४.४.१युधिष्ठिर उवाच
४.४.२कर्माण्युक्तानि युष्माभिर्यानि तानि करिष्यथ
मम चापि यथाबुद्धि रुचितानि विनिश्चयात्
४.४.३पुरोहितोऽयमस्माकमग्निहोत्राणि रक्षतु
सूदपौरोगवैः सार्धं द्रुपदस्य निवेशने
४.४.४इन्द्रसेनमुखाश्चेमे रथानादाय केवलान्
यान्तु द्वारवतीं शीघ्रमिति मे वर्तते मतिः
४.४.५इमाश्च नार्यो द्रौपद्याः सर्वशः परिचारिकाः
पाञ्चालानेव गच्छन्तु सूदपौरोगवैः सह
४.४.६सर्वैरपि च वक्तव्यं न प्रज्ञायन्त पाण्डवाः
गता ह्यस्मानपाकीर्य सर्वे द्वैतवनादिति
४.४.७धौम्य उवाच
४.४.८विदिते चापि वक्तव्यं सुहृद्भिरनुरागतः
अतोऽहमपि वक्ष्यामि हेतुमात्रं निबोधत
४.४.९हन्तेमां राजवसतिं राजपुत्रा ब्रवीमि वः
यथा राजकुलं प्राप्य चरन्प्रेष्यो न रिष्यति
४.४.१०दुर्वसं त्वेव कौरव्या जानता राजवेश्मनि
अमानितैः सुमानार्हा अज्ञातैः परिवत्सरम्
४.४.११दिष्टद्वारो लभेद्द्वारं न च राजसु विश्वसेत्
तदेवासनमन्विच्छेद्यत्र नाभिषजेत्परः
४.४.१२नास्य यानं न पर्यङ्कं न पीठं न गजं रथम्
आरोहेत्संमतोऽस्मीति स राजवसतिं वसेत्
४.४.१३अथ यत्रैनमासीनं शङ्केरन्दुष्टचारिणः
न तत्रोपविशेज्जातु स राजवसतिं वसेत्
४.४.१४न चानुशिष्येद्राजानमपृच्छन्तं कदाचन
तूष्णीं त्वेनमुपासीत काले समभिपूजयन्
४.४.१५असूयन्ति हि राजानो जनाननृतवादिनः
तथैव चावमन्यन्ते मन्त्रिणं वादिनं मृषा
४.४.१६नैषां दारेषु कुर्वीत मैत्रीं प्राज्ञः कथंचन
अन्तःपुरचरा ये च द्वेष्टि यानहिताश्च ये
४.४.१७विदिते चास्य कुर्वीत कार्याणि सुलघून्यपि
एवं विचरतो राज्ञो न क्षतिर्जायते क्वचित्
४.४.१८यत्नाच्चोपचरेदेनमग्निवद्देववच्च ह
अनृतेनोपचीर्णो हि हिंस्यादेनमसंशयम्
४.४.१९यच्च भर्तानुयुञ्जीत तदेवाभ्यनुवर्तयेत्
प्रमादमवहेलां च कोपं च परिवर्जयेत्
४.४.२०समर्थनासु सर्वासु हितं च प्रियमेव च
संवर्णयेत्तदेवास्य प्रियादपि हितं वदेत्
४.४.२१अनुकूलो भवेच्चास्य सर्वार्थेषु कथासु च
अप्रियं चाहितं यत्स्यात्तदस्मै नानुवर्णयेत्
४.४.२२नाहमस्य प्रियोऽस्मीति मत्वा सेवेत पण्डितः
अप्रमत्तश्च यत्तश्च हितं कुर्यात्प्रियं च यत्
४.४.२३नास्यानिष्टानि सेवेत नाहितैः सह संवसेत्
स्वस्थानान्न विकम्पेत स राजवसतिं वसेत्
४.४.२४दक्षिणं वाथ वामं वा पार्श्वमासीत पण्डितः
रक्षिणां ह्यात्तशस्त्राणां स्थानं पश्चाद्विधीयते
नित्यं विप्रतिषिद्धं तु पुरस्तादासनं महत्
४.४.२५न च संदर्शने किंचित्प्रवृद्धमपि संजपेत्
अपि ह्येतद्दरिद्राणां व्यलीकस्थानमुत्तमम्
४.४.२६न मृषाभिहितं राज्ञो मनुष्येषु प्रकाशयेत्
यं चासूयन्ति राजानः पुरुषं न वदेच्च तम्
४.४.२७शूरोऽस्मीति न दृप्तः स्याद्बुद्धिमानिति वा पुनः
