४. विराटपर्व
४.५९.१वैशंपायन उवाच

४.५९.२ततः शांतनवो भीष्मो दुराधर्षः प्रतापवान्
वध्यमानेषु योधेषु धनंजयमुपाद्रवत्

४.५९.३प्रगृह्य कार्मुकश्रेष्ठं जातरूपपरिष्कृतम्
शरानादाय तीक्ष्णाग्रान्मर्मभेदप्रमाथिनः

४.५९.४पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि
शुशुभे स नरव्याघ्रो गिरिः सूर्योदये यथा

४.५९.५प्रध्माय शङ्खं गाङ्गेयो धार्तराष्ट्रान्प्रहर्षयन्
प्रदक्षिणमुपावृत्य बीभत्सुं समवारयत्

४.५९.६तमुद्वीक्ष्य तथायान्तं कौन्तेयः परवीरहा
प्रत्यगृह्णात्प्रहृष्टात्मा धाराधरमिवाचलः

४.५९.७ततो भीष्मः शरानष्टौ ध्वजे पार्थस्य वीर्यवान्
समपर्यन्महावेगाञ्श्वसमानानिवोरगान्

४.५९.८ते ध्वजं पाण्डुपुत्रस्य समासाद्य पतत्रिणः
ज्वलन्तः कपिमाजघ्नुर्ध्वजाग्रनिलयांश्च तान्

४.५९.९ततो भल्लेन महता पृथुधारेण पाण्डवः
छत्रं चिच्छेद भीष्मस्य तूर्णं तदपतद्भुवि

४.५९.१०ध्वजं चैवास्य कौन्तेयः शरैरभ्यहनद्दृढम्
शीघ्रकृद्रथवाहांश्च तथोभौ पार्ष्णिसारथी

४.५९.११तयोस्तदभवद्युद्धं तुमुलं लोमहर्षणम्
भीष्मस्य सह पार्थेन बलिवासवयोरिव

४.५९.१२भल्लैर्भल्लाः समागम्य भीष्मपाण्डवयोर्युधि
अन्तरिक्षे व्यराजन्त खद्योताः प्रावृषीव हि

४.५९.१३अग्निचक्रमिवाविद्धं सव्यदक्षिणमस्यतः
गाण्डीवमभवद्राजन्पार्थस्य सृजतः शरान्

४.५९.१४स तैः संछादयामास भीष्मं शरशतैः शितैः
पर्वतं वारिधाराभिश्छादयन्निव तोयदः

४.५९.१५तां स वेलामिवोद्धूतां शरवृष्टिं समुत्थिताम्
व्यधमत्सायकैर्भीष्मो अर्जुनं संनिवारयत्

४.५९.१६ततस्तानि निकृत्तानि शरजालानि भागशः
समरेऽभिव्यशीर्यन्त फल्गुनस्य रथं प्रति

४.५९.१७ततः कनकपुङ्खानां शरवृष्टिं समुत्थिताम्
पाण्डवस्य रथात्तूर्णं शलभानामिवायतिम्
व्यधमत्तां पुनस्तस्य भीष्मः शरशतैः शितैः

४.५९.१८ततस्ते कुरवः सर्वे साधु साध्विति चाब्रुवन्
दुष्करं कृतवान्भीष्मो यदर्जुनमयोधयत्

४.५९.१९बलवांस्तरुणो दक्षः क्षिप्रकारी च पाण्डवः
कोऽन्यः समर्थः पार्थस्य वेगं धारयितुं रणे

४.५९.२०ऋते शांतनवाद्भीष्मात्कृष्णाद्वा देवकीसुतात्
आचार्यप्रवराद्वापि भारद्वाजान्महाबलात्

४.५९.२१अस्त्रैरस्त्राणि संवार्य क्रीडतः पुरुषर्षभौ
चक्षूंषि सर्वभूतानां मोहयन्तौ महाबलौ

४.५९.२२प्राजापत्यं तथैवैन्द्रमाग्नेयं च सुदारुणम्
कौबेरं वारुणं चैव याम्यं वायव्यमेव च
प्रयुञ्जानौ महात्मानौ समरे तौ विचेरतुः

४.५९.२३विस्मितान्यथ भूतानि तौ दृष्ट्वा संयुगे तदा
साधु पार्थ महाबाहो साधु भीष्मेति चाब्रुवन्

