४.३१.१वैशंपायन उवाच
४.३१.२निर्याय नगराच्छूरा व्यूढानीकाः प्रहारिणः
त्रिगर्तानस्पृशन्मत्स्याः सूर्ये परिणते सति
४.३१.३ते त्रिगर्ताश्च मत्स्याश्च संरब्धा युद्धदुर्मदाः
अन्योन्यमभिगर्जन्तो गोषु गृद्धा महाबलाः
४.३१.४भीमाश्च मत्तमातङ्गास्तोमराङ्कुशचोदिताः
ग्रामणीयैः समारूढाः कुशलैर्हस्तिसादिभिः
४.३१.५तेषां समागमो घोरस्तुमुलो लोमहर्षणः
देवासुरसमो राजन्नासीत्सूर्ये विलम्बति
४.३१.६उदतिष्ठद्रजो भौमं न प्रज्ञायत किंचन
पक्षिणश्चापतन्भूमौ सैन्येन रजसावृताः
४.३१.७इषुभिर्व्यतिसंयद्भिरादित्योऽन्तरधीयत
खद्योतैरिव संयुक्तमन्तरिक्षं व्यराजत
४.३१.८रुक्मपृष्ठानि चापानि व्यतिषक्तानि धन्विनाम्
पततां लोकवीराणां सव्यदक्षिणमस्यताम्
४.३१.९रथा रथैः समाजग्मुः पादातैश्च पदातयः
सादिभिः सादिनश्चैव गजैश्चापि महागजाः
४.३१.१०असिभिः पट्टिशैः प्रासैः शक्तिभिस्तोमरैरपि
संरब्धाः समरे राजन्निजघ्नुरितरेतरम्
४.३१.११निघ्नन्तः समरेऽन्योन्यं शूराः परिघबाहवः
न शेकुरभिसंरब्धाः शूरान्कर्तुं पराङ्मुखान्
४.३१.१२कॢप्तोत्तरोष्ठं सुनसं कॢप्तकेशमलंकृतम्
अदृश्यत शिरश्छिन्नं रजोध्वस्तं सकुण्डलम्
४.३१.१३अदृश्यंस्तत्र गात्राणि शरैश्छिन्नानि भागशः
शालस्कन्धनिकाशानि क्षत्रियाणां महामृधे
४.३१.१४नागभोगनिकाशैश्च बाहुभिश्चन्दनोक्षितैः
आकीर्णा वसुधा तत्र शिरोभिश्च सकुण्डलैः
४.३१.१५उपशाम्यद्रजो भौमं रुधिरेण प्रसर्पता
कश्मलं प्राविशद्घोरं निर्मर्यादमवर्तत
४.३१.१६शतानीकः शतं हत्वा विशालाक्षश्चतुःशतम्
प्रविष्टौ महतीं सेनां त्रिगर्तानां महारथौ
आर्च्छेतां बहुसंरब्धौ केशाकेशि नखानखि
४.३१.१७लक्षयित्वा त्रिगर्तानां तौ प्रविष्टौ रथव्रजम्
जग्मतुः सूर्यदत्तश्च मदिराश्वश्च पृष्ठतः
४.३१.१८विराटस्तत्र संग्रामे हत्वा पञ्चशतान्रथान्
हयानां च शतान्यत्र हत्वा पञ्च महारथान्
४.३१.१९चरन्स विविधान्मार्गान्रथेषु रथयूथपः
त्रिगर्तानां सुशर्माणमार्च्छद्रुक्मरथं रणे
४.३१.२०तौ व्यावहरतां तत्र महात्मानौ महाबलौ
अन्योन्यमभिगर्जन्तौ गोष्ठे गोवृषभाविव
४.३१.२१ततो रथाभ्यां रथिनौ व्यतियाय समन्ततः
शरान्व्यसृजतां शीघ्रं तोयधारा घनाविव
४.३१.२२अन्योन्यं चातिसंरब्धौ विचेरतुरमर्षणौ
कृतास्त्रौ निशितैर्बाणैरसिशक्तिगदाभृतौ
४.३१.२३ततो राजा सुशर्माणं विव्याध दशभिः शरैः
पञ्चभिः पञ्चभिश्चास्य विव्याध चतुरो हयान्
४.३१.२४तथैव मत्स्यराजानं सुशर्मा युद्धदुर्मदः
पञ्चाशता शितैर्बाणैर्विव्याध परमास्त्रवित्
४.३१.२५ततः सैन्यं समावृत्य मत्स्यराजसुशर्मणोः
नाभ्यजानंस्तदान्योन्यं प्रदोषे रजसावृते