५. उद्योगपर्व
५.११६.१नारद उवाच

५.११६.२तथैव सा श्रियं त्यक्त्वा कन्या भूत्वा यशस्विनी
माधवी गालवं विप्रमन्वयात्सत्यसंगरा

५.११६.३गालवो विमृशन्नेव स्वकार्यगतमानसः
जगाम भोजनगरं द्रष्टुमौशीनरं नृपम्

५.११६.४तमुवाचाथ गत्वा स नृपतिं सत्यविक्रमम्
इयं कन्या सुतौ द्वौ ते जनयिष्यति पार्थिवौ

५.११६.५अस्यां भवानवाप्तार्थो भविता प्रेत्य चेह च
सोमार्कप्रतिसंकाशौ जनयित्वा सुतौ नृप

५.११६.६शुल्कं तु सर्वधर्मज्ञ हयानां चन्द्रवर्चसाम्
एकतःश्यामकर्णानां देयं मह्यं चतुःशतम्

५.११६.७गुर्वर्थोऽयं समारम्भो न हयैः कृत्यमस्ति मे
यदि शक्यं महाराज क्रियतां मा विचार्यताम्

५.११६.८अनपत्योऽसि राजर्षे पुत्रौ जनय पार्थिव
पितॄन्पुत्रप्लवेन त्वमात्मानं चैव तारय

५.११६.९न पुत्रफलभोक्ता हि राजर्षे पात्यते दिवः
न याति नरकं घोरं यत्र गच्छन्त्यनात्मजाः

५.११६.१०एतच्चान्यच्च विविधं श्रुत्वा गालवभाषितम्
उशीनरः प्रतिवचो ददौ तस्य नराधिपः

५.११६.११श्रुतवानस्मि ते वाक्यं यथा वदसि गालव
विधिस्तु बलवान्ब्रह्मन्प्रवणं हि मनो मम

५.११६.१२शते द्वे तु ममाश्वानामीदृशानां द्विजोत्तम
इतरेषां सहस्राणि सुबहूनि चरन्ति मे

५.११६.१३अहमप्येकमेवास्यां जनयिष्यामि गालव
पुत्रं द्विज गतं मार्गं गमिष्यामि परैरहम्

५.११६.१४मूल्येनापि समं कुर्यां तवाहं द्विजसत्तम
पौरजानपदार्थं तु ममार्थो नात्मभोगतः

५.११६.१५कामतो हि धनं राजा पारक्यं यः प्रयच्छति
न स धर्मेण धर्मात्मन्युज्यते यशसा न च

५.११६.१६सोऽहं प्रतिग्रहीष्यामि ददात्वेतां भवान्मम
कुमारीं देवगर्भाभामेकपुत्रभवाय मे

५.११६.१७तथा तु बहुकल्याणमुक्तवन्तं नराधिपम्
उशीनरं द्विजश्रेष्ठो गालवः प्रत्यपूजयत्

५.११६.१८उशीनरं प्रतिग्राह्य गालवः प्रययौ वनम्
रेमे स तां समासाद्य कृतपुण्य इव श्रियम्

५.११६.१९कन्दरेषु च शैलानां नदीनां निर्झरेषु च
उद्यानेषु विचित्रेषु वनेषूपवनेषु च

५.११६.२०हर्म्येषु रमणीयेषु प्रासादशिखरेषु च
वातायनविमानेषु तथा गर्भगृहेषु च

५.११६.२१ततोऽस्य समये जज्ञे पुत्रो बालरविप्रभः
शिबिर्नाम्नाभिविख्यातो यः स पार्थिवसत्तमः

५.११६.२२उपस्थाय स तं विप्रो गालवः प्रतिगृह्य च
कन्यां प्रयातस्तां राजन्दृष्टवान्विनतात्मजम्