४.६४.१वैशंपायन उवाच
४.६४.२ततो राज्ञः सुतो ज्येष्ठः प्राविशत्पृथिवींजयः
सोऽभिवाद्य पितुः पादौ धर्मराजमपश्यत
४.६४.३स तं रुधिरसंसिक्तमनेकाग्रमनागसम्
भूमावासीनमेकान्ते सैरन्ध्र्या समुपस्थितम्
४.६४.४ततः पप्रच्छ पितरं त्वरमाण इवोत्तरः
केनायं ताडितो राजन्केन पापमिदं कृतम्
४.६४.५विराट उवाच
४.६४.६मयायं ताडितो जिह्मो न चाप्येतावदर्हति
प्रशस्यमाने यः शूरे त्वयि षण्ढं प्रशंसति
४.६४.७उत्तर उवाच
४.६४.८अकार्यं ते कृतं राजन्क्षिप्रमेव प्रसाद्यताम्
मा त्वा ब्रह्मविषं घोरं समूलमपि निर्दहेत्
४.६४.९वैशंपायन उवाच
४.६४.१०स पुत्रस्य वचः श्रुत्वा विराटो राष्ट्रवर्धनः
क्षमयामास कौन्तेयं भस्मच्छन्नमिवानलम्
४.६४.११क्षमयन्तं तु राजानं पाण्डवः प्रत्यभाषत
चिरं क्षान्तमिदं राजन्न मन्युर्विद्यते मम
४.६४.१२यदि ह्येतत्पतेद्भूमौ रुधिरं मम नस्ततः
सराष्ट्रस्त्वं महाराज विनश्येथा न संशयः
४.६४.१३न दूषयामि ते राजन्यच्च हन्याददूषकम्
बलवन्तं महाराज क्षिप्रं दारुणमाप्नुयात्
४.६४.१४शोणिते तु व्यतिक्रान्ते प्रविवेश बृहन्नडा
अभिवाद्य विराटं च कङ्कं चाप्युपतिष्ठत
४.६४.१५क्षमयित्वा तु कौरव्यं रणादुत्तरमागतम्
प्रशशंस ततो मत्स्यः शृण्वतः सव्यसाचिनः
४.६४.१६त्वया दायादवानस्मि कैकेयीनन्दिवर्धन
त्वया मे सदृशः पुत्रो न भूतो न भविष्यति
४.६४.१७पदं पदसहस्रेण यश्चरन्नापराध्नुयात्
तेन कर्णेन ते तात कथमासीत्समागमः
४.६४.१८मनुष्यलोके सकले यस्य तुल्यो न विद्यते
यः समुद्र इवाक्षोभ्यः कालाग्निरिव दुःसहः
तेन भीष्मेण ते तात कथमासीत्समागमः
४.६४.१९आचार्यो वृष्णिवीराणां पाण्डवानां च यो द्विजः
सर्वक्षत्रस्य चाचार्यः सर्वशस्त्रभृतां वरः
तेन द्रोणेन ते तात कथमासीत्समागमः
४.६४.२०आचार्यपुत्रो यः शूरः सर्वशस्त्रभृतामपि
अश्वत्थामेति विख्यातः कथं तेन समागमः
४.६४.२१रणे यं प्रेक्ष्य सीदन्ति हृतस्वा वणिजो यथा
कृपेण तेन ते तात कथमासीत्समागमः
४.६४.२२पर्वतं योऽभिविध्येत राजपुत्रो महेषुभिः
दुर्योधनेन ते तात कथमासीत्समागमः
४.६४.२३उत्तर उवाच
४.६४.२४न मया निर्जिता गावो न मया निर्जिताः परे
कृतं तु कर्म तत्सर्वं देवपुत्रेण केनचित्
४.६४.२५स हि भीतं द्रवन्तं मां देवपुत्रो न्यवारयत्
स चातिष्ठद्रथोपस्थे वज्रहस्तनिभो युवा
४.६४.२६तेन ता निर्जिता गावस्तेन ते कुरवो जिताः
तस्य तत्कर्म वीरस्य न मया तात तत्कृतम्
४.६४.२७स हि शारद्वतं द्रोणं द्रोणपुत्रं च वीर्यवान्
सूतपुत्रं च भीष्मं च चकार विमुखाञ्शरैः
४.६४.२८दुर्योधनं च समरे सनागमिव यूथपम्
प्रभग्नमब्रवीद्भीतं राजपुत्रं महाबलम्
४.६४.२९न हास्तिनपुरे त्राणं तव पश्यामि किंचन
व्यायामेन परीप्सस्व जीवितं कौरवात्मज
४.६४.३०न मोक्ष्यसे पलायंस्त्वं राजन्युद्धे मनः कुरु
पृथिवीं भोक्ष्यसे जित्वा हतो वा स्वर्गमाप्स्यसि
४.६४.३१स निवृत्तो नरव्याघ्रो मुञ्चन्वज्रनिभाञ्शरान्
सचिवैः संवृतो राजा रथे नाग इव श्वसन्
४.६४.३२तत्र मे रोमहर्षोऽभूदूरुस्तम्भश्च मारिष
यदभ्रघनसंकाशमनीकं व्यधमच्छरैः
४.६४.३३तत्प्रणुद्य रथानीकं सिंहसंहननो युवा
कुरूंस्तान्प्रहसन्राजन्वासांस्यपहरद्बली
४.६४.३४एकेन तेन वीरेण षड्रथाः परिवारिताः
शार्दूलेनेव मत्तेन मृगास्तृणचरा वने
४.६४.३५विराट उवाच
४.६४.३६क्व स वीरो महाबाहुर्देवपुत्रो महायशाः
यो मे धनमवाजैषीत्कुरुभिर्ग्रस्तमाहवे
४.६४.३७इच्छामि तमहं द्रष्टुमर्चितुं च महाबलम्
येन मे त्वं च गावश्च रक्षिता देवसूनुना
४.६४.३८उत्तर उवाच
४.६४.३९अन्तर्धानं गतस्तात देवपुत्रः प्रतापवान्
स तु श्वो वा परश्वो वा मन्ये प्रादुर्भविष्यति
४.६४.४०वैशंपायन उवाच
४.६४.४१एवमाख्यायमानं तु छन्नं सत्रेण पाण्डवम्
वसन्तं तत्र नाज्ञासीद्विराटः पार्थमर्जुनम्
४.६४.४२ततः पार्थोऽभ्यनुज्ञातो विराटेन महात्मना
प्रददौ तानि वासांसि विराटदुहितुः स्वयम्
४.६४.४३उत्तरा तु महार्हाणि विविधानि तनूनि च
प्रतिगृह्याभवत्प्रीता तानि वासांसि भामिनी
४.६४.४४मन्त्रयित्वा तु कौन्तेय उत्तरेण रहस्तदा
इतिकर्तव्यतां सर्वां राजन्यथ युधिष्ठिरे
४.६४.४५ततस्तथा तद्व्यदधाद्यथावत्पुरुषर्षभ
सह पुत्रेण मत्स्यस्य प्रहृष्टो भरतर्षभः