४.५.१वैशंपायन उवाच
४.५.२ते वीरा बद्धनिस्त्रिंशास्ततायुधकलापिनः
बद्धगोधाङ्गुलित्राणाः कालिन्दीमभितो ययुः
४.५.३ततस्ते दक्षिणं तीरमन्वगच्छन्पदातयः
वसन्तो गिरिदुर्गेषु वनदुर्गेषु धन्विनः
४.५.४विध्यन्तो मृगजातानि महेष्वासा महाबलाः
उत्तरेण दशार्णांस्ते पाञ्चालान्दक्षिणेन तु
४.५.५अन्तरेण यकृल्लोमाञ्शूरसेनांश्च पाण्डवाः
लुब्धा ब्रुवाणा मत्स्यस्य विषयं प्राविशन्वनात्
४.५.६ततो जनपदं प्राप्य कृष्णा राजानमब्रवीत्
पश्यैकपद्यो दृश्यन्ते क्षेत्राणि विविधानि च
४.५.७व्यक्तं दूरे विराटस्य राजधानी भविष्यति
वसामेह परां रात्रिं बलवान्मे परिश्रमः
४.५.८युधिष्ठिर उवाच
४.५.९धनंजय समुद्यम्य पाञ्चालीं वह भारत
राजधान्यां निवत्स्यामो विमुक्ताश्च वनादितः
४.५.१०वैशंपायन उवाच
४.५.११तामादायार्जुनस्तूर्णं द्रौपदीं गजराडिव
संप्राप्य नगराभ्याशमवतारयदर्जुनः
४.५.१२स राजधानीं संप्राप्य कौन्तेयोऽर्जुनमब्रवीत्
क्वायुधानि समासज्य प्रवेक्ष्यामः पुरं वयम्
४.५.१३सायुधाश्च वयं तात प्रवेक्ष्यामः पुरं यदि
समुद्वेगं जनस्यास्य करिष्यामो न संशयः
४.५.१४ततो द्वादश वर्षाणि प्रवेष्टव्यं वनं पुनः
एकस्मिन्नपि विज्ञाते प्रतिज्ञातं हि नस्तथा
४.५.१५अर्जुन उवाच
४.५.१६इयं कूटे मनुष्येन्द्र गहना महती शमी
भीमशाखा दुरारोहा श्मशानस्य समीपतः
४.५.१७न चापि विद्यते कश्चिन्मनुष्य इह पार्थिव
उत्पथे हि वने जाता मृगव्यालनिषेविते
४.५.१८समासज्यायुधान्यस्यां गच्छामो नगरं प्रति
एवमत्र यथाजोषं विहरिष्याम भारत
४.५.१९वैशंपायन उवाच
४.५.२०एवमुक्त्वा स राजानं धर्मात्मानं युधिष्ठिरम्
प्रचक्रमे निधानाय शस्त्राणां भरतर्षभ
४.५.२१येन देवान्मनुष्यांश्च सर्पांश्चैकरथोऽजयत्
स्फीताञ्जनपदांश्चान्यानजयत्कुरुनन्दनः
४.५.२२तदुदारं महाघोषं सपत्नगणसूदनम्
अपज्यमकरोत्पार्थो गाण्डीवमभयंकरम्
४.५.२३येन वीरः कुरुक्षेत्रमभ्यरक्षत्परंतपः
अमुञ्चद्धनुषस्तस्य ज्यामक्षय्यां युधिष्ठिरः
४.५.२४पाञ्चालान्येन संग्रामे भीमसेनोऽजयत्प्रभुः
प्रत्यषेधद्बहूनेकः सपत्नांश्चैव दिग्जये
४.५.२५निशम्य यस्य विस्फारं व्यद्रवन्त रणे परे
पर्वतस्येव दीर्णस्य विस्फोटमशनेरिव
४.५.२६सैन्धवं येन राजानं परामृषत चानघ
ज्यापाशं धनुषस्तस्य भीमसेनोऽवतारयत्
४.५.२७अजयत्पश्चिमामाशां धनुषा येन पाण्डवः
तस्य मौर्वीमपाकर्षच्छूरः संक्रन्दनो युधि
४.५.२८दक्षिणां दक्षिणाचारो दिशं येनाजयत्प्रभुः
अपज्यमकरोद्वीरः सहदेवस्तदायुधम्
४.५.२९खड्गांश्च पीतान्दीर्घांश्च कलापांश्च महाधनान्
विपाठान्क्षुरधारांश्च धनुर्भिर्निदधुः सह
४.५.३०तामुपारुह्य नकुलो धनूंषि निदधत्स्वयम्
यानि तस्यावकाशानि दृढरूपाण्यमन्यत
४.५.३१यत्र चापश्यत स वै तिरो वर्षाणि वर्षति
तत्र तानि दृढैः पाशैः सुगाढं पर्यबन्धत
४.५.३२शरीरं च मृतस्यैकं समबध्नन्त पाण्डवाः
विवर्जयिष्यन्ति नरा दूरादेव शमीमिमाम्
आबद्धं शवमत्रेति गन्धमाघ्राय पूतिकम्
४.५.३३अशीतिशतवर्षेयं माता न इति वादिनः
कुलधर्मोऽयमस्माकं पूर्वैराचरितोऽपि च
समासजाना वृक्षेऽस्मिन्निति वै व्याहरन्ति ते
४.५.३४आ गोपालाविपालेभ्य आचक्षाणाः परंतपाः
आजग्मुर्नगराभ्याशं पार्थाः शत्रुनिबर्हणाः
४.५.३५जयो जयन्तो विजयो जयत्सेनो जयद्बलः
इति गुह्यानि नामानि चक्रे तेषां युधिष्ठिरः
४.५.३६ततो यथाप्रतिज्ञाभिः प्राविशन्नगरं महत्
अज्ञातचर्यां वत्स्यन्तो राष्ट्रे वर्षं त्रयोदशम्