५.१५७.१संजय उवाच
५.१५७.२हिरण्वत्यां निविष्टेषु पाण्डवेषु महात्मसु
दुर्योधनो महाराज कर्णेन सह भारत
५.१५७.३सौबलेन च राजेन्द्र तथा दुःशासनेन च
आहूयोपह्वरे राजन्नुलूकमिदमब्रवीत्
५.१५७.४उलूक गच्छ कैतव्य पाण्डवान्सहसोमकान्
गत्वा मम वचो ब्रूहि वासुदेवस्य शृण्वतः
५.१५७.५इदं तत्समनुप्राप्तं वर्षपूगाभिचिन्तितम्
पाण्डवानां कुरूणां च युद्धं लोकभयंकरम्
५.१५७.६यदेतत्कत्थनावाक्यं संजयो महदब्रवीत्
मध्ये कुरूणां कौन्तेय तस्य कालोऽयमागतः
यथा वः संप्रतिज्ञातं तत्सर्वं क्रियतामिति
५.१५७.७अमर्षं राज्यहरणं वनवासं च पाण्डव
द्रौपद्याश्च परिक्लेशं संस्मरन्पुरुषो भव
५.१५७.८यदर्थं क्षत्रिया सूते गर्भं तदिदमागतम्
बलं वीर्यं च शौर्यं च परं चाप्यस्त्रलाघवम्
पौरुषं दर्शयन्युद्धे कोपस्य कुरु निष्कृतिम्
५.१५७.९परिक्लिष्टस्य दीनस्य दीर्घकालोषितस्य च
न स्फुटेद्धृदयं कस्य ऐश्वर्याद्भ्रंशितस्य च
५.१५७.१०कुले जातस्य शूरस्य परवित्तेषु गृध्यतः
आच्छिन्नं राज्यमाक्रम्य कोपं कस्य न दीपयेत्
५.१५७.११यत्तदुक्तं महद्वाक्यं कर्मणा तद्विभाव्यताम्
अकर्मणा कत्थितेन सन्तः कुपुरुषं विदुः
५.१५७.१२अमित्राणां वशे स्थानं राज्यस्य च पुनर्भवः
द्वावर्थौ युध्यमानस्य तस्मात्कुरुत पौरुषम्
५.१५७.१३अस्मान्वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम्
अथ वा निहतोऽस्माभिर्वीरलोकं गमिष्यसि
५.१५७.१४राष्ट्रात्प्रव्राजनं क्लेशं वनवासं च पाण्डव
कृष्णायाश्च परिक्लेशं संस्मरन्पुरुषो भव
५.१५७.१५अप्रियाणां च वचने प्रव्रजत्सु पुनः पुनः
अमर्षं दर्शयाद्य त्वममर्षो ह्येव पौरुषम्
५.१५७.१६क्रोधो बलं तथा वीर्यं ज्ञानयोगोऽस्त्रलाघवम्
इह ते पार्थ दृश्यन्तां संग्रामे पुरुषो भव
५.१५७.१७तं च तूबरकं मूढं बह्वाशिनमविद्यकम्
उलूक मद्वचो ब्रूया असकृद्भीमसेनकम्
५.१५७.१८अशक्तेनैव यच्छप्तं सभामध्ये वृकोदर
दुःशासनस्य रुधिरं पीयतां यदि शक्यते
५.१५७.१९लोहाभिहारो निर्वृत्तः कुरुक्षेत्रमकर्दमम्
पुष्टास्तेऽश्वा भृता योधाः श्वो युध्यस्व सकेशवः