५.१३५.१कुन्त्युवाच
५.१३५.२अर्जुनं केशव ब्रूयास्त्वयि जाते स्म सूतके
उपोपविष्टा नारीभिराश्रमे परिवारिता
५.१३५.३अथान्तरिक्षे वागासीद्दिव्यरूपा मनोरमा
सहस्राक्षसमः कुन्ति भविष्यत्येष ते सुतः
५.१३५.४एष जेष्यति संग्रामे कुरून्सर्वान्समागतान्
भीमसेनद्वितीयश्च लोकमुद्वर्तयिष्यति
५.१३५.५पुत्रस्ते पृथिवीं जेता यशश्चास्य दिवस्पृशम्
हत्वा कुरून्ग्रामजन्ये वासुदेवसहायवान्
५.१३५.६पित्र्यमंशं प्रनष्टं च पुनरप्युद्धरिष्यति
भ्रातृभिः सहितः श्रीमांस्त्रीन्मेधानाहरिष्यति
५.१३५.७तं सत्यसंधं बीभत्सुं सव्यसाचिनमच्युत
यथाहमेवं जानामि बलवन्तं दुरासदम्
तथा तदस्तु दाशार्ह यथा वागभ्यभाषत
५.१३५.८धर्मश्चेदस्ति वार्ष्णेय तथा सत्यं भविष्यति
त्वं चापि तत्तथा कृष्ण सर्वं संपादयिष्यसि
५.१३५.९नाहं तदभ्यसूयामि यथा वागभ्यभाषत
नमो धर्माय महते धर्मो धारयति प्रजाः
५.१३५.१०एतद्धनंजयो वाच्यो नित्योद्युक्तो वृकोदरः
यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः
न हि वैरं समासाद्य सीदन्ति पुरुषर्षभाः
५.१३५.११विदिता ते सदा बुद्धिर्भीमस्य न स शाम्यति
यावदन्तं न कुरुते शत्रूणां शत्रुकर्शनः
५.१३५.१२सर्वधर्मविशेषज्ञां स्नुषां पाण्डोर्महात्मनः
ब्रूया माधव कल्याणीं कृष्णां कृष्ण यशस्विनीम्
५.१३५.१३युक्तमेतन्महाभागे कुले जाते यशस्विनि
यन्मे पुत्रेषु सर्वेषु यथावत्त्वमवर्तिथाः
५.१३५.१४माद्रीपुत्रौ च वक्तव्यौ क्षत्रधर्मरतावुभौ
विक्रमेणार्जितान्भोगान्वृणीतं जीवितादपि
५.१३५.१५विक्रमाधिगता ह्यर्थाः क्षत्रधर्मेण जीवतः
मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम
५.१३५.१६यच्च वः प्रेक्षमाणानां सर्वधर्मोपचायिनी
पाञ्चाली परुषाण्युक्ता को नु तत्क्षन्तुमर्हति
५.१३५.१७न राज्यहरणं दुःखं द्यूते चापि पराजयः
प्रव्राजनं सुतानां वा न मे तद्दुःखकारणम्
५.१३५.१८यत्तु सा बृहती श्यामा सभायां रुदती तदा
अश्रौषीत्परुषा वाचस्तन्मे दुःखतरं मतम्
५.१३५.१९स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा
नाध्यगच्छत्तदा नाथं कृष्णा नाथवती सती
५.१३५.२०तं वै ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम्
अर्जुनं पुरुषव्याघ्रं द्रौपद्याः पदवीं चर
५.१३५.२१विदितौ हि तवात्यन्तं क्रुद्धाविव यमान्तकौ
भीमार्जुनौ नयेतां हि देवानपि परां गतिम्
५.१३५.२२तयोश्चैतदवज्ञानं यत्सा कृष्णा सभागता
दुःशासनश्च यद्भीमं कटुकान्यभ्यभाषत
पश्यतां कुरुवीराणां तच्च संस्मारयेः पुनः
५.१३५.२३पाण्डवान्कुशलं पृच्छेः सपुत्रान्कृष्णया सह
मां च कुशलिनीं ब्रूयास्तेषु भूयो जनार्दन
अरिष्टं गच्छ पन्थानं पुत्रान्मे परिपालय
५.१३५.२४वैशंपायन उवाच
५.१३५.२५अभिवाद्याथ तां कृष्णः कृत्वा चाभिप्रदक्षिणम्
निश्चक्राम महाबाहुः सिंहखेलगतिस्ततः
५.१३५.२६ततो विसर्जयामास भीष्मादीन्कुरुपुंगवान्
आरोप्य च रथे कर्णं प्रायात्सात्यकिना सह
५.१३५.२७ततः प्रयाते दाशार्हे कुरवः संगता मिथः
जजल्पुर्महदाश्चर्यं केशवे परमाद्भुतम्
५.१३५.२८प्रमूढा पृथिवी सर्वा मृत्युपाशसिता कृता
दुर्योधनस्य बालिश्यान्नैतदस्तीति चाब्रुवन्
५.१३५.२९ततो निर्याय नगरात्प्रययौ पुरुषोत्तमः
मन्त्रयामास च तदा कर्णेन सुचिरं सह
५.१३५.३०विसर्जयित्वा राधेयं सर्वयादवनन्दनः
ततो जवेन महता तूर्णमश्वानचोदयत्
५.१३५.३१ते पिबन्त इवाकाशं दारुकेण प्रचोदिताः
हया जग्मुर्महावेगा मनोमारुतरंहसः
५.१३५.३२ते व्यतीत्य तमध्वानं क्षिप्रं श्येना इवाशुगाः
उच्चैः सूर्यमुपप्लव्यं शार्ङ्गधन्वानमावहन्