५.१४६.१वासुदेव उवाच
५.१४६.२भीष्मेणोक्ते ततो द्रोणो दुर्योधनमभाषत
मध्ये नृपाणां भद्रं ते वचनं वचनक्षमः
५.१४६.३प्रातीपः शंतनुस्तात कुलस्यार्थे यथोत्थितः
तथा देवव्रतो भीष्मः कुलस्यार्थे स्थितोऽभवत्
५.१४६.४ततः पाण्डुर्नरपतिः सत्यसंधो जितेन्द्रियः
राजा कुरूणां धर्मात्मा सुव्रतः सुसमाहितः
५.१४६.५ज्येष्ठाय राज्यमददाद्धृतराष्ट्राय धीमते
यवीयसस्तथा क्षत्तुः कुरुवंशविवर्धनः
५.१४६.६ततः सिंहासने राजन्स्थापयित्वैनमच्युतम्
वनं जगाम कौरव्यो भार्याभ्यां सहितोऽनघ
५.१४६.७नीचैः स्थित्वा तु विदुर उपास्ते स्म विनीतवत्
प्रेष्यवत्पुरुषव्याघ्रो वालव्यजनमुत्क्षिपन्
५.१४६.८ततः सर्वाः प्रजास्तात धृतराष्ट्रं जनेश्वरम्
अन्वपद्यन्त विधिवद्यथा पाण्डुं नराधिपम्
५.१४६.९विसृज्य धृतराष्ट्राय राज्यं स विदुराय च
चचार पृथिवीं पाण्डुः सर्वां परपुरंजयः
५.१४६.१०कोशसंजनने दाने भृत्यानां चान्ववेक्षणे
भरणे चैव सर्वस्य विदुरः सत्यसंगरः
५.१४६.११संधिविग्रहसंयुक्तो राज्ञः संवाहनक्रियाः
अवैक्षत महातेजा भीष्मः परपुरंजयः
५.१४६.१२सिंहासनस्थो नृपतिर्धृतराष्ट्रो महाबलः
अन्वास्यमानः सततं विदुरेण महात्मना
५.१४६.१३कथं तस्य कुले जातः कुलभेदं व्यवस्यसि
संभूय भ्रातृभिः सार्धं भुङ्क्ष्व भोगाञ्जनाधिप
५.१४६.१४ब्रवीम्यहं न कार्पण्यान्नार्थहेतोः कथंचन
भीष्मेण दत्तमश्नामि न त्वया राजसत्तम
५.१४६.१५नाहं त्वत्तोऽभिकाङ्क्षिष्ये वृत्त्युपायं जनाधिप
यतो भीष्मस्ततो द्रोणो यद्भीष्मस्त्वाह तत्कुरु
५.१४६.१६दीयतां पाण्डुपुत्रेभ्यो राज्यार्धमरिकर्शन
सममाचार्यकं तात तव तेषां च मे सदा
५.१४६.१७अश्वत्थामा यथा मह्यं तथा श्वेतहयो मम
बहुना किं प्रलापेन यतो धर्मस्ततो जयः
५.१४६.१८एवमुक्ते महाराज द्रोणेनामिततेजसा
व्याजहार ततो वाक्यं विदुरः सत्यसंगरः
पितुर्वदनमन्वीक्ष्य परिवृत्य च धर्मवित्
५.१४६.१९देवव्रत निबोधेदं वचनं मम भाषतः
प्रनष्टः कौरवो वंशस्त्वयायं पुनरुद्धृतः
५.१४६.२०तन्मे विलपमानस्य वचनं समुपेक्षसे
कोऽयं दुर्योधनो नाम कुलेऽस्मिन्कुलपांसनः
५.१४६.२१यस्य लोभाभिभूतस्य मतिं समनुवर्तसे
अनार्यस्याकृतज्ञस्य लोभोपहतचेतसः
अतिक्रामति यः शास्त्रं पितुर्धर्मार्थदर्शिनः
५.१४६.२२एते नश्यन्ति कुरवो दुर्योधनकृतेन वै
यथा ते न प्रणश्येयुर्महाराज तथा कुरु
५.१४६.२३मां चैव धृतराष्ट्रं च पूर्वमेव महाद्युते
चित्रकार इवालेख्यं कृत्वा मा स्म विनाशय
प्रजापतिः प्रजाः सृष्ट्वा यथा संहरते तथा
५.१४६.२४नोपेक्षस्व महाबाहो पश्यमानः कुलक्षयम्
अथ तेऽद्य मतिर्नष्टा विनाशे प्रत्युपस्थिते
वनं गच्छ मया सार्धं धृतराष्ट्रेण चैव ह
५.१४६.२५बद्ध्वा वा निकृतिप्रज्ञं धार्तराष्ट्रं सुदुर्मतिम्
साध्विदं राज्यमद्यास्तु पाण्डवैरभिरक्षितम्
५.१४६.२६प्रसीद राजशार्दूल विनाशो दृश्यते महान्
पाण्डवानां कुरूणां च राज्ञां चामिततेजसाम्
५.१४६.२७विररामैवमुक्त्वा तु विदुरो दीनमानसः
प्रध्यायमानः स तदा निःश्वसंश्च पुनः पुनः
५.१४६.२८ततोऽथ राज्ञः सुबलस्य पुत्री; धर्मार्थयुक्तं कुलनाशभीता
दुर्योधनं पापमतिं नृशंसं; राज्ञां समक्षं सुतमाह कोपात्
५.१४६.२९ये पार्थिवा राजसभां प्रविष्टा; ब्रह्मर्षयो ये च सभासदोऽन्ये
शृण्वन्तु वक्ष्यामि तवापराधं; पापस्य सामात्यपरिच्छदस्य
५.१४६.३०राज्यं कुरूणामनुपूर्वभोग्यं; क्रमागतो नः कुलधर्म एषः
त्वं पापबुद्धेऽतिनृशंसकर्म;न्राज्यं कुरूणामनयाद्विहंसि
५.१४६.३१राज्ये स्थितो धृतराष्ट्रो मनीषी; तस्यानुजो विदुरो दीर्घदर्शी
एतावतिक्रम्य कथं नृपत्वं; दुर्योधन प्रार्थयसेऽद्य मोहात्
५.१४६.३२राजा च क्षत्ता च महानुभावौ; भीष्मे स्थिते परवन्तौ भवेताम्
अयं तु धर्मज्ञतया महात्मा; न राज्यकामो नृवरो नदीजः
५.१४६.३३राज्यं तु पाण्डोरिदमप्रधृष्यं; तस्याद्य पुत्राः प्रभवन्ति नान्ये
राज्यं तदेतन्निखिलं पाण्डवानां; पैतामहं पुत्रपौत्रानुगामि
५.१४६.३४यद्वै ब्रूते कुरुमुख्यो महात्मा; देवव्रतः सत्यसंधो मनीषी
सर्वं तदस्माभिरहत्य धर्मं; ग्राह्यं स्वधर्मं परिपालयद्भिः
५.१४६.३५अनुज्ञया चाथ महाव्रतस्य; ब्रूयान्नृपो यद्विदुरस्तथैव
कार्यं भवेत्तत्सुहृद्भिर्नियुज्य; धर्मं पुरस्कृत्य सुदीर्घकालम्
५.१४६.३६न्यायागतं राज्यमिदं कुरूणां; युधिष्ठिरः शास्तु वै धर्मपुत्रः
प्रचोदितो धृतराष्ट्रेण राज्ञा; पुरस्कृतः शांतनवेन चैव