४. विराटपर्व
४.३३.१वैशंपायन उवाच

४.३३.२याते त्रिगर्तं मत्स्ये तु पशूंस्तान्स्वान्परीप्सति
दुर्योधनः सहामात्यो विराटमुपयादथ

४.३३.३भीष्मो द्रोणश्च कर्णश्च कृपश्च परमास्त्रवित्
द्रौणिश्च सौबलश्चैव तथा दुःशासनः प्रभुः

४.३३.४विविंशतिर्विकर्णश्च चित्रसेनश्च वीर्यवान्
दुर्मुखो दुःसहश्चैव ये चैवान्ये महारथाः

४.३३.५एते मत्स्यानुपागम्य विराटस्य महीपतेः
घोषान्विद्राव्य तरसा गोधनं जह्रुरोजसा

४.३३.६षष्टिं गवां सहस्राणि कुरवः कालयन्ति ते
महता रथवंशेन परिवार्य समन्ततः

४.३३.७गोपालानां तु घोषेषु हन्यतां तैर्महारथैः
आरावः सुमहानासीत्संप्रहारे भयंकरे

४.३३.८गवाध्यक्षस्तु संत्रस्तो रथमास्थाय सत्वरः
जगाम नगरायैव परिक्रोशंस्तदार्तवत्

४.३३.९स प्रविश्य पुरं राज्ञो नृपवेश्माभ्ययात्ततः
अवतीर्य रथात्तूर्णमाख्यातुं प्रविवेश ह

४.३३.१०दृष्ट्वा भूमिंजयं नाम पुत्रं मत्स्यस्य मानिनम्
तस्मै तत्सर्वमाचष्ट राष्ट्रस्य पशुकर्षणम्

४.३३.११षष्टिं गवां सहस्राणि कुरवः कालयन्ति ते
तद्विजेतुं समुत्तिष्ठ गोधनं राष्ट्रवर्धनम्

४.३३.१२राजपुत्र हितप्रेप्सुः क्षिप्रं निर्याहि वै स्वयम्
त्वां हि मत्स्यो महीपालः शून्यपालमिहाकरोत्

४.३३.१३त्वया परिषदो मध्ये श्लाघते स नराधिपः
पुत्रो ममानुरूपश्च शूरश्चेति कुलोद्वहः

४.३३.१४इष्वस्त्रे निपुणो योधः सदा वीरश्च मे सुतः
तस्य तत्सत्यमेवास्तु मनुष्येन्द्रस्य भाषितम्

४.३३.१५आवर्तय कुरूञ्जित्वा पशून्पशुमतां वर
निर्दहैषामनीकानि भीमेन शरतेजसा

४.३३.१६धनुश्च्युतै रुक्मपुङ्खैः शरैः संनतपर्वभिः
द्विषतां भिन्ध्यनीकानि गजानामिव यूथपः

४.३३.१७पाशोपधानां ज्यातन्त्रीं चापदण्डां महास्वनाम्
शरवर्णां धनुर्वीणां शत्रुमध्ये प्रवादय

४.३३.१८श्वेता रजतसंकाशा रथे युज्यन्तु ते हयाः
ध्वजं च सिंहं सौवर्णमुच्छ्रयन्तु तवाभिभोः

४.३३.१९रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता त्वया
छादयन्तु शराः सूर्यं राज्ञामायुर्निरोधिनः

४.३३.२०रणे जित्वा कुरून्सर्वान्वज्रपाणिरिवासुरान्
यशो महदवाप्य त्वं प्रविशेदं पुरं पुनः

४.३३.२१त्वं हि राष्ट्रस्य परमा गतिर्मत्स्यपतेः सुतः
गतिमन्तो भवन्त्वद्य सर्वे विषयवासिनः

४.३३.२२स्त्रीमध्य उक्तस्तेनासौ तद्वाक्यमभयंकरम्
अन्तःपुरे श्लाघमान इदं वचनमब्रवीत्