प्रियमेवाचरन्राज्ञः प्रियो भवति भोगवान्
४.४.२८ऐश्वर्यं प्राप्य दुष्प्रापं प्रियं प्राप्य च राजतः
अप्रमत्तो भवेद्राज्ञः प्रियेषु च हितेषु च
४.४.२९यस्य कोपो महाबाधः प्रसादश्च महाफलः
कस्तस्य मनसापीच्छेदनर्थं प्राज्ञसंमतः
४.४.३०न चोष्ठौ निर्भुजेज्जातु न च वाक्यं समाक्षिपेत्
सदा क्षुतं च वातं च ष्ठीवनं चाचरेच्छनैः
४.४.३१हास्यवस्तुषु चाप्यस्य वर्तमानेषु केषुचित्
नातिगाढं प्रहृष्येत न चाप्युन्मत्तवद्धसेत्
४.४.३२न चातिधैर्येण चरेद्गुरुतां हि व्रजेत्तथा
स्मितं तु मृदुपूर्वेण दर्शयेत प्रसादजम्
४.४.३३लाभे न हर्षयेद्यस्तु न व्यथेद्योऽवमानितः
असंमूढश्च यो नित्यं स राजवसतिं वसेत्
४.४.३४राजानं राजपुत्रं वा संवर्तयति यः सदा
अमात्यः पण्डितो भूत्वा स चिरं तिष्ठति श्रियम्
४.४.३५प्रगृहीतश्च योऽमात्यो निगृहीतश्च कारणैः
न निर्बध्नाति राजानं लभते प्रग्रहं पुनः
४.४.३६प्रत्यक्षं च परोक्षं च गुणवादी विचक्षणः
उपजीवी भवेद्राज्ञो विषये चापि यो वसेत्
४.४.३७अमात्यो हि बलाद्भोक्तुं राजानं प्रार्थयेत्तु यः
न स तिष्ठेच्चिरं स्थानं गच्छेच्च प्राणसंशयम्
४.४.३८श्रेयः सदात्मनो दृष्ट्वा परं राज्ञा न संवदेत्
विशेषयेन्न राजानं योग्याभूमिषु सर्वदा
४.४.३९अम्लानो बलवाञ्शूरश्छायेवानपगः सदा
सत्यवादी मृदुर्दान्तः स राजवसतिं वसेत्
४.४.४०अन्यस्मिन्प्रेष्यमाणे तु पुरस्ताद्यः समुत्पतेत्
अहं किं करवाणीति स राजवसतिं वसेत्
४.४.४१उष्णे वा यदि वा शीते रात्रौ वा यदि वा दिवा
आदिष्टो न विकल्पेत स राजवसतिं वसेत्
४.४.४२यो वै गृहेभ्यः प्रवसन्प्रियाणां नानुसंस्मरेत्
दुःखेन सुखमन्विच्छेत्स राजवसतिं वसेत्
४.४.४३समवेषं न कुर्वीत नात्युच्चैः संनिधौ हसेत्
मन्त्रं न बहुधा कुर्यादेवं राज्ञः प्रियो भवेत्
४.४.४४न कर्मणि नियुक्तः सन्धनं किंचिदुपस्पृशेत्
प्राप्नोति हि हरन्द्रव्यं बन्धनं यदि वा वधम्
४.४.४५यानं वस्त्रमलंकारं यच्चान्यत्संप्रयच्छति
तदेव धारयेन्नित्यमेवं प्रियतरो भवेत्
४.४.४६संवत्सरमिमं तात तथाशीला बुभूषवः
अथ स्वविषयं प्राप्य यथाकामं चरिष्यथ
४.४.४७युधिष्ठिर उवाच
४.४.४८अनुशिष्टाः स्म भद्रं ते नैतद्वक्तास्ति कश्चन
कुन्तीमृते मातरं नो विदुरं च महामतिम्
४.४.४९यदेवानन्तरं कार्यं तद्भवान्कर्तुमर्हति
तारणायास्य दुःखस्य प्रस्थानाय जयाय च
४.४.५०वैशंपायन उवाच
४.४.५१एवमुक्तस्ततो राज्ञा धौम्योऽथ द्विजसत्तमः
अकरोद्विधिवत्सर्वं प्रस्थाने यद्विधीयते
४.४.५२तेषां समिध्य तानग्नीन्मन्त्रवच्च जुहाव सः
समृद्धिवृद्धिलाभाय पृथिवीविजयाय च
४.४.५३अग्निं प्रदक्षिणं कृत्वा ब्राह्मणांश्च तपोधनान्
याज्ञसेनीं पुरस्कृत्य षडेवाथ प्रवव्रजुः