४. विराटपर्व
४.१६.१वैशंपायन उवाच

४.१६.२सा हता सूतपुत्रेण राजपुत्री समज्वलत्
वधं कृष्णा परीप्सन्ती सेनावाहस्य भामिनी
जगामावासमेवाथ तदा सा द्रुपदात्मजा

४.१६.३कृत्वा शौचं यथान्यायं कृष्णा वै तनुमध्यमा
गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा

४.१६.४चिन्तयामास रुदती तस्य दुःखस्य निर्णयम्
किं करोमि क्व गच्छामि कथं कार्यं भवेन्मम

४.१६.५इत्येवं चिन्तयित्वा सा भीमं वै मनसागमत्
नान्यः कर्ता ऋते भीमान्ममाद्य मनसः प्रियम्

४.१६.६तत उत्थाय रात्रौ सा विहाय शयनं स्वकम्
प्राद्रवन्नाथमिच्छन्ती कृष्णा नाथवती सती
दुःखेन महता युक्ता मानसेन मनस्विनी

४.१६.७सा वै महानसे प्राप्य भीमसेनं शुचिस्मिता
सर्वश्वेतेव माहेयी वने जाता त्रिहायनी
उपातिष्ठत पाञ्चाली वाशितेव महागजम्

४.१६.८सा लतेव महाशालं फुल्लं गोमतितीरजम्
बाहुभ्यां परिरभ्यैनं प्राबोधयदनिन्दिता
सिंहं सुप्तं वने दुर्गे मृगराजवधूरिव

४.१६.९वीणेव मधुराभाषा गान्धारं साधु मूर्च्छिता
अभ्यभाषत पाञ्चाली भीमसेनमनिन्दिता

४.१६.१०उत्तिष्ठोत्तिष्ठ किं शेषे भीमसेन यथा मृतः
नामृतस्य हि पापीयान्भार्यामालभ्य जीवति

४.१६.११तस्मिञ्जीवति पापिष्ठे सेनावाहे मम द्विषि
तत्कर्म कृतवत्यद्य कथं निद्रां निषेवसे

४.१६.१२स संप्रहाय शयनं राजपुत्र्या प्रबोधितः
उपातिष्ठत मेघाभः पर्यङ्के सोपसंग्रहे

४.१६.१३अथाब्रवीद्राजपुत्रीं कौरव्यो महिषीं प्रियाम्
केनास्यर्थेन संप्राप्ता त्वरितेव ममान्तिकम्

४.१६.१४न ते प्रकृतिमान्वर्णः कृशा पाण्डुश्च लक्ष्यसे
आचक्ष्व परिशेषेण सर्वं विद्यामहं यथा

४.१६.१५सुखं वा यदि वा दुःखं द्वेष्यं वा यदि वा प्रियम्
यथावत्सर्वमाचक्ष्व श्रुत्वा ज्ञास्यामि यत्परम्

४.१६.१६अहमेव हि ते कृष्णे विश्वास्यः सर्वकर्मसु
अहमापत्सु चापि त्वां मोक्षयामि पुनः पुनः

४.१६.१७शीघ्रमुक्त्वा यथाकामं यत्ते कार्यं विवक्षितम्
गच्छ वै शयनायैव पुरा नान्योऽवबुध्यते