५. उद्योगपर्व
५.१५३.१वैशंपायन उवाच

५.१५३.२ततः शांतनवं भीष्मं प्राञ्जलिर्धृतराष्ट्रजः
सह सर्वैर्महीपालैरिदं वचनमब्रवीत्

५.१५३.३ऋते सेनाप्रणेतारं पृतना सुमहत्यपि
दीर्यते युद्धमासाद्य पिपीलिकपुटं यथा

५.१५३.४न हि जातु द्वयोर्बुद्धिः समा भवति कर्हिचित्
शौर्यं च नाम नेतॄणां स्पर्धते च परस्परम्

५.१५३.५श्रूयते च महाप्राज्ञ हैहयानमितौजसः
अभ्ययुर्ब्राह्मणाः सर्वे समुच्छ्रितकुशध्वजाः

५.१५३.६तानन्वयुस्तदा वैश्याः शूद्राश्चैव पितामह
एकतस्तु त्रयो वर्णा एकतः क्षत्रियर्षभाः

५.१५३.७ते स्म युद्धेष्वभज्यन्त त्रयो वर्णाः पुनः पुनः
क्षत्रियास्तु जयन्त्येव बहुलं चैकतो बलम्

५.१५३.८ततस्ते क्षत्रियानेव पप्रच्छुर्द्विजसत्तमाः
तेभ्यः शशंसुर्धर्मज्ञा याथातथ्यं पितामह

५.१५३.९वयमेकस्य शृणुमो महाबुद्धिमतो रणे
भवन्तस्तु पृथक्सर्वे स्वबुद्धिवशवर्तिनः

५.१५३.१०ततस्ते ब्राह्मणाश्चक्रुरेकं सेनापतिं द्विजम्
नयेषु कुशलं शूरमजयन्क्षत्रियांस्ततः

५.१५३.११एवं ये कुशलं शूरं हिते स्थितमकल्मषम्
सेनापतिं प्रकुर्वन्ति ते जयन्ति रणे रिपून्

५.१५३.१२भवानुशनसा तुल्यो हितैषी च सदा मम
असंहार्यः स्थितो धर्मे स नः सेनापतिर्भव

५.१५३.१३रश्मीवतामिवादित्यो वीरुधामिव चन्द्रमाः
कुबेर इव यक्षाणां मरुतामिव वासवः

५.१५३.१४पर्वतानां यथा मेरुः सुपर्णः पततामिव
कुमार इव भूतानां वसूनामिव हव्यवाट्

५.१५३.१५भवता हि वयं गुप्ताः शक्रेणेव दिवौकसः
अनाधृष्या भविष्यामस्त्रिदशानामपि ध्रुवम्

५.१५३.१६प्रयातु नो भवानग्रे देवानामिव पावकिः
वयं त्वामनुयास्यामः सौरभेया इवर्षभम्

५.१५३.१७भीष्म उवाच

५.१५३.१८एवमेतन्महाबाहो यथा वदसि भारत
यथैव हि भवन्तो मे तथैव मम पाण्डवाः

५.१५३.१९अपि चैव मया श्रेयो वाच्यं तेषां नराधिप
योद्धव्यं तु तवार्थाय यथा स समयः कृतः

५.१५३.२०न तु पश्यामि योद्धारमात्मनः सदृशं भुवि
ऋते तस्मान्नरव्याघ्रात्कुन्तीपुत्राद्धनंजयात्

५.१५३.२१स हि वेद महाबाहुर्दिव्यान्यस्त्राणि सर्वशः
न तु मां विवृतो युद्धे जातु युध्येत पाण्डवः

५.१५३.२२अहं स च क्षणेनैव निर्मनुष्यमिदं जगत्
कुर्यां शस्त्रबलेनैव ससुरासुरराक्षसम्

५.१५३.२३न त्वेवोत्सादनीया मे पाण्डोः पुत्रा नराधिप
तस्माद्योधान्हनिष्यामि प्रयोगेणायुतं सदा

५.१५३.२४एवमेषां करिष्यामि निधनं कुरुनन्दन
न चेत्ते मां हनिष्यन्ति पूर्वमेव समागमे

५.१५३.२५सेनापतिस्त्वहं राजन्समयेनापरेण ते
भविष्यामि यथाकामं तन्मे श्रोतुमिहार्हसि

५.१५३.२६कर्णो वा युध्यतां पूर्वमहं वा पृथिवीपते
स्पर्धते हि सदात्यर्थं सूतपुत्रो मया रणे

५.१५३.२७कर्ण उवाच

५.१५३.२८नाहं जीवति गाङ्गेये योत्स्ये राजन्कथंचन
हते भीष्मे तु योत्स्यामि सह गाण्डीवधन्वना

५.१५३.२९वैशंपायन उवाच

५.१५३.३०ततः सेनापतिं चक्रे विधिवद्भूरिदक्षिणम्
धृतराष्ट्रात्मजो भीष्मं सोऽभिषिक्तो व्यरोचत

५.१५३.३१ततो भेरीश्च शङ्खांश्च शतशश्चैव पुष्करान्
वादयामासुरव्यग्राः पुरुषा राजशासनात्

५.१५३.३२सिंहनादाश्च विविधा वाहनानां च निस्वनाः
प्रादुरासन्ननभ्रे च वर्षं रुधिरकर्दमम्

५.१५३.३३निर्घाताः पृथिवीकम्पा गजबृंहितनिस्वनाः
आसंश्च सर्वयोधानां पातयन्तो मनांस्युत

५.१५३.३४वाचश्चाप्यशरीरिण्यो दिवश्चोल्काः प्रपेदिरे
शिवाश्च भयवेदिन्यो नेदुर्दीप्तस्वरा भृशम्

५.१५३.३५सेनापत्ये यदा राजा गाङ्गेयमभिषिक्तवान्
तदैतान्युग्ररूपाणि अभवञ्शतशो नृप

५.१५३.३६ततः सेनापतिं कृत्वा भीष्मं परबलार्दनम्
वाचयित्वा द्विजश्रेष्ठान्निष्कैर्गोभिश्च भूरिशः

५.१५३.३७वर्धमानो जयाशीर्भिर्निर्ययौ सैनिकैर्वृतः
आपगेयं पुरस्कृत्य भ्रातृभिः सहितस्तदा
स्कन्धावारेण महता कुरुक्षेत्रं जगाम ह

५.१५३.३८परिक्रम्य कुरुक्षेत्रं कर्णेन सह कौरवः
शिबिरं मापयामास समे देशे नराधिपः

५.१५३.३९मधुरानूषरे देशे प्रभूतयवसेन्धने
यथैव हास्तिनपुरं तद्वच्छिबिरमाबभौ