४.७.१वैशंपायन उवाच
४.७.२अथापरो भीमबलः श्रिया ज्वल;न्नुपाययौ सिंहविलासविक्रमः
खजं च दर्वीं च करेण धारय;न्नसिं च कालाङ्गमकोशमव्रणम्
४.७.३स सूदरूपः परमेण वर्चसा; रविर्यथा लोकमिमं प्रभासयन्
सुकृष्णवासा गिरिराजसारवा;न्स मत्स्यराजं समुपेत्य तस्थिवान्
४.७.४तं प्रेक्ष्य राजा वरयन्नुपागतं; ततोऽब्रवीज्जानपदान्समागतान्
सिंहोन्नतांसोऽयमतीव रूपवा;न्प्रदृश्यते को नु नरर्षभो युवा
४.७.५अदृष्टपूर्वः पुरुषो रविर्यथा; वितर्कयन्नास्य लभामि संपदम्
तथास्य चित्तं ह्यपि संवितर्कय;न्नरर्षभस्याद्य न यामि तत्त्वतः
४.७.६ततो विराटं समुपेत्य पाण्डवः; सुदीनरूपो वचनं महामनाः
उवाच सूदोऽस्मि नरेन्द्र बल्लवो; भजस्व मां व्यञ्जनकारमुत्तमम्
४.७.७विराट उवाच
४.७.८न सूदतां मानद श्रद्दधामि ते; सहस्रनेत्रप्रतिमो हि दृश्यसे
श्रिया च रूपेण च विक्रमेण च; प्रभासि तातानवरो नरेष्विह
४.७.९भीम उवाच
४.७.१०नरेन्द्र सूदः परिचारकोऽस्मि ते; जानामि सूपान्प्रथमेन केवलान्
आस्वादिता ये नृपते पुराभव;न्युधिष्ठिरेणापि नृपेण सर्वशः
४.७.११बलेन तुल्यश्च न विद्यते मया; नियुद्धशीलश्च सदैव पार्थिव
गजैश्च सिंहैश्च समेयिवानहं; सदा करिष्यामि तवानघ प्रियम्
४.७.१२विराट उवाच
४.७.१३ददामि ते हन्त वरं महानसे; तथा च कुर्याः कुशलं हि भाषसे
न चैव मन्ये तव कर्म तत्समं; समुद्रनेमिं पृथिवीं त्वमर्हसि
४.७.१४यथा हि कामस्तव तत्तथा कृतं; महानसे त्वं भव मे पुरस्कृतः
नराश्च ये तत्र ममोचिताः पुरा; भवस्व तेषामधिपो मया कृतः
४.७.१५वैशंपायन उवाच
४.७.१६तथा स भीमो विहितो महानसे; विराटराज्ञो दयितोऽभवद्दृढम्
उवास राजन्न च तं पृथग्जनो; बुबोध तत्रानुचरश्च कश्चन