५. उद्योगपर्व
५.१०४.१जनमेजय उवाच

५.१०४.२अनर्थे जातनिर्बन्धं परार्थे लोभमोहितम्
अनार्यकेष्वभिरतं मरणे कृतनिश्चयम्

५.१०४.३ज्ञातीनां दुःखकर्तारं बन्धूनां शोकवर्धनम्
सुहृदां क्लेशदातारं द्विषतां हर्षवर्धनम्

५.१०४.४कथं नैनं विमार्गस्थं वारयन्तीह बान्धवाः
सौहृदाद्वा सुहृत्स्निग्धो भगवान्वा पितामहः

५.१०४.५वैशंपायन उवाच

५.१०४.६उक्तं भगवता वाक्यमुक्तं भीष्मेण यत्क्षमम्
उक्तं बहुविधं चैव नारदेनापि तच्छृणु

५.१०४.७नारद उवाच

५.१०४.८दुर्लभो वै सुहृच्छ्रोता दुर्लभश्च हितः सुहृत्
तिष्ठते हि सुहृद्यत्र न बन्धुस्तत्र तिष्ठति

५.१०४.९श्रोतव्यमपि पश्यामि सुहृदां कुरुनन्दन
न कर्तव्यश्च निर्बन्धो निर्बन्धो हि सुदारुणः

५.१०४.१०अत्राप्युदाहरन्तीममितिहासं पुरातनम्
यथा निर्बन्धतः प्राप्तो गालवेन पराजयः

५.१०४.११विश्वामित्रं तपस्यन्तं धर्मो जिज्ञासया पुरा
अभ्यगच्छत्स्वयं भूत्वा वसिष्ठो भगवानृषिः

५.१०४.१२सप्तर्षीणामन्यतमं वेषमास्थाय भारत
बुभुक्षुः क्षुधितो राजन्नाश्रमं कौशिकस्य ह

५.१०४.१३विश्वामित्रोऽथ संभ्रान्तः श्रपयामास वै चरुम्
परमान्नस्य यत्नेन न च स प्रत्यपालयत्

५.१०४.१४अन्नं तेन यदा भुक्तमन्यैर्दत्तं तपस्विभिः
अथ गृह्यान्नमत्युष्णं विश्वामित्रोऽभ्युपागमत्

५.१०४.१५भुक्तं मे तिष्ठ तावत्त्वमित्युक्त्वा भगवान्ययौ
विश्वामित्रस्ततो राजन्स्थित एव महाद्युतिः

५.१०४.१६भक्तं प्रगृह्य मूर्ध्ना तद्बाहुभ्यां पार्श्वतोऽगमत्
स्थितः स्थाणुरिवाभ्याशे निश्चेष्टो मारुताशनः

५.१०४.१७तस्य शुश्रूषणे यत्नमकरोद्गालवो मुनिः
गौरवाद्बहुमानाच्च हार्देन प्रियकाम्यया

५.१०४.१८अथ वर्षशते पूर्णे धर्मः पुनरुपागमत्
वासिष्ठं वेषमास्थाय कौशिकं भोजनेप्सया

५.१०४.१९स दृष्ट्वा शिरसा भक्तं ध्रियमाणं महर्षिणा
तिष्ठता वायुभक्षेण विश्वामित्रेण धीमता

५.१०४.२०प्रतिगृह्य ततो धर्मस्तथैवोष्णं तथा नवम्
भुक्त्वा प्रीतोऽस्मि विप्रर्षे तमुक्त्वा स मुनिर्गतः

५.१०४.२१क्षत्रभावादपगतो ब्राह्मणत्वमुपागतः
धर्मस्य वचनात्प्रीतो विश्वामित्रस्तदाभवत्

५.१०४.२२विश्वामित्रस्तु शिष्यस्य गालवस्य तपस्विनः
शुश्रूषया च भक्त्या च प्रीतिमानित्युवाच तम्
अनुज्ञातो मया वत्स यथेष्टं गच्छ गालव

५.१०४.२३इत्युक्तः प्रत्युवाचेदं गालवो मुनिसत्तमम्
प्रीतो मधुरया वाचा विश्वामित्रं महाद्युतिम्

५.१०४.२४दक्षिणां कां प्रयच्छामि भवते गुरुकर्मणि
दक्षिणाभिरुपेतं हि कर्म सिध्यति मानवम्

५.१०४.२५दक्षिणानां हि सृष्टानामपवर्गेण भुज्यते
स्वर्गे क्रतुफलं सद्भिर्दक्षिणा शान्तिरुच्यते
किमाहरामि गुर्वर्थं ब्रवीतु भगवानिति

५.१०४.२६जानमानस्तु भगवाञ्जितः शुश्रूषणेन च
विश्वामित्रस्तमसकृद्गच्छ गच्छेत्यचोदयत्

५.१०४.२७असकृद्गच्छ गच्छेति विश्वामित्रेण भाषितः
किं ददानीति बहुशो गालवः प्रत्यभाषत

५.१०४.२८निर्बन्धतस्तु बहुशो गालवस्य तपस्विनः
किंचिदागतसंरम्भो विश्वामित्रोऽब्रवीदिदम्

५.१०४.२९एकतःश्यामकर्णानां शतान्यष्टौ ददस्व मे
हयानां चन्द्रशुभ्राणां गच्छ गालव माचिरम्