५. उद्योगपर्व
५.१३६.१वैशंपायन उवाच

५.१३६.२कुन्त्यास्तु वचनं श्रुत्वा भीष्मद्रोणौ महारथौ
दुर्योधनमिदं वाक्यमूचतुः शासनातिगम्

५.१३६.३श्रुतं ते पुरुषव्याघ्र कुन्त्याः कृष्णस्य संनिधौ
वाक्यमर्थवदव्यग्रमुक्तं धर्म्यमनुत्तमम्

५.१३६.४तत्करिष्यन्ति कौन्तेया वासुदेवस्य संमतम्
न हि ते जातु शाम्येरन्नृते राज्येन कौरव

५.१३६.५क्लेशिता हि त्वया पार्था धर्मपाशसितास्तदा
सभायां द्रौपदी चैव तैश्च तन्मर्षितं तव

५.१३६.६कृतास्त्रं ह्यर्जुनं प्राप्य भीमं च कृतनिश्रमम्
गाण्डीवं चेषुधी चैव रथं च ध्वजमेव च
सहायं वासुदेवं च न क्षंस्यति युधिष्ठिरः

५.१३६.७प्रत्यक्षं ते महाबाहो यथा पार्थेन धीमता
विराटनगरे पूर्वं सर्वे स्म युधि निर्जिताः

५.१३६.८दानवान्घोरकर्माणो निवातकवचान्युधि
रौद्रमस्त्रं समाधाय दग्धवानस्त्रवह्निना

५.१३६.९कर्णप्रभृतयश्चेमे त्वं चापि कवची रथी
मोक्षिता घोषयात्रायां पर्याप्तं तन्निदर्शनम्

५.१३६.१०प्रशाम्य भरतश्रेष्ठ भ्रातृभिः सह पाण्डवैः
रक्षेमां पृथिवीं सर्वां मृत्योर्दंष्ट्रान्तरं गताम्

५.१३६.११ज्येष्ठो भ्राता धर्मशीलो वत्सलः श्लक्ष्णवाक्शुचिः
तं गच्छ पुरुषव्याघ्रं व्यपनीयेह किल्बिषम्

५.१३६.१२दृष्टश्चेत्त्वं पाण्डवेन व्यपनीतशरासनः
प्रसन्नभ्रुकुटिः श्रीमान्कृता शान्तिः कुलस्य नः

५.१३६.१३तमभ्येत्य सहामात्यः परिष्वज्य नृपात्मजम्
अभिवादय राजानं यथापूर्वमरिंदम

५.१३६.१४अभिवादयमानं त्वां पाणिभ्यां भीमपूर्वजः
प्रतिगृह्णातु सौहार्दात्कुन्तीपुत्रो युधिष्ठिरः

५.१३६.१५सिंहस्कन्धोरुबाहुस्त्वां वृत्तायतमहाभुजः
परिष्वजतु बाहुभ्यां भीमः प्रहरतां वरः

५.१३६.१६सिंहग्रीवो गुडाकेशस्ततस्त्वां पुष्करेक्षणः
अभिवादयतां पार्थः कुन्तीपुत्रो धनंजयः

५.१३६.१७आश्विनेयौ नरव्याघ्रौ रूपेणाप्रतिमौ भुवि
तौ च त्वां गुरुवत्प्रेम्णा पूजया प्रत्युदीयताम्

५.१३६.१८मुञ्चन्त्वानन्दजाश्रूणि दाशार्हप्रमुखा नृपाः
संगच्छ भ्रातृभिः सार्धं मानं संत्यज्य पार्थिव

५.१३६.१९प्रशाधि पृथिवीं कृत्स्नां ततस्तं भ्रातृभिः सह
समालिङ्ग्य च हर्षेण नृपा यान्तु परस्परम्

५.१३६.२०अलं युद्धेन राजेन्द्र सुहृदां शृणु कारणम्
ध्रुवं विनाशो युद्धे हि क्षत्रियाणां प्रदृश्यते

५.१३६.२१ज्योतींषि प्रतिकूलानि दारुणा मृगपक्षिणः
उत्पाता विविधा वीर दृश्यन्ते क्षत्रनाशनाः

५.१३६.२२विशेषत इहास्माकं निमित्तानि विनाशने
उल्काभिर्हि प्रदीप्ताभिर्वध्यते पृतना तव

५.१३६.२३वाहनान्यप्रहृष्टानि रुदन्तीव विशां पते
गृध्रास्ते पर्युपासन्ते सैन्यानि च समन्ततः

५.१३६.२४नगरं न यथापूर्वं तथा राजनिवेशनम्
शिवाश्चाशिवनिर्घोषा दीप्तां सेवन्ति वै दिशम्

५.१३६.२५कुरु वाक्यं पितुर्मातुरस्माकं च हितैषिणाम्
त्वय्यायत्तो महाबाहो शमो व्यायाम एव च

५.१३६.२६न चेत्करिष्यसि वचः सुहृदामरिकर्शन
तप्स्यसे वाहिनीं दृष्ट्वा पार्थबाणप्रपीडिताम्

५.१३६.२७भीमस्य च महानादं नदतः शुष्मिणो रणे
श्रुत्वा स्मर्तासि मे वाक्यं गाण्डीवस्य च निस्वनम्
यद्येतदपसव्यं ते भविष्यति वचो मम