४.४३.१कर्ण उवाच
४.४३.२सर्वानायुष्मतो भीतान्संत्रस्तानिव लक्षये
अयुद्धमनसश्चैव सर्वांश्चैवानवस्थितान्
४.४३.३यद्येष राजा मत्स्यानां यदि बीभत्सुरागतः
अहमावारयिष्यामि वेलेव मकरालयम्
४.४३.४मम चापप्रमुक्तानां शराणां नतपर्वणाम्
नावृत्तिर्गच्छतामस्ति सर्पाणामिव सर्पताम्
४.४३.५रुक्मपुङ्खाः सुतीक्ष्णाग्रा मुक्ता हस्तवता मया
छादयन्तु शराः पार्थं शलभा इव पादपम्
४.४३.६शराणां पुङ्खसक्तानां मौर्व्याभिहतया दृढम्
श्रूयतां तलयोः शब्दो भेर्योराहतयोरिव
४.४३.७समाहितो हि बीभत्सुर्वर्षाण्यष्टौ च पञ्च च
जातस्नेहश्च युद्धस्य मयि संप्रहरिष्यति
४.४३.८पात्रीभूतश्च कौन्तेयो ब्राह्मणो गुणवानिव
शरौघान्प्रतिगृह्णातु मया मुक्तान्सहस्रशः
४.४३.९एष चैव महेष्वासस्त्रिषु लोकेषु विश्रुतः
अहं चापि कुरुश्रेष्ठा अर्जुनान्नावरः क्वचित्
४.४३.१०इतश्चेतश्च निर्मुक्तैः काञ्चनैर्गार्ध्रवाजितैः
दृश्यतामद्य वै व्योम खद्योतैरिव संवृतम्
४.४३.११अद्याहमृणमक्षय्यं पुरा वाचा प्रतिश्रुतम्
धार्तराष्ट्रस्य दास्यामि निहत्य समरेऽर्जुनम्
४.४३.१२अन्तरा छिद्यमानानां पुङ्खानां व्यतिशीर्यताम्
शलभानामिवाकाशे प्रचारः संप्रदृश्यताम्
४.४३.१३इन्द्राशनिसमस्पर्शं महेन्द्रसमतेजसम्
अर्दयिष्याम्यहं पार्थमुल्काभिरिव कुञ्जरम्
४.४३.१४तमग्निमिव दुर्धर्षमसिशक्तिशरेन्धनम्
पाण्डवाग्निमहं दीप्तं प्रदहन्तमिवाहितान्
४.४३.१५अश्ववेगपुरोवातो रथौघस्तनयित्नुमान्
शरधारो महामेघः शमयिष्यामि पाण्डवम्
४.४३.१६मत्कार्मुकविनिर्मुक्ताः पार्थमाशीविषोपमाः
शराः समभिसर्पन्तु वल्मीकमिव पन्नगाः
४.४३.१७जामदग्न्यान्मया ह्यस्त्रं यत्प्राप्तमृषिसत्तमात्
तदुपाश्रित्य वीर्यं च युध्येयमपि वासवम्
४.४३.१८ध्वजाग्रे वानरस्तिष्ठन्भल्लेन निहतो मया
अद्यैव पततां भूमौ विनदन्भैरवान्रवान्
४.४३.१९शत्रोर्मयाभिपन्नानां भूतानां ध्वजवासिनाम्
दिशः प्रतिष्ठमानानामस्तु शब्दो दिवं गतः
४.४३.२०अद्य दुर्योधनस्याहं शल्यं हृदि चिरस्थितम्
समूलमुद्धरिष्यामि बीभत्सुं पातयन्रथात्
४.४३.२१हताश्वं विरथं पार्थं पौरुषे पर्यवस्थितम्
निःश्वसन्तं यथा नागमद्य पश्यन्तु कौरवाः
४.४३.२२कामं गच्छन्तु कुरवो धनमादाय केवलम्
रथेषु वापि तिष्ठन्तो युद्धं पश्यन्तु मामकम्