५.१५२.१वैशंपायन उवाच
५.१५२.२व्युषितायां रजन्यां तु राजा दुर्योधनस्ततः
व्यभजत्तान्यनीकानि दश चैकं च भारत
५.१५२.३नरहस्तिरथाश्वानां सारं मध्यं च फल्गु च
सर्वेष्वेतेष्वनीकेषु संदिदेश महीपतिः
५.१५२.४सानुकर्षाः सतूणीराः सवरूथाः सतोमराः
सोपासङ्गाः सशक्तीकाः सनिषङ्गाः सपोथिकाः
५.१५२.५सध्वजाः सपताकाश्च सशरासनतोमराः
रज्जुभिश्च विचित्राभिः सपाशाः सपरिस्तराः
५.१५२.६सकचग्रहविक्षेपाः सतैलगुडवालुकाः
साशीविषघटाः सर्वे ससर्जरसपांसवः
५.१५२.७सघण्टाफलकाः सर्वे वासीवृक्षादनान्विताः
व्याघ्रचर्मपरीवारा वृताश्च द्वीपिचर्मभिः
५.१५२.८सवस्तयः सशृङ्गाश्च सप्रासविविधायुधाः
सकुठाराः सकुद्दालाः सतैलक्षौमसर्पिषः
५.१५२.९चित्रानीकाः सुवपुषो ज्वलिता इव पावकाः
तथा कवचिनः शूराः शस्त्रेषु कृतनिश्रमाः
५.१५२.१०कुलीना हययोनिज्ञाः सारथ्ये विनिवेशिताः
बद्धारिष्टा बद्धकक्ष्या बद्धध्वजपताकिनः
५.१५२.११चतुर्युजो रथाः सर्वे सर्वे शस्त्रसमायुताः
संहृष्टवाहनाः सर्वे सर्वे शतशरासनाः
५.१५२.१२धुर्ययोर्हययोरेकस्तथान्यौ पार्ष्णिसारथी
तौ चापि रथिनां श्रेष्ठौ रथी च हयवित्तथा
५.१५२.१३नगराणीव गुप्तानि दुरादेयानि शत्रुभिः
आसन्रथसहस्राणि हेममालीनि सर्वशः
५.१५२.१४यथा रथास्तथा नागा बद्धकक्ष्याः स्वलंकृताः
बभूवुः सप्त पुरुषा रत्नवन्त इवाद्रयः
५.१५२.१५द्वावङ्कुशधरौ तेषु द्वावुत्तमधनुर्धरौ
द्वौ वरासिधरौ राजन्नेकः शक्तिपताकधृक्
५.१५२.१६गजैर्मत्तैः समाकीर्णं सवर्मायुधकोशकैः
तद्बभूव बलं राजन्कौरव्यस्य सहस्रशः
५.१५२.१७विचित्रकवचामुक्तैः सपताकैः स्वलंकृतैः
सादिभिश्चोपसंपन्ना आसन्नयुतशो हयाः
५.१५२.१८सुसंग्राहाः सुसंतोषा हेमभाण्डपरिच्छदाः
अनेकशतसाहस्रास्ते च सादिवशे स्थिताः
५.१५२.१९नानारूपविकाराश्च नानाकवचशस्त्रिणः
पदातिनो नरास्तत्र बभूवुर्हेममालिनः
५.१५२.२०रथस्यासन्दश गजा गजस्य दश वाजिनः
नरा दश हयस्यासन्पादरक्षाः समन्ततः
५.१५२.२१रथस्य नागाः पञ्चाशन्नागस्यासञ्शतं हयाः
हयस्य पुरुषाः सप्त भिन्नसंधानकारिणः
५.१५२.२२सेना पञ्चशतं नागा रथास्तावन्त एव च
दशसेना च पृतना पृतना दशवाहिनी
५.१५२.२३वाहिनी पृतना सेना ध्वजिनी सादिनी चमूः
अक्षौहिणीति पर्यायैर्निरुक्ताथ वरूथिनी
एवं व्यूढान्यनीकानि कौरवेयेण धीमता
५.१५२.२४अक्षौहिण्यो दशैका च संख्याताः सप्त चैव ह
अक्षौहिण्यस्तु सप्तैव पाण्डवानामभूद्बलम्
अक्षौहिण्यो दशैका च कौरवाणामभूद्बलम्
५.१५२.२५नराणां पञ्चपञ्चाशदेषा पत्तिर्विधीयते
सेनामुखं च तिस्रस्ता गुल्म इत्यभिसंज्ञितः
५.१५२.२६दश गुल्मा गणस्त्वासीद्गणास्त्वयुतशोऽभवन्
दुर्योधनस्य सेनासु योत्स्यमानाः प्रहारिणः
५.१५२.२७तत्र दुर्योधनो राजा शूरान्बुद्धिमतो नरान्
प्रसमीक्ष्य महाबाहुश्चक्रे सेनापतींस्तदा
५.१५२.२८पृथगक्षौहिणीनां च प्रणेतॄन्नरसत्तमान्
विधिपूर्वं समानीय पार्थिवानभ्यषेचयत्
५.१५२.२९कृपं द्रोणं च शल्यं च सैन्धवं च महारथम्
सुदक्षिणं च काम्बोजं कृतवर्माणमेव च
५.१५२.३०द्रोणपुत्रं च कर्णं च भूरिश्रवसमेव च
शकुनिं सौबलं चैव बाह्लीकं च महारथम्
५.१५२.३१दिवसे दिवसे तेषां प्रतिवेलं च भारत
चक्रे स विविधाः संज्ञाः प्रत्यक्षं च पुनः पुनः
५.१५२.३२तथा विनियताः सर्वे ये च तेषां पदानुगाः
बभूवुः सैनिका राजन्राज्ञः प्रियचिकीर्षवः