५.१३३.१पुत्र उवाच
५.१३३.२कृष्णायसस्येव च ते संहत्य हृदयं कृतम्
मम मातस्त्वकरुणे वैरप्रज्ञे ह्यमर्षणे
५.१३३.३अहो क्षत्रसमाचारो यत्र मामपरं यथा
ईदृशं वचनं ब्रूयाद्भवती पुत्रमेकजम्
५.१३३.४किं नु ते मामपश्यन्त्याः पृथिव्या अपि सर्वया
किमाभरणकृत्यं ते किं भोगैर्जीवितेन वा
५.१३३.५मातोवाच
५.१३३.६सर्वारम्भा हि विदुषां तात धर्मार्थकारणात्
तानेवाभिसमीक्ष्याहं संजय त्वामचूचुदम्
५.१३३.७स समीक्ष्यक्रमोपेतो मुख्यः कालोऽयमागतः
अस्मिंश्चेदागते काले कार्यं न प्रतिपद्यसे
असंभावितरूपस्त्वं सुनृशंसं करिष्यसि
५.१३३.८तं त्वामयशसा स्पृष्टं न ब्रूयां यदि संजय
खरीवात्सल्यमाहुस्तन्निःसामर्थ्यमहेतुकम्
५.१३३.९सद्भिर्विगर्हितं मार्गं त्यज मूर्खनिषेवितम्
अविद्या वै महत्यस्ति यामिमां संश्रिताः प्रजाः
५.१३३.१०तव स्याद्यदि सद्वृत्तं तेन मे त्वं प्रियो भवेः
धर्मार्थगुणयुक्तेन नेतरेण कथंचन
दैवमानुषयुक्तेन सद्भिराचरितेन च
५.१३३.११यो ह्येवमविनीतेन रमते पुत्रनप्तृणा
अनुत्थानवता चापि मोघं तस्य प्रजाफलम्
५.१३३.१२अकुर्वन्तो हि कर्माणि कुर्वन्तो निन्दितानि च
सुखं नैवेह नामुत्र लभन्ते पुरुषाधमाः
५.१३३.१३युद्धाय क्षत्रियः सृष्टः संजयेह जयाय च
क्रूराय कर्मणे नित्यं प्रजानां परिपालने
जयन्वा वध्यमानो वा प्राप्नोतीन्द्रसलोकताम्
५.१३३.१४न शक्रभवने पुण्ये दिवि तद्विद्यते सुखम्
यदमित्रान्वशे कृत्वा क्षत्रियः सुखमश्नुते
५.१३३.१५मन्युना दह्यमानेन पुरुषेण मनस्विना
निकृतेनेह बहुशः शत्रून्प्रतिजिगीषया
५.१३३.१६आत्मानं वा परित्यज्य शत्रून्वा विनिपात्य वै
अतोऽन्येन प्रकारेण शान्तिरस्य कुतो भवेत्
५.१३३.१७इह प्राज्ञो हि पुरुषः स्वल्पमप्रियमिच्छति
यस्य स्वल्पं प्रियं लोके ध्रुवं तस्याल्पमप्रियम्
५.१३३.१८प्रियाभावाच्च पुरुषो नैव प्राप्नोति शोभनम्
ध्रुवं चाभावमभ्येति गत्वा गङ्गेव सागरम्
५.१३३.१९पुत्र उवाच
५.१३३.२०नेयं मतिस्त्वया वाच्या मातः पुत्रे विशेषतः
कारुण्यमेवात्र पश्य भूत्वेह जडमूकवत्
५.१३३.२१मातोवाच
५.१३३.२२अतो मे भूयसी नन्दिर्यदेवमनुपश्यसि
चोद्यं मां चोदयस्येतद्भृशं वै चोदयामि ते
५.१३३.२३अथ त्वां पूजयिष्यामि हत्वा वै सर्वसैन्धवान्
