५. उद्योगपर्व
५.१५५.१वैशंपायन उवाच

५.१५५.२एतस्मिन्नेव काले तु भीष्मकस्य महात्मनः
हिरण्यलोम्नो नृपतेः साक्षादिन्द्रसखस्य वै

५.१५५.३आहृतीनामधिपतेर्भोजस्यातियशस्विनः
दाक्षिणात्यपतेः पुत्रो दिक्षु रुक्मीति विश्रुतः

५.१५५.४यः किंपुरुषसिंहस्य गन्धमादनवासिनः
शिष्यः कृत्स्नं धनुर्वेदं चतुष्पादमवाप्तवान्

५.१५५.५यो माहेन्द्रं धनुर्लेभे तुल्यं गाण्डीवतेजसा
शार्ङ्गेण च महाबाहुः संमितं दिव्यमक्षयम्

५.१५५.६त्रीण्येवैतानि दिव्यानि धनूंषि दिविचारिणाम्
वारुणं गाण्डिवं तत्र माहेन्द्रं विजयं धनुः

५.१५५.७शार्ङ्गं तु वैष्णवं प्राहुर्दिव्यं तेजोमयं धनुः
धारयामास यत्कृष्णः परसेनाभयावहम्

५.१५५.८गाण्डीवं पावकाल्लेभे खाण्डवे पाकशासनिः
द्रुमाद्रुक्मी महातेजा विजयं प्रत्यपद्यत

५.१५५.९संछिद्य मौरवान्पाशान्निहत्य मुरमोजसा
निर्जित्य नरकं भौममाहृत्य मणिकुण्डले

५.१५५.१०षोडश स्त्रीसहस्राणि रत्नानि विविधानि च
प्रतिपेदे हृषीकेशः शार्ङ्गं च धनुरुत्तमम्

५.१५५.११रुक्मी तु विजयं लब्ध्वा धनुर्मेघसमस्वनम्
विभीषयन्निव जगत्पाण्डवानभ्यवर्तत

५.१५५.१२नामृष्यत पुरा योऽसौ स्वबाहुबलदर्पितः
रुक्मिण्या हरणं वीरो वासुदेवेन धीमता

५.१५५.१३कृत्वा प्रतिज्ञां नाहत्वा निवर्तिष्यामि केशवम्
ततोऽन्वधावद्वार्ष्णेयं सर्वशस्त्रभृतां वरम्

५.१५५.१४सेनया चतुरङ्गिण्या महत्या दूरपातया
विचित्रायुधवर्मिण्या गङ्गयेव प्रवृद्धया

५.१५५.१५स समासाद्य वार्ष्णेयं योगानामीश्वरं प्रभुम्
व्यंसितो व्रीडितो राजन्नाजगाम स कुण्डिनम्

५.१५५.१६यत्रैव कृष्णेन रणे निर्जितः परवीरहा
तत्र भोजकटं नाम चक्रे नगरमुत्तमम्

५.१५५.१७सैन्येन महता तेन प्रभूतगजवाजिना
पुरं तद्भुवि विख्यातं नाम्ना भोजकटं नृप

५.१५५.१८स भोजराजः सैन्येन महता परिवारितः
अक्षौहिण्या महावीर्यः पाण्डवान्समुपागमत्

५.१५५.१९ततः स कवची खड्गी शरी धन्वी तली रथी
ध्वजेनादित्यवर्णेन प्रविवेश महाचमूम्

५.१५५.२०विदितः पाण्डवेयानां वासुदेवप्रियेप्सया
युधिष्ठिरस्तु तं राजा प्रत्युद्गम्याभ्यपूजयत्

५.१५५.२१स पूजितः पाण्डुसुतैर्यथान्यायं सुसत्कृतः
प्रतिपूज्य च तान्सर्वान्विश्रान्तः सहसैनिकः
उवाच मध्ये वीराणां कुन्तीपुत्रं धनंजयम्

५.१५५.२२सहायोऽस्मि स्थितो युद्धे यदि भीतोऽसि पाण्डव
करिष्यामि रणे साह्यमसह्यं तव शत्रुभिः

५.१५५.२३न हि मे विक्रमे तुल्यः पुमानस्तीह कश्चन
निहत्य समरे शत्रूंस्तव दास्यामि फल्गुन

५.१५५.२४इत्युक्तो धर्मराजस्य केशवस्य च संनिधौ
शृण्वतां पार्थिवेन्द्राणामन्येषां चैव सर्वशः

५.१५५.२५वासुदेवमभिप्रेक्ष्य धर्मराजं च पाण्डवम्
उवाच धीमान्कौन्तेयः प्रहस्य सखिपूर्वकम्

५.१५५.२६युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः
सहायो घोषयात्रायां कस्तदासीत्सखा मम

५.१५५.२७तथा प्रतिभये तस्मिन्देवदानवसंकुले
खाण्डवे युध्यमानस्य कः सहायस्तदाभवत्

५.१५५.२८निवातकवचैर्युद्धे कालकेयैश्च दानवैः
तत्र मे युध्यमानस्य कः सहायस्तदाभवत्

५.१५५.२९तथा विराटनगरे कुरुभिः सह संगरे
युध्यतो बहुभिस्तात कः सहायोऽभवन्मम

५.१५५.३०उपजीव्य रणे रुद्रं शक्रं वैश्रवणं यमम्
वरुणं पावकं चैव कृपं द्रोणं च माधवम्

५.१५५.३१धारयन्गाण्डिवं दिव्यं धनुस्तेजोमयं दृढम्
अक्षय्यशरसंयुक्तो दिव्यास्त्रपरिबृंहितः

५.१५५.३२कौरवाणां कुले जातः पाण्डोः पुत्रो विशेषतः
द्रोणं व्यपदिशञ्शिष्यो वासुदेवसहायवान्

५.१५५.३३कथमस्मद्विधो ब्रूयाद्भीतोऽस्मीत्ययशस्करम्
वचनं नरशार्दूल वज्रायुधमपि स्वयम्

५.१५५.३४नास्मि भीतो महाबाहो सहायार्थश्च नास्ति मे
यथाकामं यथायोगं गच्छ वान्यत्र तिष्ठ वा

५.१५५.३५विनिवर्त्य ततो रुक्मी सेनां सागरसंनिभाम्
दुर्योधनमुपागच्छत्तथैव भरतर्षभ

५.१५५.३६तथैव चाभिगम्यैनमुवाच स नराधिपः
प्रत्याख्यातश्च तेनापि स तदा शूरमानिना

५.१५५.३७द्वावेव तु महाराज तस्माद्युद्धाद्व्यपेयतुः
रौहिणेयश्च वार्ष्णेयो रुक्मी च वसुधाधिपः

५.१५५.३८गते रामे तीर्थयात्रां भीष्मकस्य सुते तथा
उपाविशन्पाण्डवेया मन्त्राय पुनरेव हि

५.१५५.३९समितिर्धर्मराजस्य सा पार्थिवसमाकुला
शुशुभे तारकाचित्रा द्यौश्चन्द्रेणेव भारत