४.५९.२४नेदं युक्तं मनुष्येषु योऽयं संदृश्यते महान्
महास्त्राणां संप्रयोगः समरे भीष्मपार्थयोः

४.५९.२५एवं सर्वास्त्रविदुषोरस्त्रयुद्धमवर्तत
अथ जिष्णुरुपावृत्य पृथुधारेण कार्मुकम्
चकर्त भीष्मस्य तदा जातरूपपरिष्कृतम्

४.५९.२६निमेषान्तरमात्रेण भीष्मोऽन्यत्कार्मुकं रणे
समादाय महाबाहुः सज्यं चक्रे महाबलः
शरांश्च सुबहून्क्रुद्धो मुमोचाशु धनंजये

४.५९.२७अर्जुनोऽपि शरांश्चित्रान्भीष्माय निशितान्बहून्
चिक्षेप सुमहातेजास्तथा भीष्मश्च पाण्डवे

४.५९.२८तयोर्दिव्यास्त्रविदुषोरस्यतोरनिशं शरान्
न विशेषस्तदा राजँल्लक्ष्यते स्म महात्मनोः

४.५९.२९अथावृणोद्दश दिशः शरैरतिरथस्तदा
किरीटमाली कौन्तेयः शूरः शांतनवस्तथा

४.५९.३०अतीव पाण्डवो भीष्मं भीष्मश्चातीव पाण्डवम्
बभूव तस्मिन्संग्रामे राजँल्लोके तदद्भुतम्

४.५९.३१पाण्डवेन हताः शूरा भीष्मस्य रथरक्षिणः
शेरते स्म तदा राजन्कौन्तेयस्याभितो रथम्

४.५९.३२ततो गाण्डीवनिर्मुक्ता निरमित्रं चिकीर्षवः
आगच्छन्पुङ्खसंश्लिष्टाः श्वेतवाहनपत्रिणः

४.५९.३३निष्पतन्तो रथात्तस्य धौता हैरण्यवाससः
आकाशे समदृश्यन्त हंसानामिव पङ्क्तयः

४.५९.३४तस्य तद्दिव्यमस्त्रं हि प्रगाढं चित्रमस्यतः
प्रेक्षन्ते स्मान्तरिक्षस्थाः सर्वे देवाः सवासवाः

४.५९.३५तद्दृष्ट्वा परमप्रीतो गन्धर्वश्चित्रमद्भुतम्
शशंस देवराजाय चित्रसेनः प्रतापवान्

४.५९.३६पश्येमानरिनिर्दारान्संसक्तानिव गच्छतः
चित्ररूपमिदं जिष्णोर्दिव्यमस्त्रमुदीर्यतः

४.५९.३७नेदं मनुष्याः श्रद्दध्युर्न हीदं तेषु विद्यते
पौराणानां महास्त्राणां विचित्रोऽयं समागमः

४.५९.३८मध्यंदिनगतं सूर्यं प्रतपन्तमिवाम्बरे
न शक्नुवन्ति सैन्यानि पाण्डवं प्रतिवीक्षितुम्

४.५९.३९उभौ विश्रुतकर्माणावुभौ युद्धविशारदौ
उभौ सदृशकर्माणावुभौ युधि दुरासदौ

४.५९.४०इत्युक्तो देवराजस्तु पार्थभीष्मसमागमम्
पूजयामास दिव्येन पुष्पवर्षेण भारत

४.५९.४१ततो भीष्मः शांतनवो वामे पार्श्वे समर्पयत्
अस्यतः प्रतिसंधाय विवृतं सव्यसाचिनः

४.५९.४२ततः प्रहस्य बीभत्सुः पृथुधारेण कार्मुकम्
न्यकृन्तद्गार्ध्रपत्रेण भीष्मस्यामिततेजसः

४.५९.४३अथैनं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे
यतमानं पराक्रान्तं कुन्तीपुत्रो धनंजयः

४.५९.४४स पीडितो महाबाहुर्गृहीत्वा रथकूबरम्
गाङ्गेयो युधि दुर्धर्षस्तस्थौ दीर्घमिवातुरः

४.५९.४५तं विसंज्ञमपोवाह संयन्ता रथवाजिनाम्
उपदेशमनुस्मृत्य रक्षमाणो महारथम्