४.१४.१वैशंपायन उवाच
४.१४.२प्रत्याख्यातो राजपुत्र्या सुदेष्णां कीचकोऽब्रवीत्
अमर्यादेन कामेन घोरेणाभिपरिप्लुतः
४.१४.३यथा कैकेयि सैरन्ध्र्या समेयां तद्विधीयताम्
तां सुदेष्णे परीप्सस्व माहं प्राणान्प्रहासिषम्
४.१४.४तस्य तां बहुशः श्रुत्वा वाचं विलपतस्तदा
विराटमहिषी देवी कृपां चक्रे मनस्विनी
४.१४.५स्वमर्थमभिसंधाय तस्यार्थमनुचिन्त्य च
उद्वेगं चैव कृष्णायाः सुदेष्णा सूतमब्रवीत्
४.१४.६पर्विणीं त्वं समुद्दिश्य सुरामन्नं च कारय
तत्रैनां प्रेषयिष्यामि सुराहारीं तवान्तिकम्
४.१४.७तत्र संप्रेषितामेनां विजने निरवग्रहाम्
सान्त्वयेथा यथाकामं सान्त्व्यमाना रमेद्यदि
४.१४.८कीचकस्तु गृहं गत्वा भगिन्या वचनात्तदा
सुरामाहारयामास राजार्हां सुपरिस्रुताम्
४.१४.९आजौरभ्रं च सुभृशं बहूंश्चोच्चावचान्मृगान्
कारयामास कुशलैरन्नपानं सुशोभनम्
४.१४.१०तस्मिन्कृते तदा देवी कीचकेनोपमन्त्रिता
सुदेष्णा प्रेषयामास सैरन्ध्रीं कीचकालयम्
४.१४.११सुदेष्णोवाच
४.१४.१२उत्तिष्ठ गच्छ सैरन्ध्रि कीचकस्य निवेशनम्
पानमानय कल्याणि पिपासा मां प्रबाधते
४.१४.१३द्रौपद्युवाच
४.१४.१४न गच्छेयमहं तस्य राजपुत्रि निवेशनम्
त्वमेव राज्ञि जानासि यथा स निरपत्रपः
४.१४.१५न चाहमनवद्याङ्गि तव वेश्मनि भामिनि
कामवृत्ता भविष्यामि पतीनां व्यभिचारिणी
४.१४.१६त्वं चैव देवि जानासि यथा स समयः कृतः
प्रविशन्त्या मया पूर्वं तव वेश्मनि भामिनि
४.१४.१७कीचकश्च सुकेशान्ते मूढो मदनदर्पितः
सोऽवमंस्यति मां दृष्ट्वा न यास्ये तत्र शोभने
४.१४.१८सन्ति बह्व्यस्तव प्रेष्या राजपुत्रि वशानुगाः
अन्यां प्रेषय भद्रं ते स हि मामवमंस्यते
४.१४.१९सुदेष्णोवाच
४.१४.२०नैव त्वां जातु हिंस्यात्स इतः संप्रेषितां मया
४.१४.२१वैशंपायन उवाच
४.१४.२२इत्यस्याः प्रददौ कांस्यं सपिधानं हिरण्मयम्
सा शङ्कमाना रुदती दैवं शरणमीयुषी
प्रातिष्ठत सुराहारी कीचकस्य निवेशनम्
४.१४.२३द्रौपद्युवाच
४.१४.२४यथाहमन्यं पाण्डुभ्यो नाभिजानामि कंचन
तेन सत्येन मां प्राप्तां कीचको मा वशे कृथाः
४.१४.२५वैशंपायन उवाच
४.१४.२६उपातिष्ठत सा सूर्यं मुहूर्तमबला ततः
स तस्यास्तनुमध्यायाः सर्वं सूर्योऽवबुद्धवान्
४.१४.२७अन्तर्हितं ततस्तस्या रक्षो रक्षार्थमादिशत्
तच्चैनां नाजहात्तत्र सर्वावस्थास्वनिन्दिताम्
४.१४.२८तां मृगीमिव वित्रस्तां दृष्ट्वा कृष्णां समीपगाम्
उदतिष्ठन्मुदा सूतो नावं लब्ध्वेव पारगः