२२अन्तर्महीं वा यदि वोर्ध्वमुत्पतेः; समुद्रपारं यदि वा प्रधावसि
तथापि तेषां न विमोक्षमर्हसि; प्रमाथिनो देवसुता हि मे वराः

४.१३.२३त्वं कालरात्रीमिव कश्चिदातुरः; किं मां दृढं प्रार्थयसेऽद्य कीचक
किं मातुरङ्के शयितो यथा शिशु;श्चन्द्रं जिघृक्षुरिव मन्यसे हि माम्