अहं पश्यामि विजयं कृत्स्नं भाविनमेव ते
५.१३३.२४पुत्र उवाच
५.१३३.२५अकोशस्यासहायस्य कुतः स्विद्विजयो मम
इत्यवस्थां विदित्वेमामात्मनात्मनि दारुणाम्
राज्याद्भावो निवृत्तो मे त्रिदिवादिव दुष्कृतेः
५.१३३.२६ईदृशं भवती कंचिदुपायमनुपश्यति
तन्मे परिणतप्रज्ञे सम्यक्प्रब्रूहि पृच्छते
करिष्यामि हि तत्सर्वं यथावदनुशासनम्
५.१३३.२७मातोवाच
५.१३३.२८पुत्रात्मा नावमन्तव्यः पूर्वाभिरसमृद्धिभिः
अभूत्वा हि भवन्त्यर्था भूत्वा नश्यन्ति चापरे
५.१३३.२९अमर्षेणैव चाप्यर्था नारब्धव्याः सुबालिशैः
सर्वेषां कर्मणां तात फले नित्यमनित्यता
५.१३३.३०अनित्यमिति जानन्तो न भवन्ति भवन्ति च
अथ ये नैव कुर्वन्ति नैव जातु भवन्ति ते
५.१३३.३१ऐकगुण्यमनीहायामभावः कर्मणां फलम्
अथ द्वैगुण्यमीहायां फलं भवति वा न वा
५.१३३.३२यस्य प्रागेव विदिता सर्वार्थानामनित्यता
नुदेद्वृद्धिसमृद्धी स प्रतिकूले नृपात्मज
५.१३३.३३उत्थातव्यं जागृतव्यं योक्तव्यं भूतिकर्मसु
भविष्यतीत्येव मनः कृत्वा सततमव्यथैः
मङ्गलानि पुरस्कृत्य ब्राह्मणैश्चेश्वरैः सह
५.१३३.३४प्राज्ञस्य नृपतेराशु वृद्धिर्भवति पुत्रक
अभिवर्तति लक्ष्मीस्तं प्राचीमिव दिवाकरः
५.१३३.३५निदर्शनान्युपायांश्च बहून्युद्धर्षणानि च
अनुदर्शितरूपोऽसि पश्यामि कुरु पौरुषम्
पुरुषार्थमभिप्रेतं समाहर्तुमिहार्हसि
५.१३३.३६क्रुद्धाँल्लुब्धान्परिक्षीणानवक्षिप्तान्विमानितान्
स्पर्धिनश्चैव ये केचित्तान्युक्त उपधारय
५.१३३.३७एतेन त्वं प्रकारेण महतो भेत्स्यसे गणान्
महावेग इवोद्धूतो मातरिश्वा बलाहकान्
५.१३३.३८तेषामग्रप्रदायी स्याः कल्योत्थायी प्रियंवदः
ते त्वां प्रियं करिष्यन्ति पुरो धास्यन्ति च ध्रुवम्
५.१३३.३९यदैव शत्रुर्जानीयात्सपत्नं त्यक्तजीवितम्
तदैवास्मादुद्विजते सर्पाद्वेश्मगतादिव
५.१३३.४०तं विदित्वा पराक्रान्तं वशे न कुरुते यदि
निर्वादैर्निर्वदेदेनमन्ततस्तद्भविष्यति
५.१३३.४१निर्वादादास्पदं लब्ध्वा धनवृद्धिर्भविष्यति
धनवन्तं हि मित्राणि भजन्ते चाश्रयन्ति च
५.१३३.४२स्खलितार्थं पुनस्तात संत्यजन्त्यपि बान्धवाः
अप्यस्मिन्नाश्रयन्ते च जुगुप्सन्ति च तादृशम्
५.१३३.४३शत्रुं कृत्वा यः सहायं विश्वासमुपगच्छति
अतः संभाव्यमेवैतद्यद्राज्यं प्राप्नुयादिति