५.१३४.१मातोवाच
५.१३४.२नैव राज्ञा दरः कार्यो जातु कस्यांचिदापदि
अथ चेदपि दीर्णः स्यान्नैव वर्तेत दीर्णवत्
५.१३४.३दीर्णं हि दृष्ट्वा राजानं सर्वमेवानुदीर्यते
राष्ट्रं बलममात्याश्च पृथक्कुर्वन्ति ते मतिम्
५.१३४.४शत्रूनेके प्रपद्यन्ते प्रजहत्यपरे पुनः
अन्वेके प्रजिहीर्षन्ति ये पुरस्ताद्विमानिताः
५.१३४.५य एवात्यन्तसुहृदस्त एनं पर्युपासते
अशक्तयः स्वस्तिकामा बद्धवत्सा इडा इव
शोचन्तमनुशोचन्ति प्रतीतानिव बान्धवान्
५.१३४.६अपि ते पूजिताः पूर्वमपि ते सुहृदो मताः
ये राष्ट्रमभिमन्यन्ते राज्ञो व्यसनमीयुषः
मा दीदरस्त्वं सुहृदो मा त्वां दीर्णं प्रहासिषुः
५.१३४.७प्रभावं पौरुषं बुद्धिं जिज्ञासन्त्या मया तव
उल्लपन्त्या समाश्वासं बलवानिव दुर्बलम्
५.१३४.८यद्येतत्संविजानासि यदि सम्यग्ब्रवीम्यहम्
कृत्वासौम्यमिवात्मानं जयायोत्तिष्ठ संजय
५.१३४.९अस्ति नः कोशनिचयो महानविदितस्तव
तमहं वेद नान्यस्तमुपसंपादयामि ते
५.१३४.१०सन्ति नैकशता भूयः सुहृदस्तव संजय
सुखदुःखसहा वीर शतार्हा अनिवर्तिनः
५.१३४.११तादृशा हि सहाया वै पुरुषस्य बुभूषतः
ईषदुज्जिहतः किंचित्सचिवाः शत्रुकर्शनाः
५.१३४.१२पुत्र उवाच
५.१३४.१३कस्य त्वीदृशकं वाक्यं श्रुत्वापि स्वल्पचेतसः
तमो न व्यपहन्येत सुचित्रार्थपदाक्षरम्
५.१३४.१४उदके धूरियं धार्या सर्तव्यं प्रवणे मया
यस्य मे भवती नेत्री भविष्यद्भूतदर्शिनी
५.१३४.१५अहं हि वचनं त्वत्तः शुश्रूषुरपरापरम्
किंचित्किंचित्प्रतिवदंस्तूष्णीमासं मुहुर्मुहुः
५.१३४.१६अतृप्यन्नमृतस्येव कृच्छ्राल्लब्धस्य बान्धवात्
उद्यच्छाम्येष शत्रूणां नियमाय जयाय च
५.१३४.१७कुन्त्युवाच
५.१३४.१८सदश्व इव स क्षिप्तः प्रणुन्नो वाक्यसायकैः
तच्चकार तथा सर्वं यथावदनुशासनम्
५.१३४.१९इदमुद्धर्षणं भीमं तेजोवर्धनमुत्तमम्
राजानं श्रावयेन्मन्त्री सीदन्तं शत्रुपीडितम्
५.१३४.२०जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा
महीं विजयते क्षिप्रं श्रुत्वा शत्रूंश्च मर्दति
५.१३४.२१इदं पुंसवनं चैव वीराजननमेव च
अभीक्ष्णं गर्भिणी श्रुत्वा ध्रुवं वीरं प्रजायते
५.१३४.२२विद्याशूरं तपःशूरं दमशूरं तपस्विनम्
ब्राह्म्या श्रिया दीप्यमानं साधुवादेन संमतम्
५.१३४.२३अर्चिष्मन्तं बलोपेतं महाभागं महारथम्
धृष्टवन्तमनाधृष्यं जेतारमपराजितम्
५.१३४.२४नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम्
तदर्थं क्षत्रिया सूते वीरं सत्यपराक्रमम्