४.६.१वैशंपायन उवाच
४.६.२ततो विराटं प्रथमं युधिष्ठिरो; राजा सभायामुपविष्टमाव्रजत्
वैडूर्यरूपान्प्रतिमुच्य काञ्चना;नक्षान्स कक्षे परिगृह्य वाससा
४.६.३नराधिपो राष्ट्रपतिं यशस्विनं; महायशाः कौरववंशवर्धनः
महानुभावो नरराजसत्कृतो; दुरासदस्तीक्ष्णविषो यथोरगः
४.६.४बलेन रूपेण नरर्षभो महा;नथार्चिरूपेण यथामरस्तथा
महाभ्रजालैरिव संवृतो रवि;र्यथानलो भस्मवृतश्च वीर्यवान्
४.६.५तमापतन्तं प्रसमीक्ष्य पाण्डवं; विराटराडिन्दुमिवाभ्रसंवृतम्
मन्त्रिद्विजान्सूतमुखान्विशस्तथा; ये चापि केचित्परिषत्समासते
पप्रच्छ कोऽयं प्रथमं समेयिवा;ननेन योऽयं प्रसमीक्षते सभाम्
४.६.६न तु द्विजोऽयं भविता नरोत्तमः; पतिः पृथिव्या इति मे मनोगतम्
न चास्य दासो न रथो न कुण्डले; समीपतो भ्राजति चायमिन्द्रवत्
४.६.७शरीरलिङ्गैरुपसूचितो ह्ययं; मूर्धाभिषिक्तोऽयमितीव मानसम्
समीपमायाति च मे गतव्यथो; यथा गजस्तामरसीं मदोत्कटः
४.६.८वितर्कयन्तं तु नरर्षभस्तदा; युधिष्ठिरोऽभ्येत्य विराटमब्रवीत्
सम्राड्विजानात्विह जीवितार्थिनं; विनष्टसर्वस्वमुपागतं द्विजम्
४.६.९इहाहमिच्छामि तवानघान्तिके; वस्तुं यथा कामचरस्तथा विभो
तमब्रवीत्स्वागतमित्यनन्तरं; राजा प्रहृष्टः प्रतिसंगृहाण च
४.६.१०कामेन ताताभिवदाम्यहं त्वां; कस्यासि राज्ञो विषयादिहागतः
गोत्रं च नामापि च शंस तत्त्वतः; किं चापि शिल्पं तव विद्यते कृतम्
४.६.११युधिष्ठिर उवाच
४.६.१२युधिष्ठिरस्यासमहं पुरा सखा; वैयाघ्रपद्यः पुनरस्मि ब्राह्मणः
अक्षान्प्रवप्तुं कुशलोऽस्मि देविता; कङ्केति नाम्नास्मि विराट विश्रुतः
४.६.१३विराट उवाच
४.६.१४ददामि ते हन्त वरं यमिच्छसि; प्रशाधि मत्स्यान्वशगो ह्यहं तव
प्रिया हि धूर्ता मम देविनः सदा; भवांश्च देवोपम राज्यमर्हति
४.६.१५युधिष्ठिर उवाच
४.६.१६आप्तो विवादः परमो विशां पते; न विद्यते किंचन मत्स्य हीनतः
न मे जितः कश्चन धारयेद्धनं; वरो ममैषोऽस्तु तव प्रसादतः
४.६.१७विराट उवाच
४.६.१८हन्यामवध्यं यदि तेऽप्रियं चरे;त्प्रव्राजयेयं विषयाद्द्विजांस्तथा
शृण्वन्तु मे जानपदाः समागताः; कङ्को यथाहं विषये प्रभुस्तथा
४.६.१९समानयानो भवितासि मे सखा; प्रभूतवस्त्रो बहुपानभोजनः
पश्येस्त्वमन्तश्च बहिश्च सर्वदा; कृतं च ते द्वारमपावृतं मया
४.६.२०ये त्वानुवादेयुरवृत्तिकर्शिता; ब्रूयाश्च तेषां वचनेन मे सदा
दास्यामि सर्वं तदहं न संशयो; न ते भयं विद्यति संनिधौ मम
४.६.२१वैशंपायन उवाच
४.६.२२एवं स लब्ध्वा तु वरं समागमं; विराटराजेन नरर्षभस्तदा
उवास वीरः परमार्चितः सुखी; न चापि कश्चिच्चरितं बुबोध तत्